________________ हेत्वाभासप्रकरणे विरुद्धः 521 भवति वह्निः इति कृत्वा साधारणे वहावतिव्याप्तिः / समाधत्ते - तदेति मूलम् / तदा साध्यसहचाराज्ञानदशायां तस्य साधारणस्य विरुद्धत्वेन सङ्ग्राह्यत्वं विरुद्धत्वमेवेत्यर्थः, इति मतेन स्थापितं विरुद्धं दूषयति - तन्नेति। तथा च साध्यानवगतसहचार: साध्याभावसहचारीति विरुद्धलक्षणे साध्यानवगते(त)सहचारी (र:) [इति विशेषणं तु व्यर्थमेव दूषकतायाम् / यत् तु साध्याभावसहचारित्वं विपक्षगामित्वं तत् तु साधारणत्वमेव / ततो विरुद्धस्य साधारण एवान्तर्भावः स्यादिति भावः / ननु पृथिवी इतरेभ्यो भिद्यते) मेयत्वात् इत्यत्र यदि विरुद्धोऽधिको हेत्वाभासो नास्ति तदाऽयं कुत्रान्तर्भूत इत्यत आह - अत एवेति मूलम् / यतः साध्याभावसहचरितत्वं साधारणत्वम् अत एव व्यभिचरितो व्यतिरेक्यपि साधारण एव, यथा पृथिवी इतरेभ्यो भिद्यते मेयत्वात् इत्यत्र इतरभेदरूपं साध्य(ध्यं) व्यतिरेकि, साध्यस्यान्वयित्वेन हेतोरन्वयित्वम्, साध्यस्य व्यतिरेकित्वेन हेतोरपि व्यतिरेकित्वम्, ततोऽयं व्यभिचरितो व्यतिरेकी साधारण एवान्तर्भूतः / विरुद्धं समर्थयितुं मतान्तरमाह - नापीति मूलम् / साध्याभावसाधकत्वं साध्याभावानुमितिजनकत्वमित्यर्थः / ननु साध्याभावानुमितिजनकत्वं भ्रमरूपवढ्यभावानुमितिजनके धूमादावतिव्याप्तम्, यथा भ्रमात् केनचित् ज्ञातम् अयं वह्नयभाववान् धूमात् इत्यत्र साध्याभावानुमितिजनकत्वादतिव्याप्तिरित्यत आह - तत्प्रमापकत्वमिति मूलम् / तथा च धूमे वक़्यभावप्रमापकत्वाभावात् नातिव्याप्तिरित्यर्थः / वर्तते च यथाऽयमश्वो गोत्वात् इत्यत्र तु गोत्वेनाश्वत्वाभावस्य प्रमारूपैवानुमितिर्जन्यते इति, अतोऽयं विरुद्ध इत्यर्थः / इदं लक्षणं दूषयति - साध्याभावेति मूलम् / साध्याभावसम्बन्धबुद्धिं विना साध्याभावसाधकत्वमपि ज्ञातुं न शक्यते, साध्याभावप्रमापकत्वमपि ज्ञातुं न शक्यते, तथा चावश्यकोपस्थितसाध्याभावसम्बन्ध एव दूषणमस्तु व्यर्थमधिकम् / स च साध्याभावसम्बन्धस्तु [268 B] साधारण एव, यथा वह्निसम्बन्धो यदि धूमे ज्ञायते तदा वह्नयनुमितिर्भवति, यदि च वह्निसम्बन्धो धूमे न ज्ञातस्तदा धूमात् वह्नयनुमितिर्न भवति, तथा च यस्य सम्बन्धो हेतौ सपक्षादौ ज्ञायते तदनुमितिर्भवति / ततः प्रकृते गोत्वेऽश्वत्वाभावसम्बन्धश्चेत् ज्ञातो भवति तदाऽश्वत्वाभावसम्बन्धज्ञानं गोत्वे दूषणमस्तु, किमर्थं साधकत्वांशः प्रमापकत्वांशश्च लक्षणे प्रवेष्टव्यः ? साध्याभावसम्बन्धश्च पूर्वोक्तरीत्या साधारण एवेति। लक्षणान्तरमाशक्य दूषयति - नापीति मूलम् / साध्यवतोऽन्यः साध्यवदन्यः, तद्व्याप्यत्वं साध्यवद्भिन्नव्याप्यत्वम् / यथाऽयमश्वो गोत्वात् इत्यत्र साध्यवानश्वः, तदन्योऽश्वत्वाभावः, तद्व्याप्यत्वं यथा यत्र यत्र गोत्वं तत्र तत्राश्वत्वाभाव इति विरुद्धः / इदं दूषयति - व्याप्यत्वेति मूलम् / व्याप्यत्वविवेचने कृते व्याप्यत्वं नाम अव्यभिचरितसहचरितत्वम्, यथा वह्नयभाववदवृत्तित्वे सति वह्निसामानाधिकरण्यम्, तथा चाव्यभिचरितत्वांशेऽसाधकतानुमाने व्यर्थविशेषणत्वग्रस्तं लक्षणान्तरमाशय दूषयति - नापीति मूलम् / स्वशब्देन हेतुः, तस्य व्यापको योऽभावः तस्य प्रतियोगि साध्यं यस्य हेतोः स स्वव्यापकाभावप्रतियोगिसाध्यकः / यथा