________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 537 बलं चेति मूलम् / बलं विचारयति / किं बलम् / न सपक्षे सत्त्वादी(दि)ति व्यतिरेकिणः सपक्षस्यैवाभावात् / सपक्षसत्त्वरूपबलं नास्तीति अव्याप्तिः / लक्षणान्तरमाशक्य निराकरोति - नापीति मूलम् / समाने व्याप्तिपक्षधर्मते यस्य।इदं दूषयति- विरोधेनेतिमूलम्।नहिएकत्रपर्वतलक्षणेपक्षे साध्यस्यापिव्याप्तिपक्षधर्मतावल्लिङ्गं तिष्ठति साध्याभावस्यापि व्याप्तिपक्षधर्मतावल्लिङ्गं तिष्ठति / एकत्रावश्यं व्याप्तिपक्षधर्मताभङ्गनियमः एकत्र साध्यसाध्याभावव्याप्ययोर्विरोधेनासत्त्वात् / तृतीयलक्षणं दूषयति - नापीति मूलम् / व्याप्तिपक्षधर्मताया ज्ञातत्वं हेतोः द्वयोरिति शेषः / तथा च एकस्मिन् पक्षे साध्यसाध्याभावव्याप्यपक्षधर्मतावल्लिङ्गं न तिष्ठति तथापि तद(द्)ज्ञानं तिष्ठत्येवेति भेदः / पुनरपीदं लक्षणं दूषयति - विरोधीति। तथा च ज्ञानं किं प्रमारूपं वा भ्रमरूपं वा ? आये यदि प्रमारूपं तदा व्याप्तिपक्षधर्मताविशिष्टज्ञानयोरन्यतरत्वभ्रमनियमात् वस्तुगत्या उभयत्र व्याप्तिपक्षधर्मते तु प्रमारूपे न भवत इति / यदि च भ्रमरूपं तदा दूषणमाह - नित्यत्वव्याप्येति मूलम् / यथा शब्दोऽनित्यः कृतकत्वात्घटवत्, द्वितीयः शब्दो नित्यः श्रावणत्वात्।प्रथमः परामर्शोऽनित्यत्वव्याप्यकृतकत्ववान् अयम्। द्वितीयस्तु नित्यत्वव्याप्यश्रावणत्ववान् अयमिति। अत्र एतादृशः परामर्शो वक्तव्यः, स चन सम्भवति, नित्यत्वव्याप्यश्रावणत्वस्याप्रसिद्धत्वात्।न हिवन्ध्यापुत्रस्य आरा(रो)पःकुत्रापि सम्भवतियथावन्ध्यापुत्रवान् अयमिति / हट्टादौ प्रसिद्धस्यैव रजतस्य शुक्त्यादावारोपः / न तु नित्यत्वव्याप्यश्रावणत्वं कुत्रापि प्रसिद्धम्, नित्यत्वव्याप्यवस्तुनः श्रावणत्वस्याभावात् / कथम् ? यथा वन्ध्या एषा सुतवती अयं भ्रमो न सम्भवति। भ्रमे हि क्वचित् प्रमितं सत् क्वचिदारोप्यते यथा रजतम् / न च नित्यत्वव्याप्यश्रावणत्वं कुत्रापि प्रमितं तादृशवस्तुनोऽभावात् इति कृत्वा तस्यभ्रमोन सम्भवतीति। एतदेवाह-आरोपयितुमिति। तथा चनित्यत्वव्याप्यश्रावणत्वविशिष्टस्यारोपोऽसिद्धः / विशिष्टस्यारोपाभावेऽपि खण्डप्रसिद्धयाऽऽरोपो भविष्यतीति अत आह - न चेति / * तथा च यद्यपि विशिष्टमप्रसिद्धं तथापि प्रसिद्धं भविष्यति। ततो नित्यत्वव्याप्यं गगनादिकं प्रसिद्धम्, तत्र श्रावणत्वस्यारोप: अथवा श्रावणत्वे धर्मिणि नित्यत्वव्याप्यत्वस्यारोपः, ततः सिद्धं यथा वन्ध्यापुत्रस्याप्रसिद्धत्वेऽपि पुत्रत्वं प्रसिद्धम्, तेन पुत्रे वान्ध्येयत्वमारोप्यते, वन्ध्या तु प्रसिद्धाऽस्त्येवेति खण्डारोपेणारोपरूपपरामर्शो [276 B]भविष्यतीत्याशङ्कार्थः। साध्यव्याप्यस्येतिमूलम्।साध्यं यन्नित्यत्वंतद्वयाप्यं गगनत्वम्, तत्रगगनत्वे पक्षधर्मता शब्दवृत्तिता आरोप्यते अथवा पक्षधर्मस्य शब्दत्वस्य नित्यत्वव्याप्तिरारोप्यते यत्र शब्दत्वं तत्र नित्यत्वमिति शब्दत्वं नित्यत्वव्याप्यमिति शङ्कार्थः / दूषयति - एकत्रेति। अत्र यद्यपि नित्यत्वव्याप्यत्वं प्रसिद्धं श्रावणत्वेऽपि पक्षधर्मता प्रसिद्धा तर्हि श्रावणत्वे धर्मिणि नित्यत्वव्याप्यत्वस्यारोपो भवतु नाम परन्तु शब्दे धर्मिणि नित्यत्वव्याप्यश्रावणत्वस्यारोपः कथं स्यात् नित्यत्वव्याप्यश्रावणत्वस्याप्रसिद्धत्वात् / तथा चैकत्र शब्दरूपे धर्मिणि तदुपनयस्येतिव्याप्तिपक्षधर्मतारूपोपनयस्याभावात् यथा नित्यत्वव्याप्यश्रावणत्ववान् अयम्