________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः सत्प्रतिपक्षत्वं न समानबलबोधितसाध्यविपर्ययलिङ्गत्वम्, परस्परप्रतिबन्धेनोभयोरबोधकत्वात् बलंचन सपक्षसत्त्वादि व्यतिरेकिण्यभावात् / नापि समानव्याप्तिपक्षधर्मतावत्त्वम्, विरोधेनैकत्र तद्भङ्गनियमात् / नापि व्याप्तिपक्षधर्मतया ज्ञातत्वं विरोधिव्याप्तिपक्षधर्मताविशिष्टज्ञानयोरन्यतरभ्रमत्वनियमेन नित्यत्वव्याप्यश्रावणत्वादिवैशिष्टयाप्रसिद्धया आरोपयितुमशक्यत्वात् / न च साध्यव्याप्यस्य पक्षधर्मता पक्षधर्मस्य वा साध्यव्याप्यता आरोप्या इति वाच्यम् / एकत्र तदुभयाभावात् विशिष्टस्याप्रसिद्धया तद्वैशिष्टयस्यारोपासम्भवात् / नाप्यनिर्धारितविशेषेण बोधितसाध्यविपर्ययकत्वम् उभयोरबोधकत्वात् विशेषश्चनव्याप्तिभङ्गाभङ्गरूपः एकत्र तद्भङ्गनियमात् / उच्यते।साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्याप्रतिरुद्धकार्यलिङ्गत्वंतत्त्वम्, बलंचव्याप्तिपक्षधर्मते।विरोधिबोधकान्यगमकतौपयिकरूपसम्पत्तिमत्तयाज्ञायमानेन प्रतिरुद्धकार्यत्वंवा तत्त्वम्, स्थापनाया व्याप्तिपक्षधर्मत्वमुभयवादिसिद्धं वादिना तदभावानुपन्यासात्, द्वितीयस्य तु तत्त्वमन्यतरासिद्धमिति प्रथमेन द्वितीयं बाधितमिति स्वार्थानुमान एवायं दोष इत्येके / तन्न / एकदा निरन्तरयोर्वोभयोाप्तिपक्षधर्मतया ज्ञातयोः प्रतिपक्षत्वात् युगपदुपस्थितेश्च कारणवशेन स्वपरसाधारणत्वात् / ___ अथ सत्प्रतिपक्षग्रन्थः / तत्र मूलम् / समानबलेति / समाने च ते बले व्याप्तिपक्षधर्मताज्ञानरूपे ताभ्यां बलाभ्यां बा(बो)धितौ 'साध्यविपर्ययौ यस्य तादृशलिङ्गत्वम् / यथा पर्वतो वह्निमान् धूमात् अथ पर्वतो वह्नयभाववान् पाषाणवत्त्वात् ह्रदवत् / अत्र पूर्वेण धूमेन वह्निः साध्यते परेण पाषाणवत्त्वेन वढ्यभावः [276 A] साध्यते।यथाहि - [यदा]धूमेन स्वव्याप्तिपक्षधर्मतोपस्थित्यावह्निः साध्यते तदा पाषाणवत्त्वेनापिव्याप्तिपक्षधर्मतोपस्थित्या वह्नयभावोऽपि साध्यते इति द्वयोस्तुल्यबलत्वम् / एवमत्रोभयोस्तुल्यबलत्वे ज्ञानदशायां केनापि कस्यापि प्रतिबन्धो न भवतीति सत्प्रतिपक्षत्वं परस्परं द्वयोरपीति / इदं लक्षणं दूषयति - परस्परेति मूलम् / तथा च सत्प्रतिपक्षे बोधितसाध्यविपर्ययत्वमेव नास्ति परस्परप्रतिबन्धेनोभयोरबोधकत्वात्। अत्रैव दूषणान्तरमाह - 1. साध्यसाध्याभावरूपौ। प्रतौ टिप्पणी।