________________ 524 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका . नस्यात्। यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यत्र यत्र यत्र इतरभेदाभावस्तत्र पृथिवीत्वाभाव इति व्याप्तिग्रहे प्रतियोगिनोरप्यन्वयसहचारग्रहापेक्षा यथा इतरभेदसहचरितंपृथिवीत्वमिति यदिअन्वयसहचारज्ञानं तदा केवलव्यतिरेकिण उच्छेदः स्यात् / कथम् ? अन्वयसहचारे सोऽन्वयी एव स्यादिति भावः / इति सिद्धान्तितं विरुद्धो व्यभिचाराद् भिन्न इत्युक्त(क्तिः) युक्ता।अयंभावः - विरुद्धो व्यभिचारी तदा भवतियदा विरुद्धत्वज्ञानं व्यभिचारविषयकं स्यात् / यत्र यत्र अश्वत्वं तत्र तत्र गोत्वाभाव इति यद् गोत्वाश्वत्वयोर्विरुद्धज्ञानं तत् चेत् व्यभिचारविषयकं स्यात् तदा विरुद्धत्वज्ञानस्य व्यभिचारज्ञानत्वेनैव प्रतिबन्धकत्वं स्यात्, यदि अश्वत्वाभाववति गोत्वं वर्तते इति एतद्विषयकं स्यात् तदा साध्याभाववति हेतोर्ज्ञानात् व्यभिचारमेवेदं स्यात्। न त्वेवं किन्तु अश्वत्वाभाववति गोत्वम् / अयं व्यभिचारः एतद्विषयकं चेत् [270 A] तद् ज्ञानं स्यात्, तदा विरुद्धत्वज्ञानं व्यभिचारज्ञानं स्यात् / न चैतत् अनयोभिन्नसामग्रीकत्वात् / अश्वत्वाभाववति गोत्वमिति तु अश्वत्वादिप्रतियोगिज्ञानसाध्यम्, विरुद्धे तु सहचारज्ञानरूपा सामग्री यत्राश्वत्वं तत्र गोत्वाभाव इति अश्वत्वगोत्वाभावयोः सहचारज्ञानं गोत्वरूपप्रतियोगि]ज्ञानम् / सामग्रीभेदात् अनयोर्भेद इति मूलकारस-.. माधानम्। अथ टीका। अत्र टीकायामाक्षेयः / अत्र पूर्वपक्षो यथा यत्राश्वत्वं यत्र गोत्वाभाव इदं यद् विरुद्धत्वज्ञानं तत् ' नानुमितौ साक्षाद् विरोधिन वा तत्करणे व्याप्तिज्ञानादौ विरोधि / कुत इत्यत आह - साध्यव्यापकत्वमिति टीका / लक्षणे साध्यव्यापकत्वं नाम साध्यवन्निष्ठात्यन्ताभावाप्रतियोगित्वम्, तथा च हेत्वभावे साध्यवन्निष्ठात्यन्ताभावाप्रतियोगित्वलक्षणं यद् व्यापकत्वं तस्य ज्ञानेनानुमितिविरोध्यर्थभानं न वा, अनुमितिकरणव्याप्तिज्ञानविषयविरोधी व्याप्तिविषयोऽव्यभिचारः सहचारश्च तद्विरोध्यर्थः कोऽपि न भासते / यत्राश्वत्वं तत्र गोत्वाभावइत्यश्वाधिकरणे गोत्वाभावज्ञानं चेत् जातम्एतद्ज्ञानं नाव्यभिचारज्ञानविरोधिव्यभिचाराविषयकत्वात्, नापि सामानाधिकरण्यज्ञानविरोधि सामानाधिकरण्याभावाविषयकत्वात् / अश्वत्ववति गोत्वाभाव इति ज्ञाने विद्यमानेऽपिअश्वत्वगोत्वयोः सामानाधिकरण्यज्ञानं भविष्यत्येव यथा वह्निमति अयोगोलके गोत्वा(धूमा)भाव इति ज्ञाने विद्यमानेऽपिधूमवह्रौः (न्योः) सहचारज्ञानं जायत एव। एतदेवाह - ग्राह्याभावस्फुरणादिति टीका। व्याप्तिज्ञाने ग्राह्योऽव्यभिचार: सहचारश्च तदभावास्फुरणादित्यर्थः / ननु ग्राह्याभावानवगाह्यपि ज्ञानं प्रतिबन्धकं भवतु इत्यत आह - अतथाभूतेति टीका / ग्राह्याभावानवगाहिनो ज्ञानस्य प्रतिबन्धकत्वाभावात् / कुत इत्यत आह - अन्यथेति टीका / यदि ग्राह्याभावानवगाह्यपि ज्ञानं प्रतिबन्धकं स्यात् तदा घटज्ञाने पटाभावज्ञानमपि प्रतिबन्धकं स्यात् / ग्राह्यो घटः तदभावानवगाहित्वात् / यत्र ज्ञाने यो विषयः स तत्र ग्राह्यः यथा घटो विषयश्चेत् तदा घटज्ञाने घटो ग्राह्यः तदभावावगाह्येव ज्ञान प्रतिबन्धकमित्याशङ्कार्थः / ततः सिद्धं विरुद्धत्वरूपमुक्तज्ञानं