________________ 528 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साध्याभावव्याप्यत्वात्, साध्यव्यापकाभावव्याप्यत्वात्, साध्यव्यापकविरुद्धोपलम्भात्, यथा धूमवान् अयं योग्यधूमवत्तया अनुपलभ्यमानत्वात्, निरग्निकत्वात्, जलाशयत्वात्।नचसर्वत्र साध्यव्यापकविरुद्धोपलम्भ इति नत्रैविध्यम्, एतदज्ञानेऽपि साध्याभावतद्वयापकाभावव्याप्यत्वेनापि ज्ञातस्य दोषत्वात् / न च धूमवान् अयं तदभाववत्त्वादिति त्रयाधिकम्, स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं हि व्यापकत्वम्, तच्च अभेदेऽपिधूमवान् अयं धूमाभाववत्तयोपलभ्यमानत्वात् तद्वत्तयानुपलभ्यमानत्वादित्यनैकान्तिकमेव।निषेधसाधनेऽपि त्रिविधः - प्रतियोग्युपलम्भात्, साध्यव्यापकाभावोपलम्भात्, साध्यव्यापकविरुद्धोपलम्भात्, यथा निरग्निकोऽयम् अग्निमत्त्वात्धूमाभावशून्यत्वात्, धूमवत्त्वात्।सर्वश्चायं विशेषणद्वारापि यथा कृष्णागुरुप्रभववह्निमान् अयं कटुकासुरभिपाण्डरधूमवत्त्वात्। अयंच बाधाश्रयासिद्धस्वरूपासिद्धासाधारणसङ्कीर्णः क्वचित्। अथ मूलम् / यद्वेति मूलम् / वृत्तिमत इति मूलम् / तथा च वृत्तिमतो हेतोः साध्यवदवृत्तित्वं यथाऽयमश्वो गोत्वात् इत्यत्र वृत्तिमतो गोत्वस्य साध्यवदवृत्तित्वं वर्तते इति कृत्वा तस्य विरुद्धत्वम् / द्वितीयं लक्षणमाह - साध्यवदिति / साध्यवति यद् वृत्तित्वं धर्मः तदनधिकरणत्वं वर्तते वा इदम्, यथा अश्वत्वाधिकरणवृत्तित्वस्यानधिकरणत्वं गोत्वे इति विरुद्धः सः / अथ तृतीयमाह - साध्येति / साध्येन सहासमानाधिकरणो यो धर्मस्तत्त्वम्, अश्वत्वेन सहासमानाधिकरणो धर्मो गोत्वं भवति। चतुर्थमाह - साध्यवदिति / साध्यवत् अश्वत्ववत् यदधिकरणं तद्वृत्तित्वानधिकरणधर्मत्वं गोत्वे वर्तते इति विरुद्धत्वम् / अत्र शङ्कते -नचेति मूलम् / व्यतिरेकिणि वृत्तिमतः साध्यवदवृत्तित्वज्ञानं तिष्ठति, यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यत्र पृथिवीत्वस्य वृत्तिमतः साध्यवदवृत्तित्वज्ञानं विद्यते इतिन चवाच्यम्। दूषणमाह - तत्रेतिमूलम्।तत्रव्यतिरेकिणिसाध्यवदवृत्तित्वज्ञानमेव नास्ति साध्याप्रसिद्धेः। तथेति मूलम्।साध्यवदवृत्तित्वज्ञानविरहात् इत्यर्थः / ननु आकाशः शब्दवान् कृतकत्वादिति साधारणेऽतिव्याप्ति साध्यवति आकाशे कृतकत्वज्ञानाभावात् इत्यतिव्याप्तिः इत्यत आह - साधारणे चेति मूलम् / तथा च साधारणे यदि साध्यवदवृत्तित्वज्ञानं वर्तते [272 A] तदाऽनेन रूपेण साधारणोऽपि विरुद्ध एव / साधारणत्वं तु साध्याभाववद्वृत्तित्वेन। तथा चैकस्यापि कृतकत्वरूपहेतोः साध्यवदवृत्तित्वेन विरुद्धत्वम्, साध्याभाववद्वृत्तित्वेन साधारणत्वम् इति उपाधिभेदाभेद इत्यर्थः / एतदेवाह - अनेनापीति मूलम् / साध्य