________________ 516 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अनुपसंहारिणस्तु विपक्षाभावात् / तथा चानैकान्तिकसामान्यलक्षणे दूषकतायां न विपक्षगामित्वं विशेषणम् / ननु अनैकान्तिकसामान्ये यद्यपि न विपक्षगामित्वं विशेषणं तथापि साधारणे तद् भविष्यतीत्यत आह - साधारणं त्विति / साधारणं तु न विपक्षवृत्तित्वं किन्तु सपक्षविपक्षवृत्तित्वम् / तथा च साधारणे सपक्षविपक्षसहितं दूषकताबीजम्, विरुद्धे तु विपक्षवृत्तित्वमेव दूषकताबीजम् / तथा चानयोर्दूषकताबीजभेदेन हेत्वाभासभेद इत्याशङ्कार्थः / दूषयति - विपक्षगामित्वस्येति मूलम् / तेन साधारणेऽपि विपक्षगामित्वमात्रमेवास्तु दूषणम्, न तु सपक्षवृत्तित्वांशोऽपि व्यर्थत्वात् दूषकतायां व्यर्थत्वात् / ननु विपक्षवृत्तित्वमात्रं न साधारणत्वं विरुद्धेऽपि गतत्वात् किन्तु सपक्षवृत्तित्वसहितं साधारणत्वमित्याशयेनाह - न च विरुद्धमिति [266 A] | विरुद्धं व्यावृत्त्यं (वयं) साधारणात् सपक्षव्यावृत्तत्वविशेषणेन / दूषयति - विपक्षगामित्वेनेति मूलम् / तथा च विपक्षगामित्वेन विरुद्धस्यापि साधारण एवान्तर्भावोऽस्तु इष्टत्वादित्यर्थः / अत्राशङ्कते - अथेति मूलम् / अनैकान्तिकसामान्ये विपक्षसम्बन्धो न दूषकताबीजम् / असाधारणे विपक्षसम्बन्धाभावात् / ततोऽनैकान्तिकसामान्ये विपक्षसम्बन्धो न दूषकताबीजम् / अतो विपक्षसम्बन्धो विरुद्ध एव दूषकताबीजम् / अयमेव विरुद्धस्य अनैकान्तिकात् भेदः / मध्ये शङ्कते - न चेति। तत्र असाधारणे यद्यपि विपक्षसम्बन्धो नास्ति तथापि तत्रान्यदेव दूषकताबीजं भविष्यति। अनैकान्तिके तु विपक्षगामित्वमेव दूषकताबीजमस्तु, ततो विरुद्धोऽप्यनेन रूपेणानैकान्तिक एवान्तर्भूतोऽस्तु इत्याशङ्कार्थः / दूषयति - हेत्वाभासेति मूलम् / तथा चासाधारणेऽनैकान्तिकसामान्ये दूषकताबीजं यो विपक्षसम्बन्धः स यदि असाधारणे नास्ति तदाऽसधारणास्यानैकान्तिकात् बहिर्भावे हेत्वाभासान्तरतापत्तिः / तस्माद+कान्तिकसामान्ये विपक्षसम्बन्धो न दूषकताबीजम् किन्तु विरुद्ध एव एतद् दूषकताबीजम् इत्यतो विरुद्धः पृथग् हेत्वाभास इति / अथेत्यारभ्य पूर्वपक्षार्थः / समाधत्ते - अस्त्विति मूलम् / एवमिति मूलम् / अनैकान्तिकसामान्ये विपक्षसम्बन्धो दूषकताबीजं मास्तु असाधारणे विपक्षसम्बन्धाभावात् / किन्तु साधारणे दूषकताबीजं विपक्षसम्बन्धो भवत्येव / तथा च साधारणे विरुद्धप्रवेशो विपक्षसम्बन्धत्वेन रूपेण वर्तत एवेति विरुद्धो न पृथग् हेत्वाभासः। अथ टीका / संयोगादीतीति टीका / ननु वृक्षः संयोगी द्रव्यत्वात् इत्यत्र संयोगसाध्यके सद्धेतौ द्रव्यत्वे संयोगाभावव्याप्त(प्य)त्वमेव नास्ति, द्रव्यत्वाधिकरणे संयोगसामान्याभावो नास्त्येव परमाण्वाकाशादिसंयोगसत्त्वात् कुतो लक्षणातिव्याप्तिरित्यन्यथा व्याचष्टे - संयोगविशेषेति टीका / तथा च वृक्षः कपिसंयोगी वृक्षत्वात् इत्यत्राति]व्याप्तिर्वृक्षत्वस्य साध्याभावव्याप्त(प्य)त्वात् अतिव्याप्तिरित्यर्थः / ननु मूलस्थं साध्यासमानाधिकरणसाध्याभावव्याप्यत्वं विरुद्धत्वम् इदम् / वृक्षः कपिसंयोगी वृक्षत्वात् इत्यत्रातिव्याप्तिः। कथम् ? यतः साध्यासमानाधिकरणं नाम साध्याधिकरणात् भिन्नं यत् अधिकरणं तन्निष्ठत्वम्, तथा वृक्षः कपिसंयोगी