________________ 526 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका - विरुद्धत्वं नोच्यते, किन्तु साध्ये हेतुसामानाधिकरण्याभावः एव विरुद्धत्वम् इत्याशयेन शङ्कते - न चेति। तथा चाकाशसाध्यके पूर्वोक्तेऽनुमाने द्रव्यत्वसामानाधिकरण्यं घटे प्रसिद्धं तदभाव आकाशे साध्ये वर्तते एवेति सकलविरुद्धेषु लक्षणं व्यापकं वर्तते एवेति नाव्याप्तिः, अयवे(मे)व च विरुद्धहेत्वाभासोपाधिः / दूषयति - अस्यापीति टीका। इदं द्रव्यं [271 A]आकाशात् इत्यत्र विरुद्धेऽतिव्याप्तिः यतो हेतुसामानाधिकरण्यस्याकाशसामानाधिकरण्यस्याप्रसिद्धरित्यर्थः / अथेत्यारभ्य पूर्वपक्षो विरुद्धदूषणार्थः / विरुद्धं समर्थयति - सर्वेषामेवेति टीका / सर्वेषां साध्ये हेतुसामानाधिकरण्याभाव इत्येकः / हेतौ साध्यसामानाधिकरण्याभाव इत्यादीनां सर्वेषां विरुद्धोपाधित्वमेव कुत इत्यत आह - विरुद्धत्वाविशेषेणेति टीका / तथा च हेतौ साध्यसामानाधिकरण्याभावज्ञानं व्याप्तिज्ञानविरोधि अथ च साध्ये हेतुसामानाधिकरण्याभावज्ञानमपि व्याप्तिज्ञानविरोधि भवत्येवेति एको हेत्वाभासोपाधिरपरो नेति वक्तुमशक्यं विरोधित्वाविशेषेण, एकस्य हेत्वासोपाधित्वे विनिगमकाभावादित्यर्थः / न चेति। तथा च नानाज्ञानानामुक्तरूपाणां प्रतिबन्धकत्वात् तद्विषयाणां हेत्वाभासत्वे हेत्वाभासानन्त्यं स्यादित्याशङ्कार्थः / समाधत्ते - सामानाधिकरण्येति टीका।सामानाधिकरण्ये साध्यहेतुप्रतियोगिकत्वधीविरोधिधीविषयत्वेन सर्वेषामेकीकरणात् / यथा सर्वोऽपि सम्बन्धोऽनुयोगिकप्रतियोगिको भवति / यथा दण्डदेवदत्तयोः संयोगो दण्डप्रतियोगिकदेवदत्तानुयोगिकः / यतोऽधिकरणमनुयोगि[देवदत्तरूपम्] दण्डरूप / आधेयः प्रतियोगी। तथा प्रकृते हेतुसाध्ययोः सामानाधिकरण्यमपि हेत्वनुयोगिकं साध्यप्रतियोगिकं च भवति / ततः सामानाधिकरण्ये हेत्वनुयोगिकत्वज्ञानविरोधि किं ज्ञानम्, यथा इदं द्रव्यमाकाशात् इत्यत्र द्रव्यत्वसामानाधिकरण्ये आकाशानुयोगिकत्वज्ञानविरोधिकिंज्ञानम् ? आकाशे द्रव्यत्वसामानाधिकरण्यं नास्ति इदमेव विरोधि ज्ञानम्, तद्विषयो भवत्याकाशे द्रव्यत्वसामानाधिकरण्याभावः, एवं सामानाधिकरण्ये साध्यप्रतियोगिकत्वज्ञानविरोधि किं ज्ञानम् ? अयमाकाशवान् द्रव्यत्वात् इत्यत्र द्रव्यत्वसामानाधिकरण्ये आकाशप्रतियोगिकत्वज्ञानविरोधे(धि) कीदृशंज्ञानम्?आकाशरूपे साध्ये द्रव्यत्वरूपहेतुसामानाधिकरण्याभाव इतिज्ञाने विद्यमाने द्रव्यत्वसामानाधिकरण्ये आकाशप्रतियोगिकत्वंग्रहीतुंन शक्यते। यथावायौ रूपाभावज्ञाने विद्यमाने वाय्वनुयोगिकत्वग्रहो न भवति, वाय्वधिकरणे वा रूपप्रतियोगिकत्वग्रहो न सम्भवति इत्युभयविधं ज्ञानं न जायते, तद्वत् प्रकृते सामानाधिकरण्ये हेत्वनुयोगिकत्वसाध्यप्रतियोगिकत्वज्ञानं विरोधि भवत्येव / हेतौ साध्यसामानाधिकरण्यं नास्ति, साध्ये वा हेतुसामानाधिकरण्यं नास्तीतिज्ञानमुभयरूपमपि सामानाधिकरण्ये या साध्यहेताप्रतियोगिक]त्व(त्वा)नुयोगिकत्वधीस्तद्विरोधि भवत्येव / एवं यथा साध्ये हेतुसामानाधिकरण्याभावज्ञानं विरोधि तद्वत् साध्यवति हेतुर्वर्तमानो नास्ति इति इदमपि ज्ञानं विरोधि भवतीति कृत्वा एतज्ज्ञानविषयो यः साध्यवदवृत्तित्वं सोऽपि नाधिको हेत्वाभासः किन्तु तन्मध्ये एवेत्यर्थः / अत एवेति टीका।सकलसाध्यवान् यः सन हेतुमान् इति