________________ हेत्वाभासप्रकरणे विरुद्धः 525 प्रतिबन्धकमेव न भवतीति भावः / उत्तरयति - सकलेति टीका / सकलसाध्याधिकरणे वृत्तिर्योऽभावो हेतोरभावस्तत्प्रतियोगित्वं हेतौ तदेव विरुद्धत्वं विवक्षितम्। यथायावन्तिअश्वत्वाधिकरणानि तन्निष्ठा येऽत्यन्ताभावा गोत्वात्यन्ताभावास्तत्प्रतियोगित्वं गोत्वेवर्तते इतिकृत्वाऽश्वत्वसाधने गोत्वं विरुद्धो हेतुः।यत्किञ्चित्साध्याधिकरणनिष्ठात्यन्ताभावाप्रतियोगित्वज्ञानस्य हेत्वभावे यत्किञ्चित्साध्याधिकरणनिष्ठात्यन्ताभावाप्रतियोगित्वज्ञानस्य साध्यसामानाधिकरण्यज्ञानविरोधित्वं यद्यपि नास्ति, वह्निमत्यपि अयोगोलके धूमाभाव इति ज्ञाने विद्यमानेऽपि वह्निधूमयोः सामानाधिकरण्यज्ञानस्य सम्भवात् धूम(मा)भाव(वे) यावद्वढ्यधिकरणनिष्ठात्यन्ताभावाप्रतियोगित्वज्ञाने [270 B] विद्यमाने धूमवति वह्निरिति ज्ञानानुदयात्, सकलसाध्याधिकरणे धूमाभावज्ञाने विद्यमाने साध्या]धिकरणे हेतुरिति ज्ञानं नोदेति गाह्याभावावगाहिज्ञानस्य विद्यमानत्वात् सकलसाध्याधिकरणे हेतौ ग्राह्ये सकलसाध्याधिकरणे हेत्वभावावगाहि यद् ज्ञानं तद्विरुद्धत्वज्ञानं भवत्येव। एतदेव विवृणोति - सर्वस्मिन्निति टीका / सर्वस्मिन् साध्याधिकरणे यत् हेतुविरहज्ञानं तत् हेतौ साध्यसामानाधिकरण्यज्ञानविरोधि भवत्येव / कथमित्यत आह - साध्याधिकरणे इति टीका। साध्याधिकरणं(णे) हेतौ गृह्यमाणे साध्याधिकरणे हेत्वभावज्ञानं विरोधिभवत्येव। ननुद्रव्यत्वसाध्यककपिसंयोगरूपहेतौ सद्धेतौ इदं लक्षणमतिव्याप्तम्। तथाहिइदं द्रव्यं कपिसंयोगात् इत्यत्र सकलसाध्याधिकरणे द्रव्यत्वाधिकरणे कपिसंयोगरूपहेत्वभावज्ञानं वर्तते कपिसंयोगस्यअव्याप्यवृत्तित्वात् इत्यतआह-अभावपदंचेति टीका।साध्यवन्निष्ठोयः प्रतियोगिव्यधिकरणोऽभावः तत्प्रतियोगित्वम् इदं च विरुद्धत्वम्, इदं द्रव्यं कपिसंयोगात् इत्यत्र सद्धेतौ कपिसंयोगे नास्ति सकलद्रव्यत्वाधिकरणनिष्ठो यः प्रतियोगिव्यधिकरणोऽत्यन्ताभावस्तत्प्रतियोगित्वम् / द्रव्यत्वाधिकरणे यः कपिसंयोगात्यन्ताभावः सप्रतियोगिव्यधिकरणो नभवतीति न तत्रातिव्याप्तिरित्यर्थः / अत्राशङ्कते - अयमाकाशवान् द्रव्यत्वात् इत्यत्र इदंलक्षणमव्यापकं सकलसाध्याधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमव्याप्तम्।आकाशस्य वृत्तिः कुत्रापि नास्तीति सकलसाध्याधिकरणनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगित्वं द्रव्यत्वे वक्तव्यम् तच्च नास्त्येव सकलसाध्याधिकरणस्याकाशस्य अप्रसिद्धेः।मध्ये शङ्कते-नचेति। तदाअलक्ष्यमेव अयमाकाशवान् द्रव्यत्वादिति हेतुर्विरुद्धो न भवतीत्याशङ्कार्थः / समाधत्ते - साध्ये आकाशे द्रव्यत्वसामानाधिकरण्याभावज्ञानं व्याप्तिग्रहप्रतिबन्धकं भवतीतिकृत्वा तद्विषयस्येति, साध्ये हेतुसामानाधिकरण्याभावस्य हेत्वासत्वमुचितमेव / यद्विषयकंज्ञानं प्रतिबन्धकंसहेत्वाभासः भवतिआकाशे चद्रव्यत्वसामानाधिकरण्याभावज्ञानं द्रव्यत्वाकाशयोः सामानाधिकरण्यरूपव्याप्तिग्रहे प्रतिबन्धकं भवतीतिससामानाधिकरण्याभावो हेत्वाभासो वक्तव्य एवेत्यर्थः / एतदेवाह - तस्येति।तस्यप्रतिबन्धकज्ञानविषयत्वस्य तत्रसाध्ये आकाशरूपेयो हेतुसामानाधिकरण्याभावस्तस्मिन् हेतुसत्त्वादित्यन्वयः / पुनः शङ्कते - न चेति टीका / ननु सकलसाध्याधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं