________________ हेत्वाभासप्रकरणे विरुद्धः 517 वृक्षत्वात् इत्यत्र गुणकर्मादावधिकरणे य एव कपिसंयोगाभावः स एव वृक्षेऽप्यस्तीति कृत्वा साध्याभावाधिकरणनिष्ठो यः कपिसंयोगाभावो गुणादिनिष्ठः स एव वृक्षनिष्ठोऽधिकरणभेदेन अभावभेदाभावात्, तद्व्याप्यत्वं वृक्षत्वे वर्तत एवेति कृत्वाऽतिव्याप्तिस्तत्र तदवस्थैवेत्यन्यथा व्याचष्टे - साध्यवैयधिकरण्येति टीका / तथा च साध्यवैयधिकरण्यं यदवच्छेदकं तदवच्छिन्नो यः साध्याभावः स इत्यर्थः / एवं कृते वृक्षः कपिसंयोगीत्यादौ नातिव्याप्तिः / कथम् ? कपिसंयोगरूपसाध्यवैयधिकरण्यस्य यदवच्छेदकं गुणत्वकर्मत्वादिकं तदवच्छिन्नो यः [266 B] कपिसंयोगाभावः तद्व्याप्यत्वं वृक्षत्वे नास्त्येव / यथा द्रव्यत्वसामानाधिकरण्यं पटत्वे वर्तते तथापि घटत्वविशिष्टं द्रव्यत्वसामानाधिकरण्यं पटत्वे नास्तीति एवं यद्यपि कपिसंयोगाभावव्याप्यत्वं वृक्षत्वे वर्तते परं गुणत्वकर्मत्वाद्यवच्छिन्नकपिसंयोगाभावव्याप्यत्वं वृक्षत्वे नास्तीति न तत्रातिव्याप्तिरित्यर्थः / तत्रेति टीका / अधिकरणेनैवोपपत्तेरिति टीका / तथा च केवलाधिकरणस्वरूपेणैवाभावव्यवहारोपपत्तौ अधिकाभावकल्पने प्रमाणाभावात् इति पूर्वपक्षिणो मतेन दूषितम् / अत्रेति टीका / ननु प्रमाणान्तरेणेति विशेषणं विरुद्धेऽतिव्याप्तिवारणार्थं दत्तमिति तत् सार्थकमित्यत आह - अत्रेति टीका / अत्रेति विरुद्धे यदि व्यभिचारव्यावृत्तेन रूपेणानुमितिप्रतिबन्धकत्वं स्यात् तदा विरुद्धेऽतिव्याप्तिवारणार्थं विशेषणं प्रमाणान्तरेणेति सार्थकं स्यात् / तदेव तु विरुद्ध नास्तीति विरुद्धेऽतिव्याप्तिवारणार्थं विशेषणं व्यर्थमेवेत्यर्थः / तद्भेदेति टीका / साधारणविरुद्धयोर्भेदानुपपत्तिरित्यर्थः / उभयोरेकैक(व)दूषकताबीजसत्त्वात् ऐक्यमेव स्यादिति भावः / ननु विरुद्धस्य यदि अनैकान्तिकाद् भेदः सिद्धो यतोऽनैकान्तिकस्य विपक्षवृत्तित्वेन दूषकता नास्ति असाधारणानुपसंहारिणोस्तदभावात् / किन्तु विरुद्धस्यानैकान्तिकाद् भेदे सिद्धेऽपि यत्र सामान्यतो भेदस्तत्र विशेषतोऽपि भेदः तथा च विरुद्धस्य साधारणादपि भेदो भविष्यत्येव / यतोऽनैकान्तिके विपक्षवृत्तित्वेन दूषकता नास्ति विरुद्धे तु विपक्षवृत्तित्वेन दूषकता वर्तते इति सामान्यतोऽनैकान्तिकाद् भेदे सिद्धे साधारणादपि भेदः सिद्ध एवेत्यर्थत आह - वस्तुत इति / अनैकान्तिकत्वसामान्यज्ञानं तु नानुमितिप्रतिबन्धक किन्तु विपक्षवृत्तित्वसपक्षव्यावृत्तत्वादिज्ञानम्, तथा च विरुद्धस्यापि विपक्षवृत्तित्वज्ञानत्वेनैव प्रतिबन्धकत्वात् विरुद्धस्य साधारण एवान्तर्भावोऽस्तु। एतदेवाह - विरोध्यविषयकत्वादिति टीका। उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वमनैकान्तिकत्वम्, न चैतज्ज्ञानं प्रतिबन्धकम् अनुमितितत्कारणीभूतविषयाभावानवगाहनात् / तथा च विशेषज्ञानं साधारणत्वादिज्ञानमेव प्रतिबन्धकम् / विरुद्धस्य साधारण एवान्तर्भाव इति भावः। अन्ये तु विरुद्धलक्षणे न व्यर्थत्वं साधारणस्य व्यवच्छेद्यत्वात् / नाप्यसाधकतानुमितौ, एतस्यापि व्याप्यत्वात्, नीलधूमादौ च व्याप्तिरस्तु एवेति न स्वार्थानुमाने दोषः