________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः पाषाणवत्त्वेऽपि तदुपस्थितिर्जाता तदानीमुभयोः प्रबलत्वात् स्वार्थानुमाने सत्प्रतिपक्षत्वमित्यर्थः / इदं मतं दूषयति - तन्नेति / एकदेति मूलम् / एकदैव यत्र व्याप्तिपक्षधर्मतोभयोपस्थितिर्जाता अथवा द्वयोनिरन्तरयोरव्यवधानेन व्याप्तिपक्षधर्मतोभयोपस्थितिर्जाता तत्रोभयोः परस्परं सत्प्रतिपक्षत्वसम्भवात् परार्थानुमानेऽपि सत्प्रतिपक्षो दोषः इत्युक्तम् / यथा वह्निमान् धूमात् इति अथ पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इति उभयोरेकदैव व्याप्तिपक्षधर्मतोभयोपस्थितिर्जाता उभाभ्यां पञ्चावयवानुमानकरणात् द्वयोरपि हेत्वोर्मध्यस्थस्य व्याप्तिपक्षधर्मतोपस्थितौ जातायाम्, प्रतिवादिनोवायुगपदेवव्याप्तिपक्षधर्मतोभयोपस्थितिर्जाता, तत्रसत्प्रतिपक्षत्वमेव दोषः। ननुस्वार्थानुमाने युगपदुभयव्याप्तिपक्षधर्मतोपस्थितिर्भवतुनामपरन्तुपरार्थानुमाने उभयोर्हेत्वो ाप्तिपक्षधर्मतोपस्थितिः कथं स्यादित्यत आह - युगपदुपस्थितेश्चेति मूलम् / तथा च यथा स्वार्थानुमाने उभयोर्हेत्वोर्व्याप्तिपक्षधर्मतोभयोपस्थितियुगपदेवोभयपदार्थस्मरणरूपसामग्रीवशात् / एतदेवाह - कारणेति मूलम् / व्यभिचारज्ञानाभावसहचारज्ञानादिकारणवशात् / यथा समूहालम्बनरूपशाब्दज्ञानं जायते ‘घटपटौ आनय' इत्युभयसन्निकर्षवशात् तथाधूमपाषाणवत्त्वयोरप्युभयव्याप्तिपक्षधधर्मतोपस्थितिः स्यादेवेति परार्थानुमानेऽपि स दोष इत्यर्थः। अथटीका।ननु व्याप्तिपक्षधर्मतया ज्ञातत्वं यल्लक्षणंतत्।यत्रोभयोर्मध्ये एकत्रहेतौ अधिकबलोपस्थितिर्जाता अपरत्रचन्यूनबलोपस्थितिस्तत्रोभयत्रव्याप्तिपक्षधर्मतया ज्ञातत्वं वर्तते परमेकत्रानुकूलतर्कावतारोऽपरत्रानुकूलतर्कावतारो नास्ति, यथा वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र प्रथमेऽनुकूलतर्को वर्तते वढ्यभावे धूमो न स्यादिति रूपः परं द्वितीयेऽनुकूलतर्को नावतीर्णः, तेन [277 B] यत्रानुकूलतर्कावतारो जातस्तत् प्रबलं यत्र चानुकूलतर्कावतारोन जातस्तत् दुर्बलमिति तत्रापि व्याप्तिपक्षधर्मतया ज्ञातत्वरूपं लक्षणं वर्तते इति कृत्वा तत्रातिव्याप्तिरित्यन्यथा व्याचष्टे - व्याप्तिपक्षधर्मतावगाहीति। तथा च व्याप्तिपक्षधर्मतावगाहि यत् समानज्ञाने विषयत्वंतत्त्वं विवक्षितम्, ततो यत्रानुकूलतर्कोऽवतीर्णस्तत्रसमानत्वं नास्ति इतिकृत्वा नातिव्याप्तिरित्यर्थः / यद्यपीति टीका।शब्दो नित्यः श्रावणत्वात् इत्यत्र नित्यत्वव्याष्यश्रावणत्वस्य भ्रमरूपाऽपि व्याप्तिप्रसिद्धिः सम्भवत्येव यथा श्रावणत्वे धर्मिणि नित्यत्वव्याप्तेभ्रंमरूप आरोपः सम्भवत्येव यथा अत्र श्रावणत्वे नित्यत्वव्याप्तिर्वर्तते इतिभ्रमरूपंज्ञानंसम्भवत्येवेतिआरोपयितुमशक्यत्वादितिमूले यदुक्तं तन्नसम्भवतीति। यद्यपीति ग्रन्थेन पूर्वपक्षार्थः / समाधत्ते - तथापीति टीका / तथा च श्रावणत्वे नित्यत्वव्याप्यत्वमारोपयितुं शक्यते तथापि नित्यत्वव्याप्यश्रावणत्वस्य आरोपः शब्दे न सम्भवति / कथम् ? नित्यत्वव्याप्यश्रावणत्वस्य विशिष्टस्याप्रमितौ सत्यामारोपयितुमशक्यत्वात् / यद्यपि भ्रमोपस्थितमपि विशिष्टमारोपयितुं शक्यते तथापि प्रमितमेवारोप्यते इति मतमादाय दूषणम्, तथा च नित्यत्वव्याप्यश्रावणत्वं कुत्रापि प्रमितं नास्तीति न तदारोपः