________________ हेत्वाभासप्रकरणे विरुद्धः 527 ज्ञानं [2718] सामानाधिकरण्यग्रहे प्रतिबन्धकं भवति। द्वितीयमाह - सकलेति टीका। सकलानि यानि साध्याधिकरणानि तन्निष्ठा येऽन्योन्याभावास्तत्प्रतियोगितावच्छेदकत्वमपि सामान्याधिकरण्यग्रहे प्रतिबन्धकं भवति / यथाऽयमश्वो गोत्वात् इत्यत्र प्रथमेऽश्वत्ववद्यावदधिकरणं गोत्ववत् नास्ति। द्वितीये यावन्ति अश्वत्वाधिकरणानि तन्निष्ठा येऽन्योन्याभावागोत्ववदन्योन्याभावास्तत्प्रतियोगितावच्छेदकंगोत्वमितिज्ञानमपि सामानाधिकरण्यग्रहे प्रतिबन्धकं भवतीति तज्ज्ञानविषयो यः स हेत्वाभास इति विभागन्यूनता साऽत एव परिहता / कुतः ? उक्तोपाधिना सामानाधिकरण्ये साध्यहत्वनुयोगिक]त्वप्रतियोगिकत्वेत्यादिना विरुद्धमध्य एव लक्षितो भवतीत्यर्थः। अतएवेत्यस्य विवरणमाह - तज्ज्ञानस्येतिटीका।तज्ज्ञानानिपूर्वोक्तानि यदि सामानाधिकरण्यग्रहे प्रतिबन्धकानि तदोक्तोपाधिना विरुद्धमध्ये एवान्तर्भावात्, यदि च तज्ज्ञानस्य सामानाधिकरण्यग्रहे प्रतिबन्धकत्वं नास्ति तदा तस्य हेत्वाभासत्वं नास्त्येवेत्यर्थः / अथ विरुद्धसाधकं मतान्तरमाह - यत् त्विति / साध्यस्य या सामानाधिकरण्यधीः तद्विरोधि यत् ज्ञानं तद्विषयत्वं विरुद्धत्वं पूर्वकल्पे स्वयमुक्ते सामानाधिकरण्ये साध्यहेत्वनुयोगिकत्वप्रतियोगिकत्वधीविरोधिधीविषयत्वेनानुगम उक्तः / इह तु साध्येत्यादि दूषयति - अवृत्तीति टीका। अवृत्तिगगनादौ / यथाऽयमाकाशवान् द्रव्यत्वात् इत्यत्र आकाशरूपसाध्यसामानाधिकरण्यधीः अप्रसिद्धा। : यद्वा वृत्तिमतः साध्यवदवृत्तित्वं साध्यवद्वृत्तित्वानधिकरणत्वं सध्यासमानाधि करणधर्मत्वं साध्यवद्वृत्तित्वानधिकरणधर्मत्वं वा तत्त्वम् / न च व्यतिरेक्य(किण्य)तिव्याप्तिः, तत्रसाध्याप्रसिद्धया तथाज्ञानविरहात्। साधारणेचातिव्याप्तिरेवअनेनापि रूपेण तस्य दोषत्वात् / न च साध्यवदवृत्तित्वे सति वृत्तिमत्त्वज्ञानात् साध्याभाववद्गामित्वज्ञानमावश्यकं तेन विनासाध्यवदवृत्तित्वाज्ञानादिति वाच्यम्।उपजीव्यत्वेन भिन्नत्वात् उपजीव्यत्वेऽपि साध्यवति न वर्तत इति ज्ञानं न स्वतोदूषकमिति चेत् / न, असहचारज्ञानस्य विरोधितया व्याप्तिग्रहप्रतिबन्धकत्वात् 'व्यभिचाराज्ञानविरोधित्वेन व्यभिचारज्ञानवत् / ननु विरुद्धस्य स्वार्थानुमानदोषत्वेऽपि परार्थानुमानेऽपार्थकत्वमयोग्यताज्ञानेन निश्चितानन्वयादिति चेत् / न, अयोग्यताज्ञानस्य विरुद्धत्वज्ञानोपजीवकत्वेन तस्यैव दोषत्वात्, बाधेऽप्येवम् / स चायं विधिसाधने त्रिविधः - साक्षात् 1. मुद्रितपुस्तके तु असाधारणे च सङ्कर एव अनेनापि रूपेण तस्य दोषत्वात्' इति पाठः / 2. 'अव्यभिचारज्ञानविरोधित्वेन' इति टीकास्वीकृतः पाठः।