________________ हेत्वाभासप्रकरणे विरुद्धः 535 विरुद्धत्वग्रहकालेऽपि शब्दाभासादिना धूमव्याप्यत्वग्रहसम्भवात् / तथा च द्वितीयतृतीयज्ञाने प्रतिबन्धकमेव न भवति। अत्राशङ्कते - न चेति टीका / तथा च पूर्वोक्तं यत् साध्यवदवृत्तित्वं स एव विरुद्धो हेत्वाभासः / सकेन प्रकारेण ग्राह्यः ?, तद्ग्रहणे इदं प्रकारत्रयं साध्याभावव्याप्यत्वादिकमिति शङ्कार्थः। समाधत्ते - एतत् त्रयं पूर्वोक्तं यत् साध्यवदवृत्तित्वं तद्ग्रहणे प्रकारो न भवति / यत एतद्ग्रहेऽपि तदग्रहात्, एतदग्रहेऽपि तद्ग्रहात् इति न तद्ग्रहणे प्रकारत्रयम् / अथायं चेति ग्रन्थे आभासं ददाति - नन्विति टीका / तथा च यत्र विरुद्धस्तिष्ठति तदा बाध्य(ध)व्यभिचारादिकमावश्यकम्। मूलार्थमाह - तथाचेति टीका। उपधेयस्य साङ्कर्येऽपि उपाधेरसाङ्कर्यात् / यथा बाधज्ञानं व्यभिचारज्ञानं वा प्रतिबन्धकं तद्वत् साध्यवदवृत्तित्वज्ञानमपि प्रतिबन्धकमिति कृत्वा तद्विरुद्धो हेत्वाभासः / स्वयं योयि(जि)तग्रन्थे व्याख्यानान्तरं दूषयति - यत् त्विति टीका / अयं यो विरुद्धः स क्वचित् बाधादिसङ्कीर्णोऽपि भवति इति स्वरूपकथनमात्रं कृतं ग्रन्थकृता अयं चेति ग्रन्थेन / एतदुदाहरणमाह - चतुर्विधा: परमाणवइति। अत्रानित्यत्वंसाध्यम्, पार्थिवपरमाणुत्वादित्यत्रहेतुः भागेजलादौ स्वरूपासिद्धम्, परमाणुषु अनित्यत्वसाध्याभावात् बाधः, ततोऽत्र बाधोऽपि वर्तते भागे स्वरूपासिद्धोऽपि वर्तते, विरुद्धत्वमपि वर्तते परमाणुत्वस्यानित्यत्वेन सह विरोधात् / इदं दूषयति - प्रकृतेति टीका / प्रकृते विरुद्धस्वरूपे सार्यकथनस्योपयोगाभावात् / तथा च विरुद्धे प्रमेयत्वमस्तीतिवत् विरुद्ध हेत्वन्तरसार्यकथनेन विरुद्धस्य किमप्युपयोगो न भवतीत्यर्थः / इति विरुद्धग्रन्थे टीकार्थः समाप्तः / / इति विरुद्धग्रन्थः पूर्णः।