________________ 520 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चोच्यते व्यभिचारावारकनीलविशेषणावच्छेदेनापि व्याप्तिर्नास्ति तर्हि अधिकं कुत्र दूषणमिति, अत आह - . हेतद्वयोपन्यासे चेति मूलम् / यत्र हेतुद्वयोपन्यासः यथा पर्वतो वह्निमान् धूमात् आलोकाच्च इति हेतुद्वयोपन्यासेऽधिकता आलोकादित्यत्रैव / यतः प्रथमेन धूमादिति हेतुना आलोकस्य द्वितीयस्य हेतोः कृतकार्यतयाऽन्यस्यालोकादित्यस्य दुष्टत्वं प्रयोजनाभावात् / नीलधूमादौ तु व्यर्थविशेषणावच्छेदेन व्याप्तिरेव नास्ति, न तु अधिकत्वं हेतुद्वयाभावात् / व्यर्थत्वं हेतुद्वये एव दूषणम्, न च नीलविशिष्टधूमकर्तव्ये / अन्येन हेाताना केनचित् क्रियतेऽन्यस्य हेतोरभावात् / अत्राशङ्कते - धूमवत्त्वादिति मूलम् / तथा च नीलधूमकर्तव्यं यत् तत् धूमादित्यनेनैव कृतम् इति कृत्वाऽत्राप्यधिकत्वं दोषोऽस्तु इति शङ्कार्थः / दूषयति - तथानुपन्यासादिति / न हि नीलधूमरूपविशिष्टव्यतिरेकेण धूमात् इत्यस्य शुद्धस्योपन्यासः / यतो नीलधूमात् इत्युक्ते धूमात् इत्यस्य शुद्धस्योपन्यासो भवतीति नास्ति / यदि शुद्धस्योपन्यासो स्यात् तदा नीलेत्यनन्वितं स्यात् / धूमादिति शुद्ध एव हेतुः नीलस्य च तथा सति कुत्रान्वयः स्यादित्यर्थः / तस्मात् सिद्धं नीलधूमात् इत्यत्राधिकता नास्ति। अधिकता तु धूमात् आलोकाच्चेत्यत्राधिकतेति / अत्र अन्ये तु इत्यनेनापि मतेन विरुद्धः समर्थितः सोऽपि दूषित इति ज्ञेयम् / अथ मतान्तरेण विरुद्धं समर्थयति - अपरे त्विति मूलम् / साध्येति साध्यस्यानवगतः सहचारो यस्मिन् हेतौ एवंभूतो यः साध्याभावसहचारी स विरुद्धः / यथा अयमश्वो गोत्वात् अत्र साध्यमश्वत्वं तेन सहचारो गोत्वस्य हेतोरनवगतः / अथ च गोत्वमश्वत्वाभावसहचारि भवति इति कृत्वाऽयं विरुद्धः / साध्याभावसहचारी विरुद्ध इत्युच्यमाने साधारणेऽतिव्याप्तिः, यथा धूमवान् वः इत्यत्र वढेधूमाभावसहचारो वर्तते अयोगोलकादाविति / तद्वारणार्थमुक्तं साध्यानवगतसहचारेति / साधारणस्य साध्यानवगतसहचारत्वं नास्ति महानसादौ साध्येन सहचारात् / गोत्वस्याश्वत्वेन सह कुत्रापि सहचाराभावात् विरुद्धत्वम् / अथ साध्यानवगतसहचारस्येति पदस्य प्रयोजनमाह - अन्यथेति मूलम् / यदि साध्याभावव्याप्य एव विरुद्धः स्यात् तदा पृथिवी इतरभेदवती मेयत्वात् इत्यत्र मेयत्वे विरुद्ध हेतौ इतरभेदाभावस्य श्रे(मे)यत्वे व्याप्यत्वं नास्ति, यथा यत्र यत्र मेयत्वं तत्र तत्र इतरभेदाभाव इति नास्ति पृथिव्यामेव व्यभिचारात् / हेतुमाह - साध्याभावेति / मेयत्वस्य इतरभेदाभावव्याप्यत्वाभावात् यथा यत्र मेयत्वं तत्र इतरभेदाभाव इति [268 A] नास्ति, पृथिव्यां मेयत्वं वर्तते इतरभेदाभावो नास्ति इतरभेदस्य जलादिभेदस्य पृथिव्यां सत्त्वात् इत्यर्थः / अत्राशङ्कते - न चेति मूलम् / तथा चायं हेतुः साधारण एव, न विरुद्ध इति शङ्कार्थः / दूषयति - सपक्षेति। साधारणो हि सपक्षगामी, अस्य च सपक्षो नास्ति इतरभेदस्य पूर्वं कुत्राप्यनिश्चयात् / तथा च तत्सङ्ग्रहार्थं विरुद्धत्वसङ्ग्रहार्थमिदं लक्षणं साध्यानवगतेत्यादिपूर्वोक्तम् / अत्र लक्षणेऽतिव्याप्तिमाशङ्कते - न चेति मूलम् / तथा च पर्वतो धूमवान् वढेः इत्यत्र धूमसहचारो वह्रौ यदा ज्ञातो नास्ति तदा साध्यानवगतसहचारो