________________ 518 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका परस्य तु व्यर्थत्वमधिकम् / न च विरुद्धत्वादित्यत्र शब्दाधिक्यमिति, तन्न, अर्थो हि लिङ्गम्, न च व्यभिचारावारकविशेषणावच्छेदेनापि व्याप्तिः, गौरवादिति वक्ष्यते, न चार्थगत्या व्यर्थत्वेऽपि विरुद्धत्वादित्यत्र उद्भावनाशक्यत्वम्, आवश्यकतद्विवेचने तदुद्भावनस्य शक्यत्वादिति हेतुद्वयोपन्यासे चाधिकं प्रथमेन द्वितीयस्य कृतकर्तव्यताया . दुष्टिबीजत्वात्। न च नीलधूमादित्यादौ विशिष्टकर्तव्यमन्येन केनापि कृतम्, धूमवत्त्वादित्यनेनैव कृतमिति चेत् / न / तथानुपन्यासात् अन्यथा नीलानन्वयापत्तेः / अपरे तु साध्यानवगतसहचारः साध्याभावसहचारी विरुद्धः अन्यथा पृथिव्यां मेयत्वेनेतरभेदानुमानं न विरुद्धं स्यात् साध्याभावाव्याप्यत्वात् / न च तत् साधारणं सपक्षासत्त्वात् / न च साध्यसहचाराज्ञानदशायां साधारणातिव्याप्तिः, तदा तस्यापि विरुद्धत्वादिति प्राहुः / तन्न। विपक्षगामित्वं दूषकताप्रयोजकमित्युक्तत्वात् / अत एव व्यभिचरितो व्यतिरेक्यनैकान्तिक एव। नापि साध्याभावसाधकत्वं तत्प्रमापकत्वंवा, साध्याभावसम्बन्धबुद्धिं विना तदज्ञानात् / नापि साध्यवदन्यत्वव्याप्यत्वम्, व्याप्यत्वविवेचने व्यर्थविशेषणत्वात् / नापि स्वव्यापकाभावप्रतियोगिसाध्यकत्वम्, साध्याभावस्य हेतुव्यापकत्वप्रतीतौ हेतुसाध्याभावसम्बन्धभानस्यावश्यकत्वादिति। अथ मूलव्याख्या / अन्ये त्विति मूलम् / विरुद्धलक्षणे साध्य(ध्या)भावव्याप्त(प्य)त्वरूपे न व्यर्थत्वं नियतपदस्येति शेषः / विरुद्धलक्षणं साध्याभावेन सहाव्यभिचरितसहचरितत्वम् इति नियमपदलभ्योऽर्थः / तथा च साधारणेऽतिव्याप्तिवारणार्थमव्यभिचरितत्वदलम् साधारणे साध्याभावेन सहाव्यभिचरितसहचरितत्वं नास्ति साध्यवत्यपि पक्षे हेतोर्वर्तमानत्वात्, विरुद्धस्तु साध्याभावेन सहाव्यभिचरितसहचरित एवेति तयोर्भेदः / ननु अव्यभिचरितत्वांशस्य विरुद्धलक्षणे यद्यपि वैयर्थ्यं नास्ति तथापि असाधकतानुमितौ वैयर्थ्यं स्यादेव / तथाहि इदमसाधकं साध्याभावाव्यभिचरितसहचरितत्वात् / लाघवात् साध्याभावसहचरितत्वात् इत्येवास्तु। न चो(च) साधारणे गतमिति वाच्यम् / तेनाप्यसाधकतानुमितिरनेन [267 A] क्रियत एवेति अव्यभिचरितपदं व्यर्थमित्यत आह - नापीति मूलम् / तथा चासाधकतानुमितावपि अव्यभिचरितपदस्य वैयर्थ्यं नास्ति / कुतः ? असाधकतानुमाने यथा साध्याभावसहचरितत्वं हेतुः तथा साध्याभावाव्यभिचरितसहचरितत्वमपि