SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे विरुद्धः 523 त्वम्।यथाअयमश्वो गोत्वात् इत्यत्रविरुद्धे यत्राश्वत्वंतत्रगोत्वाभावइतिसाध्यस्यव्यापको गोत्वाभावस्तत्प्रतियोगित्वं गोत्वे वर्तते इत्यतोऽयं विरुद्ध इत्यर्थः। अत्रसाध्यसमानाधिकरणाभावप्रतियोगित्वं विरुद्धत्वमित्येवास्तु व्यापकत्वांशः किमर्थमिति चेन्न पर्वतो वह्निमान् धूमात् इत्यत्र अतिव्याप्तिवारणार्थं व्यापकत्वभागः / तथाहि वह्रिसमानाधिकरणोयोऽत्यन्ताभावोधूमात्यन्ताभावोऽयोगोलकेतत्प्रतियोगित्वंधूमेवर्ततेएवइतिव्यापकत्वांशः, तथा चधूमाभावो वह्वेापको नभवतियतोयत्रवह्निस्तत्रधूमाभावएवं व्यापकत्वंनास्तिमहानसादावुभयसत्त्वात् / ननु अत्रापिलक्षणे साध्याभावसहचरितत्वज्ञानमावश्यकम्, ततोऽस्यापिव्यभिचारित्वज्ञानत्वेनैव प्रतिबन्धकत्वमस्तु / ततो विरुद्धः किमर्थं पृथगित्यत आह - न चेति मूलम् / तथा च साध्यहेत्वभावयोर्व्याप्तिग्रहे यदि हेतुसाध्याभावयोर्व्याप्तिग्रह आवश्यकः स्यात तदाव्यभिचारज्ञानत्वेन दषकत्वं स्यात. तदेव तनास्तिसाध्याभावहेत्वोर्यथा यत्र यत्र गोत्वं तत्राश्वत्वाभाव इति व्याप्तिग्रहाभावेऽपि साध्यहेत्वभावयोर्व्याप्तिज्ञानात् न साध्यहेत्व(हेतुसाध्या)भावयोर्व्याप्तिज्ञानम्। साध्यस्य हेत्वभावे यद् व्यापकत्वज्ञानं तत् हेतौ साध्याभावव्याप्तिज्ञानं विनाचेन्नभवेत् तदा हेतौ साध्याभावव्याप्ति मसाध्याभावेनाव्यभिचरितः [269B] सम्बन्धः, ततः साध्याभावसहचारज्ञानमावश्यकम्, तदाविरुद्धस्यापि साधारणज्ञानत्वेनीवाप्रतिबन्धकलंस्यात्, न चैवम्। प्रतियोगिनोरिति मूलम्। प्रतियोगिनोः हेत्वभावस्यप्रतियोगी हेतुः साध्याभावाभावस्यप्रतियोगी साध्याभावः इति हेतुसाध्याभावयोः प्रतियोगिनोः अन्वये भासमाने एव तदभावयोः हेत्वभावसाध्ययोः चेत् व्याप्तिग्रहः तदा साधारणत्वेन प्रतिबन्धकता स्यात् / तदेव तु नास्तीत्यर्थः / यथा अयमश्वो गोत्वात् इत्यत्र गोत्वाभावेऽश्वत्वव्यापकत्वज्ञाने गोत्वाभावो व्यापकोऽश्वत्वंव्याप्यम्। यत्र यत्रअश्वत्वंतत्र तत्रगोत्वाभाव इतिरूपे यदिएतात्प्रतियोगिनोरश्वत्वगोत्वाभावयोः प्रतियोगिनोः, अश्वत्वस्य प्रतियोगी अश्वत्वाभावः गोत्वाभावस्य प्रतियोगी गोत्वं तयोः, व्याप्तिग्रहः आवश्यकः स्यात् यथा यत्रगोत्वंतत्राश्वत्वाभाव इति तदागोत्वेऽश्वत्वाभावसहचारज्ञानंतदेवव्यभिचारज्ञानमितिव्यभिचारज्ञानत्वेनैव प्रतिबन्धकता स्यात्, परमेवं नास्ति।कुत इत्यत आह - भिन्नग्रहसामग्रीत्वादितिमूलम्। यत्रगोत्वं तत्राश्वत्वाभाव इति व्याप्तिग्रहे अश्वत्वाभावगोत्वसहचारज्ञानरूपा भिन्ना सामग्री।अथ च यत्राश्वत्वंतत्रगोत्वाभाव इति व्याप्तिग्रहे भिन्ना सामग्री। तथा च यत्राश्वत्वं तत्र गोत्वाभाव इत्यत्र व्याप्तिग्रहे गोत्वेऽश्वत्वाभावसहचारज्ञानस्योपेक्षैव नास्तीति किन्तु अश्वत्वस्य गोत्वाभावसहचारज्ञानापेक्षेति / यथा यत्र यत्र अश्वत्वं तत्र गोत्वाभाव इति व्याप्तिग्रहेऽश्वत्वे गोत्वाभावसहचारज्ञानस्यैवापेक्षा / यथा यत्र धूमस्तत्र वह्रिरिति व्याप्तिज्ञाने धूमे वह्निसहचारज्ञानस्यैवापेक्षा न तु धूमाभावे वह्रिसहचारज्ञानापेक्षा यथा वह्नयभावसहचरितो धूम इति सहचारज्ञानस्यैवापेक्षा नास्ति। अन्यथेति मूलम्। यदि प्रतियोगिनोरन्वये भासमाने एवाभावयोरन्वयो भासेत, यथा घटपटयोः सहचारज्ञाने विद्यमाने एव घटपटाभावयोः सहचारज्ञानं यदिस्यात्, तदाव्यतिरेकिविलयो व्यतिरेक्यनुमानं
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy