________________ 530 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका इत्यर्थः / तान् उद्दिशति- साक्षादिति। एकः साक्षात् साध्याभावव्याप्यत्वात्। द्वितीयमाह - साध्यव्यापकाभावव्याप्यत्वात्। तृतीयो यथा साध्यव्यापकविरुद्धोपलम्भात्। क्रमेणोदाहरति - यथा धूमवानयं योग्यधूमवत्तयाऽनुपलभ्यमानत्वात् / अत्र साक्षात् साध्यस्याभावो धूमाभावस्तद्वयाप्यत्वं वर्तते योग्यधूमवत्तयाऽनुपलभ्यमानत्वस्य / यथा यत्र योग्यधूमवत्तयाऽनुपलभ्यमानत्वं तत्र धूमाभाव इति / साक्षात् अव्यवधानेनेत्यर्थः / द्वितीयमुदाहरति - निरग्निकत्वादिति / धूमवानयं निरग्निकत्वात् / अत्र साध्यस्य धूमस्य यद्व्यापकं योग्यधूमवत्तयोपलभ्यमानत्वं यत्र यत्र धूमस्तत्र योग्यधूमवत्तयोपलभ्यमानत्वमिति, तस्य योऽभावो योग्यधूमवत्तयाऽनुपलभ्यमानत्वं तद्व्याप्यत्वं वर्तते निरग्निकत्वस्य यथा यत्र निरग्निकत्वं तत्र तत्र योग्यधूमवत्तयाऽनुपलभ्यमानत्वम्। तृतीयमाह- जलाशयत्वादितिमूलम्।पर्वतोधूमवह्निमान् (धूमवान्)जलाशयत्वात्. इत्यत्र साध्यो धूमस्तद्व्यापको वह्निस्तद्विरुद्धो जलाशयस्तत्त्वात्, अतः साध्यव्यापकविरुद्धोपलम्भो वर्तत इति तृतीयः / अत्राशङ्कते - नचेति। तथा च त्रयाणामप्येतेषां साध्यव्यापकविरुद्धोपलम्भेनैव एकत्वमेवास्तु, किमर्थं विभागत्रयमित्यत आह समाधत्ते - एतदज्ञानेऽपीति मूलम् / एतदज्ञानेऽपि साध्यव्यापकविरुद्धोपलम्भकस्याज्ञानेऽपि साक्षात् साध्याभावव्याप्यत्वेनापिज्ञातस्य दूषकत्वात् भिन्नभिन्नेनापि रूपेण दूषकत्वं वर्तत इति कृत्वा त्रैविध्यम् / एतदेवाह - साध्याभावेति। साध्याभावव्याप्यत्वेन हेतोः साध्यव्यापकाभावव्याप्यत्वेन च ज्ञानस्य दोषत्वं वर्तते एवेति त्रैविध्यं युक्तमित्यर्थः / अथ विरुद्धस्य विभागान्तरमाशक्य निराकरोति - नचेति मूलम् / धूमवानयं तदभाववत्त्वात्धूमाभाववत्त्वात् घटादिवत् इदंविरुद्ध त्रयाधिकमित्याशङ्कार्थः। उक्तेष्वेवान्तर्भावयति -स्वसमानाधिकरणेति मूलम्। स्वशब्देन हेतुस्तत्समानाधिकरणो योऽत्यन्ताभावस्तस्यापि अप्रतियोगित्वं व्यापकत्वम्, तथा चायं साध्याभावव्याप्य एव / कथम् ? साध्यस्याभावः साध्याभांवो धूमाभावस्तद्व्याप्यत्वं धूमाभावे तिष्ठत्येव / यत्र धूमाभावस्तत्र धूमाभाव इति अभेदेऽपि व्याप्यव्यापकभावस्येष्टत्वात् / अन्यदपि विरुद्धान्तरमाशक्य निराकरोति - धूमाभाववत्तयेति मूलम् / अयं धूमवान् [273 A] धूमाभाववत्तया उपलभ्यमानत्वात् तद्वतया धूमवत्तयाऽनुपलभ्यमानत्वात् इदं विरुद्धान्तरं किमिति नोक्तमित्यत आह - अनैकान्तिकमेवेतिमूलम्। इदंविरुद्ध नभवतिकिन्तुअनैकान्तिकमेव, यतः कदाचित्धूमवत्यपि धूमाभाववत्तया उपलभ्यमानत्वं तिष्ठतिइतिसपक्षेसत्त्वाविपक्षेधूमाभाववत्यपि सत्त्वात्सपक्षविपक्षगामित्वात् अनैकान्तिकमेव, द्वितीयमपिइदं विरुद्धंनभवति, साध्यवत्यपि तदभाववत्तया उपलभ्यमानत्वं तिष्ठतीतिभावः।एवं निषेधसाधनेऽपि विरुद्धस्त्रिविधः। प्रथमभेदमाह] - प्रतियोग्युपलम्भात्। द्वितीयं भेदमाह - साध्यव्यापकाभावोपलम्भात् / तृतीयं भेदमाह - साध्यव्यापकविरुद्धोपलम्भात् / क्रमेणोदाहरणानि यथा निषेधसाधनं साध्याभावसाधनं पूर्वभेदकृतसाध्याभावसाधनं यथा अयं धूमाभाववान् धूमोपलम्भात् / अत्र प्रतियोग्युपलम्भो विरुद्धो हेतुः /