________________ हेत्वाभासप्रकरणे विरुद्धः 533 त्वज्ञानमन्वयव्याप्तिग्रहे प्रतिबन्धकं भवत्येव। यतोऽश्वत्ववदवृत्तिगोत्वमिति ज्ञानेऽश्वत्ववद्वृत्तिगोत्वमित्येतादृशं ज्ञानं न जायते इत्यतस्तत्र तत्प्रतिबन्धकम् / ननु साध्यवद्वृत्तित्वग्रहे साध्यवदवृत्तित्वग्रहश्चेत् प्रतिबन्धकस्तदा साध्यवदवृत्तित्वमेव विरुद्धत्वमस्तु, कृतं वृत्तिमत्त्वांशेएन] इत्यत आह - तत्र चेति टीका। ततो वृत्तिमत्त्वप्रवेशो मास्तु, तं विनापि विरुद्धत्वं सम्भवत्येव / न चैवं द्रव्यमाकाशात् इत्यत्र साध्यवदवृत्तित्वज्ञानस्य विद्यमानत्वात् अतिव्याप्तिरिति वाच्यम्। तस्यापि साध्यवदवृत्तित्वेन विरुद्धत्वमेव।नत्वेवम्, तादृशविरुद्धत्वग्रहस्याकाशादिहेतुके विरुद्धव्यतिरेकव्याप्तिग्रहे प्रतिबन्धकत्वाभावात् कथं हेत्वाभासत्वमिति चेन्न व्यतिरेकव्याप्तिग्रहप्रतिबन्धकत्वाभावेऽपि व्यतिरेकव्याप्त्या यदन्वयव्याप्तिग्रहो जायते तत्र प्रतिबन्धकं तिष्ठत्येवेत्यर्थः / अत एवेति / यतोऽन्वयव्याप्तिग्रह एव विरुद्धत्वग्रहः प्रतिबन्धकोऽत एव व्याप्यत्वासिद्धिरप्यन्वयव्याप्तिग्रहे प्रतिबन्धिका। व्यर्थविशेषणे नीलधूमादौ या व्याप्यत्वासिद्धिस्तिष्ठति यतो नीलधूमत्वावच्छिन्ना व्याप्तिास्ति धूमत्वावच्छिन्ना एव व्याप्तिः / नीलधूमत्वावच्छिन्नव्याप्तेरभावात् नीलधूमत्वावच्छिन्ना व्यर्थविशेषणिका व्याप्यत्वासिद्धिः, साऽप्यन्वयव्याप्तिग्रहे एव प्रतिबन्धिका / यथा यत्र वह्नयभावस्तत्र नीलधूमाभाव इति व्यतिरेकव्याप्तिग्रहो भवत्येवेति न व्यतिरेकग्रहे प्रतिबन्धकता किन्तु अन्वयव्याप्तिग्रहे एव, नीलधूमत्वस्य गौरवेण कृत्वा नीलधूमत्वावच्छिन्नाऽन्वयव्याप्तिर्ग्रहीतुं न शक्यत इत्यर्थः / विषयविरोधाभावादिति टीका। व्यर्थविशेषणत्वं नाम अनवच्छेदकत्वम्, तेनावच्छेदकघटितं व्याप्तिज्ञानं विरुध्यते ग्राह्याभावावगाहित्वात् / ग्राह्यमवच्छेदकम्, तदभावावगाहिज्ञानेनावच्छेदकत्वज्ञाने(नं) विरुध्यत एवेत्यर्थः / व्यतिरेक्यतिव्याप्तिरिति मूलं व्याचष्टे - व्यतिरेक्यतिव्याप्तिरिति टीका / ननु व्यतिरेकिण्यतिव्याप्तिर्मूलकारेण दत्ता सा न सम्भवति, वस्तुगत्या तत्रापि साध्यवदवृत्तित्वाभावात्, पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यत्रपृथिवीत्वस्य हेतोरितरभेदवत्यां पृथिव्यां विद्यमानत्वात् साध्यवदवृत्तित्वस्यासम्भवात् इत्यत आह - साध्यवदवृत्तित्वज्ञानस्येति। अत्र वस्तुनः साध्यवदवृत्तित्वस्य यद्यपि अतिव्याप्तिास्ति तथापि साध्यवदवृत्तित्वज्ञानं तत्र तिष्ठति यतस्तत्र साध्यवद्वृत्तित्वज्ञानं नास्ति हेतोः साध्यस्याप्रसिद्धत्वात्।अतस्तत्रसाध्यवदवृत्तित्वज्ञानं तिष्ठतीति व्याप्तिग्रहप्रतिबन्धद्वाराऽनुमितिप्रतिबन्धापत्तिः। ततो [275A]वस्त्वतिप्रसङ्गे: तात्पर्याभावात् ज्ञानातिप्रसङ्गे तात्पर्यमित्यर्थः / एतदेवाह - वस्त्वतिव्याप्तेरिति टीका / अत एवेति टीका / यतस्तज्ज्ञानस्यातिप्रसङ्गस्तत एवेत्यर्थः / व्यभिचाराज्ञानेति टीका।ननुदान्तिके विरुद्धत्वज्ञानसामानाधिकरण्यज्ञानयोरेव विरोधो दृष्टान्ते तु व्यभिचारज्ञानव्यभिचारज्ञानाभावयोः विरोध इति दृष्टान्तदाटन्तिकविरोध इत्यत आह - व्यभिचाराज्ञानस्येति टीका। अव्यभिचारज्ञानस्येत्यर्थः / तथा च अव्यभिचारज्ञानव्यभिचारज्ञानयोरेव विरोध इत्यर्थः / ननु अयोग्यताज्ञानमपार्थकत्वज्ञानमेव भवतु परमयोग्यताज्ञानं विरुद्धत्वज्ञानं कथं स्यादिति प्रश्ने आह - पदपदार्थयोरिति टीका।