________________ 522 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका / अयमश्वो गोत्वात् इत्यत्र गोत्वस्य व्यापकोऽश्वत्वाभावः तस्य प्रतियोगि यत् साध्यमश्वत्वं तत्कत्वं गोत्वे वर्तते इति गोत्वं विरुद्धम् / साध्याभावस्येति मूलम् / तथा च यदि साध्याभावस्य हेतुव्यापकत्वप्रतीतिस्तदा हेतोरपि साध्याभावसम्बन्धप्रतीतिरावश्यकीति ततः साध्याभावसम्बन्धज्ञानं व्यभिचारज्ञानमेव दूषणमिति विरुद्धस्यापि तत्रैवान्तर्भावः स्यादिति विरुद्धपूर्वपक्षग्रन्थार्थः / अथ टीका / तथानुपन्यासादिति मूलव्याख्या। ननु इदं मूलमयुक्तम्, नीलधूमात् इत्यत्र धूमवत्त्वोपन्यासस्तिष्ठत्येव इत्यत आह - नीलेति टीका / तथा च नीलबहिर्भावेन धूमस्योपन्यासः स्यात् तदा नीलधूमरूपविशिष्टकर्तव्यमन्येन कृतं स्यात्।नचनीलबहिर्भावेन नीलधूमात् इत्यत्रधूमपदप्रयोगइत्यर्थः। तथा चात्राधिक्यप्रयोजक नीलधूमात् इत्यत्र हेत्वन्तरं नास्तीति नात्राधिक्यं व्यर्थविशेषणतेति भावः / ननु नीलस्य अनन्वये किं दूषणमित्यत आह - तथैवेति टीका। तथा च यदिनीलबहिर्भावेनैवधूमवत्त्वस्य प्रयोगस्तदाधूमासमभिव्याहतस्य नीलपदस्यानन्वयिपदजातमपार्थकं स्यात् इत्यर्थः / ननु साध्यानवगतसहचारो विरुद्ध इत्यत्र गोत्वाश्वत्वयोः सहचारभ्रमदशायां विरुद्धत्वं नास्यात् यतः तयोः साध्यानवगतसहचारोनास्तिभ्रमेण तयोः सहचारस्य ज्ञातत्वादित्यनवस्था इत्यन्यथा व्याचष्टे - साध्याप्रमितेति [269 A] | साध्येन सहचारो यत्र प्रमितो नास्तीत्यर्थः / एवं गोत्वाश्वत्वयोर्यद्यपि भ्रमरूपः सहचारो वर्तते तथापि स सहचारः प्रमितः सहचारो नास्तीति न तत्रातिव्याप्तिः। साध्याभावसम्बन्धबुद्धिं विनेति फक्किका व्याचष्टे - साध्याभावेति टीका। हेतोः साध्याभावस्य प्रमापकत्वं तदा स्यात् यदि हेतुः साध्याभावव्याप्यत्वेन ज्ञायते, यदि हेतुः साध्याभावव्याप्यत्वेन ज्ञातस्तदा साध्याभावसहचारज्ञानमावश्यकमिति साध्याभावसहचारज्ञानत्वेन दूषकत्वमस्तु इत्यर्थः / ततो विरुद्धः साधारण एव भवतु इत्यर्थः / एतदेवाह - तत्सम्बन्धबुद्धिरिति। व्याप्यत्वज्ञाने चावश्यं सम्बन्धबुद्धिरिति भावः / अन्यथेति टीका। यदि साध्याभावसहचारज्ञानं साध्याभावप्रमापकत्वज्ञाने विद्यमाने नास्ति तदासाध्याभावप्रमापकत्वज्ञानं विरोध्यविषयत्वात् अप्रतिबन्धकमिति कथं साध्याभावप्रमापकत्वं विरुद्धो हेत्वाभासः यतः साध्याभावप्रमापकत्वज्ञानं व्याप्तौ ग्राह्यो व्यभिचार: सहचारश्च तदभावानवगाहितया ग्राह्याभावानवगाहित्वात् प्रतिबन्धकमेव न स्यात् / ततो विरुद्धो हेत्वाभासो न भवेदित्यर्थः / उच्यते।साध्यव्यापकाभावप्रतियोगित्वंविरुद्धत्वम्।नचप्रतियोगिनोरन्वयेभासमान एव तदभावयोर्व्याप्तिग्रहः भिन्नग्रहसामग्रीत्वात् , अन्यथा व्यतिरेकिविलयापत्तेः। अथ सिद्धान्ते मूलम् / साध्यव्यापकाभावेति। साध्यस्य व्यापको योऽभावः तत्प्रतियोगित्वं हेतौ विरुद्ध१. मुद्रितपुस्तके तु भिन्नग्राहकसामग्रीकत्वात्' इति पाठः /