________________ 534 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिकाः यथाऽग्निना सिञ्चेत् इत्यत्र पदपदार्थयोः संसर्गाभावप्रमा तिष्ठति / प्रमैव च प्रकृते विरुद्धत्वधीः, यतः उभयोः पदार्थयोः संसर्गाभाव एव प्रमास एव विरोधइत्यर्थः / सिद्धान्ते टीकाभिप्रायो यथा नात्र विरुद्धत्वमेवायोग्यत्वम्, अयोग्यता नाम संसर्गाभावप्रमा, विरुद्धत्वं नाम संसर्गबाधः संसर्गबाधस्य संसर्गाभावप्रमायामुपजीव्यत्वादिति भावः / अत्रेति टीका / यैवेति टीका / मूलकारेणोक्तम् अयोग्यताज्ञाने बाध उपजीव्य इति तच्चिन्त्यमित्याह - अत्रेति टीका / यथा ह्रदे पक्षे वह्नयभावधी: बाधधी: अनुमाने, सैव च शाब्दे बोधेऽयोग्यताधीः, ततो बाधायोग्यत्वयोरुपजीव्योपजीवकभाव एवनास्ति इति चिन्त्यार्थः।ननु निरग्निकत्वात् इत्यस्य साध्यव्यापकाभावत्वमेव न तु साध्यव्यापकाभावव्याप्यत्वं यथा धूमव्यापको वह्निस्तदभाव एव निरग्निकत्वम् / न तु निरग्निकत्वस्य निरग्निकत्वं व्याप्यमित्यान्याथा व्याचष्टे - अग्निसम्बन्धाभावादित्यर्थः / एतदेव विवृणोति - तेनेति / धूमव्यापको यो वह्निस्तस्य योऽभावो वह्नयभावः, तद्व्याप्यो वढ्यभावस्य व्याप्यो वह्निसम्बन्धाभावो भवति यथा यत्र वह्निसम्बन्धाभावस्तत्र वह्नयभाव इति। मतान्तरेणाह - अभेदेऽपीति। तथा च वह्नयभावस्य वन्यभावो व्याप्यो भवत्येवेति। यथाश्रुत एवायं हेतुः / अत्रैवानुकूलमाह - अत एवेति। यत एव मूलकृताऽभेदेऽपि व्याप्यव्यापकभाव उक्तोऽतो वह्नयभावस्यापि वढ्यभावो व्याप्यो भवतीत्यर्थः / एतदज्ञानेऽपीति मूले चिन्त्यमाह - यदिति टीका / मूलकारेण ये भेदाः त्रयः साध्याभावव्याप्यत्वादय उक्तास्ते किं प्रतिबन्धकज्ञानविषयतावच्छेदकत्रैविध्येन यदि त्रैविध्यं तदापूर्वोक्तानियानि साध्यवदवृत्तित्वादीनि तेषां यानि ज्ञानानि तेषामपि प्रतिबन्धकत्वात् त्रैविध्यमुपपन्नम्, बहवो भेदाः स्युः। द्वितीयं विकल्पमाह - पूर्वोक्तेति टीका। पूर्वोक्तानां साध्यवदवृत्तित्वादीनां यानिज्ञानानि तेषांयदि सहचारज्ञानविरोधित्वेनानुगमम् एकत्वं कृत्वाअनेन त्रैविध्योपाधिना विभागस्तदा दूषणमाह- तदेति टीका / एतेषामपि साध्याभावव्याप्यत्वादीनामपि सहचारज्ञानविरोधित्वेन एकत्वमेव भवतु किं त्रैविध्येन / पक्षान्तरं दूषयति - एतत् त्रैविध्यं साध्याभावव्याप्यत्वादिकं विरुद्धहेत्वाभासोपाधिरपि न भवति / किमिति त्रैविध्यं विरुद्धोपाधिन भवतीति / [275 B] क्रमेण त्रिषु दूषणमाह - प्रथमे इति टीका / प्रथमस्य साध्याभावव्याप्यत्वज्ञानस्य साधारणज्ञानत्वेनैव दूषकत्वं स्यात् / साध्याभावव्याप्यत्वंनाम साध्याभावेन सहाव्यभिचरितसम्बन्धः तथाच लाघवात्साध्याभावसम्बन्धज्ञानत्वं यत् साधारणज्ञानत्वं तेनैव रूपेण दूषकत्वमस्तु, किं विरुद्धेन। द्वितीयतृतीययोरप्याह - विरुद्धेऽव्यभिचारांशोऽधिक(कः), साध्यव्यापकाभावत्वसाध्यव्यापकविरुद्धोपलम्भयोः सामानाधिकरण्यग्रहे सामानाधिकरण्यरूपग्राह्याभावानवगाहित्वात् हेत्वाभासत्वं नास्ति, किं विरुद्धत्वेन / एतदेव विवृणोति - न हीति टीका / यथा धूमवान् इत्यत्र धूमवत्त्वे साध्ये वह्नयभावव्याप्यत्वग्रहस्य वह्निविरुद्धत्वग्रहस्य वा विरोधित्वं सहचारग्रहे प्रतिबन्धकमेव नास्ति, धूमसहचारग्रहे धूमविरुद्धत्वग्रह एव प्रतिबन्धकः न तु पूर्वोक्तविरुद्धत्वग्रहः साध्यव्यापक