________________ हेत्वाभासप्रकरणे विरुद्धः 529 वदवृत्तित्वेन रूपेणेत्यर्थः / अत्राशङ्कते - नचेति मूलम्। तथा च साध्यवदवृत्तित्वे सति वृत्तिमत्त्वज्ञानात् साध्याभाववद्गामित्वस्य ज्ञानं व्यभिचारज्ञानमावश्यकम् / तेन व्यभिचारज्ञानेन विना वृत्तिमतः साध्यववृत्तित्वमेव न सम्भवति / यतो वृत्तिमत् साध्यवति चेन्न वर्ततेऽवश्यं साध्याभाववति वर्तते इति व्यभिचारज्ञानमेव, ततोऽस्य व्यभिचारज्ञानत्वेनैव दूषकत्वमस्तु, यथाऽयमश्वो गोत्वात् इत्यत्र साध्याभावववृत्तित्वलक्षणं व्यभिचारज्ञानमेव दोष इति शङ्कार्थः। उत्तरयति - उपजीव्यत्वेनेति मूलम्। तथा च व्यभिचारज्ञाने विरुद्धत्वज्ञानमुपजीव्यं परम्परया कारणं यतो विरुद्धत्वज्ञानानन्तरं व्यभिचारज्ञानं जायते / ततो विरुद्धः पृथग् हेत्वाभास इति / यतो यद् वृत्तिमत् साध्यवतिन वर्तते तदवश्यं साध्याभाववतिवर्तते इतिसाध्याभाववद्वृत्तित्वज्ञाने साध्यवदवृत्तित्वज्ञानमुपजीव्यमिति भावः / अत्राशङ्कते - उपजीव्यत्वेऽपीतिमूलम्।यद्यपि साध्याभाववद्वृत्तित्वज्ञाने साध्यवदवृत्तित्वज्ञानमुपजीव्यं भवति तथापि साध्याभाववद्वृत्तित्वलक्षणं व्यभिचारज्ञानं स्वत एव दूषकं भवतु, न तु साध्यवदवृत्तित्वज्ञानं स्वतो दूषकं ग्राह्याभावानवगाहित्वात् - ग्राह्यं व्याप्तौ अव्यभिचरितसामानाधिकरण्यं तदभावानवगाहित्वात् - इति न चवाच्यम्। दूषयति- [असहचारज्ञानस्येतिमूलम्।।असहचारज्ञानं यद् वर्तते तत् सामानाधिकरण्यरूपव्याप्तिग्रहे विरोधि भवति। ततोऽसहचारज्ञानस्य सहचारज्ञानविरोधित्वात् ग्राह्याभावावगाहित्वात् सामानाधिकरण्यरूपव्याप्तिज्ञानप्रतिबन्धकत्वं तिष्ठत्येव / दृष्टान्तमाह - अव्यभिचारेति मूलम् / अव्यभिचरितसामानाधिकरण्यं व्याप्तिः। ततो व्यभिचारज्ञानम् अव्यभिचाररूपं यद्ग्राह्यं तदभावो यो व्यभिचार: तदवगाहित्वेन व्यभिचारज्ञानस्य प्रतिबन्धकत्वं तिष्ठत्येव, तद्वत् व्याप्तिज्ञानं हेतुसाध्ययोः सामानाधिकरण्यं ग्राह्यम्, तदभावावगाहि असहचारज्ञानम्, तत्त्वेन रूपेण साध्यवदवृत्तित्वादिज्ञानानां सर्वेषां विरुद्धज्ञानत्वेन प्रतिबन्धकत्वं भवत्येव।अत्राशङ्कते - नन्विति मूलम्। ननु विरुद्धो यो वर्तते सस्वार्थानुमाने दूषणं भवतु व्यभिचारज्ञानेऽस्योपजीव्यत्वात् परार्थानुमाने तुइंदमपार्थकमेवनिग्रहस्थानविशेषएव स्यात् यथाऽयमश्वो गोत्वात् इतिपरार्थानुमाने साध्यवदवृत्तित्वं यद् वर्तते तदपार्थकमेव / अनन्वयिपदजातस्यापार्थकत्वात् / यतोऽश्वत्वगोत्वयोरन्वय एव नास्ति / नन्वपार्थकत्वं कथमित्यत आह - अयोग्यतेति मूलम् / अयमश्वो गोत्वात् इत्यत्र अश्वत्वगोत्वयोरन्वयाभावात् [272 B] अयोग्यतेति भावः / उत्तरयति - अयोग्यताज्ञानस्येति मूलम् / यदेव गोत्वाश्वत्वयोर्विरोधज्ञानं तदेव गोत्वाश्वत्वयोरयोग्यताज्ञानं जायते / यतो विरोधज्ञानानन्तरमयोग्यताज्ञानं जायतेऽतोऽयोग्यताज्ञानं विरोधज्ञानेऽप्युपजीव्यं भवतीति विरुद्धः पृथग् हेत्वाभासः / तस्यैवेति विरुद्धस्यैवेत्यर्थः / नन्वश्वत्ववत्यवर्तमानं यद् गोत्वं तदधिकरणे गवि अश्वत्वं बाधितमिति बाधत्वेनैवात्रानुमाने दूषणमस्तु न तु विरुद्धेनेत्यत आह - एवं बाधेऽपि इति मूलम् / यथाऽयोग्यताज्ञाने विरोधज्ञानमुपजीव्यं तथाबाधज्ञानेऽपिविरोधज्ञानमुपजीव्यं भवतु। बाधज्ञानं यथागोत्वाधिकरणे गोव्यक्तौ अश्वत्वं नास्तीति। इति विरुद्धः पृथक् / अथ विरुद्धविभागमाह - स चायमिति मूलम्। विरुद्धस्त्रिविध