________________ हेत्वाभासप्रकरणे विरुद्धः 531 द्वितीयोदाहरणं यथा अयं धूमाभाववान् धूमाभावव्यापको यो धूमसामा यभावस्तदभावो धूमसामग्री तद्वत्त्वात्। अयं धूमाभावस्तस्य व्यापको यो धूमसामर यभावस्तदभावो धूमसामग्री तद्वत्त्वात् / तृतीयोदाहरणं यथा अयं धूमाभाववान् धूमवत्त्वात् इत्यत्र धूमाभावव्यापको यो धूमसामग्र यभावस्तद्विरुद्धो यो धूमस्तदुपलम्भात् / अत्र मूलपाठे निरग्नित्वात् इति पाठोऽशुद्ध इव लक्ष्यते। अथ विशेषणद्वाराऽपि विरुद्धमाह - सर्वश्चायमिति मूलम् / विशेषणद्वाराऽपिकोऽपि विरुद्धोभवति। यत्रसाध्यविशेषणंहेतुविशेषणेन सहविरुद्धं यथाअयं कृष्णागुरुप्रभववह्निमान् कटुकासुरभिपाण्डुरधूमवत्त्वात् इत्यत्र कृष्णागुरुप्रभवत्वं साध्यविशेषणं कटुकासुरभिपाण्डुरत्वं हेतुविशेषणं यतः कृष्णागुरुप्रभवो धूमः कटुको न भवति असुरभिर्न भवति पाण्डुरश्च न भवति इति साधनविशेषणविरोधः। अयमितिमूलम्। अयं विरुद्ध इत्यर्थः, बाधादिसङ्कीर्णो भवति।क्रमेणोदाहरणानि यथा अयं वह्निमान् ह्रदत्वात् / अत्र बाधोवर्तते ह्रदे वन्यभावात्।विरुद्धोऽप्ययं भवतिवन्यभावव्याप्तत्वात् हृदस्येति।आश्रयासिद्धसङ्कीर्णविरुद्धो यथा काञ्चनमयो ह्रदोवह्निमान् ह्रदत्वात्। अत्रकाञ्चनमयत्वमाश्रये विशेषणम्, तदसिद्धया आश्रयासिद्धः / स्वरूपासिद्धसङ्कीर्णविरुद्धो यथा हृदो वह्नयभाववान् धूमात् / अत्र हृदे धूमाभावात् स्वरूपासिद्धो धूमः / असाधारणसङ्कीर्णविरुद्धो यथा पर्वतो वह्नयभाववान् एतत्पर्वतत्वात् इत्यत्र एतत्पर्वतत्वं वह्नयभाववति पर्वतान्तरे नास्तीति असाधारणः। [273 B] इति विरुद्धग्रन्थे मूलव्याख्या सम्पूर्णा / ____ अथ टीका।अथ वृत्तिमत इत्यत्र ग्रन्थे आभासं ददाति - न त्विति। इदं द्रव्यमाकाशात्, यत्र द्रव्यत्वं तत्राकाशाभाव इतिविरुद्धलक्षणम्, साध्यव्यापको योऽभाव आकाशाभावस्तत्प्रतियोगित्वमाकाशे वर्तते इति कृत्वा विरुद्धलक्षणं वर्तते परमत्र विरुद्धत्वं नास्ति। अत्राशङ्कते - न चेति टीका / दूषकताबीजं सहचारग्रहविरोधः तत् तु.वर्तते आकाशस्यावृत्तित्वात् सहचारग्रहो नास्तीति विरुद्ध एवायमित्याशङ्कार्थः / दूषयति - तत्रेति टीका। उक्तविरुद्धत्वग्रहेण साध्यव्यापकाभावप्रतियोगित्वग्रहेणान्वयसहचारग्रहप्रतिबन्धेऽपि व्यतिरेकव्याप्तिग्रहप्रतिबन्धाभावात् यथा यत्र द्रव्यत्वाभावस्तत्राकाशाभाव इति व्यतिरेकव्याप्तिग्रहसम्भवात् इति व्यतिरेकव्याप्तिग्रहप्रतिबन्धो नास्तीति कृत्वाऽयं विरुद्धो न भवति। एवमुक्तविरुद्धलक्षणमविरुद्धे गतमित्यस्वरसादाहयद्वेतीति / यथा च आकाशे कथं नातिव्याप्तिरित्यत आह - वृत्तिमत इति टीका / तथा च यो वृत्तिमान् हेतुः . चेत् सकलसाध्याधिकरणनिष्ठात्यन्ताभावप्रतियोगी जातस्तदा व्यतिरेकव्याप्तिग्रहोऽपि न भवति आकाशस्य वृत्तिमत्त्वरूपविशेषणाभावना(वान्ना)तिव्याप्तिरित्यर्थः। अत्रकेचित् साध्यवदवृत्तित्वमेव विरुद्धलक्षणं समर्थयन्ति - केचित्त्विति। तथा चवृत्तिमत्त्वांशः किमर्थमित्यत आह - असङ्कीर्णस्थलाभिप्रायेण। एतदेव विवृणोति - अन्यथेति टीका / यदि हेतुरेवावृत्तित्वेन ज्ञातस्तदा स्वरूपासिद्धिरेव दूषणं भविष्यति। ततः किमित्यत आह -स्वरूपासिद्धीति। तदास्वरूपासिद्धिरेव दोषोभविष्यति। यदिवृत्तिमत्पदं न दीयते तदा स्वरूपासिद्धिरेव