________________ हेत्वाभासप्रकरणे विरुद्धः 519 हेतुः / एतस्येति साध्याभावाव्यभिचरितसहचरितत्वस्येत्यर्थः / ननु यथा नीलधूमात् इत्यादौ व्याप्ति स्ति तद्वत् अव्यभिचारांशस्याधिक्यात् साध्याभावाव्यभिचरितसहचरितत्वेऽपि व्याप्तिर्नास्तीत्यत आह - नीलधूमादाविति मूलम् / तेन नीलधूमादावपि व्याप्तिरस्त्येव यथा धूमेन सह वाप्तिस्तथा नीलधूमेनापि सह वहेाप्तिसत्त्वात् यत्र नीलधूमस्तत्र वह्रिरिति / अन्यथा विशेषाणामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् / तथाहि यदि नीलधूमे व्याप्तिर्नास्ति पीतधूमे व्याप्तिर्नास्ति तदा कुत्र धूमे व्याप्तिः स्यात् ?, नीलाद्यतिरिक्तधूमो नास्ति नीलाद्यन्यतमत्वस्य एव धूमत्वात् / उपसंहरति - न स्वार्थानुमाने दोष इति मूलम् / ननु यदि नीलधूमादित्यत्र नाधिकं तदा परं प्रत्यपि नीलधूमादित्येव प्रयोगः स्यादित्यत आह - परस्य त्विति मूलम् / तथा च नीलपदं परार्थानुमाने व्यर्थम्, न तु व्याप्त्यभावादिना तद् दूषणमित्यर्थः / तथा च प्रकृतमुपसंहरति - न चेति मूलम् / तथा च परार्थानुमाने नीलधूमात् इत्यत्र व्यर्थोऽधिको नीलशब्दः तद्वत् परार्थानुमानेऽव्यभिचरितत्वांशोऽप्यधिक इति। न स्वार्थानुमानेऽधिकं साध्याभावाव्यभिचरितसहचरितत्वात् इत्युच्यमाने दूषणम् / ततो विरुद्धः साधारणात् भिन्न एवेति भावः / इदं समाधानं पूर्वपक्षी दूषयति - तन्नेति / अर्थो वाच्य एव लिङ्गं न तु तद्वाचकः शब्दः / तथा च नीलधूमादौ यद्यपि व्याप्तिरस्त्येव तथापि व्यभिचारावारकविशेषणावच्छेदेन नास्ति, यतो धूमात् इत्युच्यमाने कुत्रापि व्यभिचारो नास्ति। तदेव हि विशेषणं सार्थकं यद् व्यभिचारवारकं भवति / प्रकृते च नीलं न व्यभिचारवारकं किन्तु व्यभिचारावारकम्, न तदवच्छेदेन व्याप्तिः गौरवात् / तथा च साध्याभावाव्यभिचरितसहचरितत्वात् इत्यत्राव्यभिचरितांशे व्यर्थत्वमिति भावः / अत्राशङ्कते - न चेति मूलम् / इदमसाधकं विरुद्धत्वात् इत्यत्र विरुद्धत्वं नाम साध्याभावाऽव्यभिचरितसहचरितत्वम् इत्यर्थगत्या अव्यभिचरितपदस्य व्यर्थत्वेऽपि साध्याभावसहचरितत्वात् इत्येतावत्येव यु(उ)क्ते सति विरुद्धत्वात् इत्यत्र तु व्यर्थविशेषणत्वमुद्भावयितुं न शक्यते। उक्तरीत्याऽर्थगत्या व्यर्थविशेषणत्वेऽपि वाच्यगता विरुद्धत्वात् इत्यत्र व्यर्थविशेषणतोद्भावयितुं न शक्यत इत्याशङ्कार्थः / समाधत्ते - आवश्यकेति मूलम् / तथा च विरुद्धत्वादिति हेतौ कृते परेण पृष्टं विरुद्धत्वं नाम किम् ?, साध्याभावाव्यभिंचरितसहचरितत्वमिति उक्ते सति अव्यभिचारांशो व्यर्थ इत्यर्थः / आवश्यकं तद्विवेचनं विरुद्धत्वस्य विवेचनम्, ततस्तदुद्भावनस्य व्यर्थविशेषणोद्भावनस्य शक्यत्वात्, तेन विरुद्धेन व्यर्थविशेषणत्वात् असाधकतानुमितिः कर्तुं न शक्यते [267 B] इत्याशङ्कार्थः / तथा च साध्याभावाव्यभिचरितसहचरितत्वात् इत्यत्र व्यभिचारावारकविशेषणावच्छेदेन व्याप्तिरेव नास्ति इति कृत्वा तन्नासाधकतानुमितिसाधनम् / त्वया यद् उक्तं परार्थानुमाने इदमधिकं स्वार्थानुमाने तु न किञ्चिद् दूषणमिति तद् न सम्भवति, यतो व्यर्थविशेषणावच्छेदेन व्याप्तिरेव नास्ति इति कृत्वा स्वार्थानुमानेऽपि दूषणम् / ननु नीलधूमत्वात् इत्यादिस्थले व्याप्तिर्वर्तते एव पुरुषस्तु अधिकत्वात् निगृह्यत इति मयोच्यते, त्वया