________________ हेत्वाभासप्रकरणे विरुद्धः वर्तमानत्वात् / यदि च हेतुर्वर्तते तदा साध्यं नास्ति तदा बाध एव स्यात्, पक्षे साध्याभाव एव बाध इति वचनात् / हतु(त्व)सिद्धिरिति स्वरूपासिद्धिरित्यर्थः / अत्र शङ्कते - न चेति / तथा च यत्र प्रमाणान्तरेण साध्याभावसिद्धिस्तत्र बाधः / यत्र च तेनैव हेतुना साध्याभावसिद्धिस्तत्र विरुद्धो हेत्वाभासः, यथा अयमश्वो गोत्वात् अत्र गोत्वेनैव हेतुना अश्वत्वाभावः यथा अयमश्वत्वाभाववान् गोत्वादिति, ततोऽयमेवास्य बाधात् भेद इति शङ्कार्थः / दूषयति - विशेषणेति मूलम् / तथा च साध्याभावसिद्धिरेव बाधः, न तु प्रमाणान्तरेणेति विशेषणं देयम्] गौरवात् बाधलक्षणेऽधिकनिरर्थकपदप्रवेशादित्यर्थः / अथेत्यारभ्य चेत्पर्यन्तं विरुद्धनिषेधे पूर्वपक्षार्थः / विरुद्धं समर्थयति - हेतोरिति मूलम् / हेतुना यावत्पर्यन्तं साध्याभाव उपस्थापित एव नास्ति तावत्पर्यन्तमेव प्रथमोपस्थितं यत् साध्यहेत्वोर्विरोधज्ञानं तस्यैवानुमितिप्रतिबन्धकत्वेन बाधे उपजीव्य एव विरोधः स्वतन्त्रो हेत्वाभासः। अथ विरुद्धो व्यभिचारान्तर्भूत एव दूषणमित्याशयेन शङ्कते - नन्विति मूलम् / तथा च यत्र विरुद्धत्वं तिष्ठति तत्र साध्याभावसम्बन्धस्तु हेतोरवश्यं तिष्ठति, ततोऽत्र व्यभिचार एव दोषोऽस्तु साध्याभाववति [265 B] हेतोर्वर्तमानत्वात् / तेन विरुद्धः पृथग् मास्तु / न त्विति / इदमसाधकं साध्याभावव्याप्तत्वात् साध्याभावनियतसहचरितत्वात् इत्यत्र नियतपदं व्यर्थम्, साध्याभावसहचरितत्वात् इत्येवास्तु / तच्च व्यभिचार एवेति / ततो लक्षणे दूषकत्वे साध्याभावसहचरितत्वं वा साध्य(ध्या)भावनियतसहचरितत्वं वेति साध्याभावसहचरितत्वमेवास्तु, गौरवात् नियतपदं व्यर्थमिति। गौरावामुक्त्वा असाधकतायां व्यर्थत्वमाहअसाधकत्वे इति। इदमसाधकं साध्याभावसहचरितत्वादित्येवास्तु न तु नियतत्वांशोऽपीति गौरवादित्यर्थः / ननु साध्याभावसहचरितत्वं हेतोर्व्यभिचारः, साध्याभावनियतसहचरिततत्वं विरुद्धत्वम्, ततः साध्याभावसहचरितत्वेन व्यभिचारेण यादृशी असाधकतानुमितिः क्रियते तद्विलक्षणा [आसाधकत्वविशेषानुमितिः साध्याभावनियतसहचरितत्वरूपविरुद्धत्वेन क्रियते, सा [आसाधकत्वविशेषानुमितिर्न व्यभिचारित्वमात्रेण किन्तु साध्याभावनियतसहचरितत्वेनेति नियतत्वांशोऽसाधकत्वविशेषोन्नायकतया साधकं(कः) सार्थकम्(कः) इत्याशङ्कय निराकरोति - न चेति मूलम् / साध्याभावसहचरितस्य नाम साध्याभावनियतसहचरितस्य विरुद्धस्येत्यर्थः / साध्याभावसहचरितस्य साध्याभाववद्वृत्तित्वस्य व्यभिचारस्य गमकत्वभ्रमरूपायामशक्तौ असाधकत्वानुमितावित्यर्थः / तत्रेति / यथा व्यभिचारित्वेनासाधकत्वानुमितिः क्रियते तादृशी, [न] तद्विलक्षणाऽसाधकतानुमितिर्विद्धत्वे]न क्रियते, विशेष) एव तु नास्ति / तथा च विरुद्धस्य यत् कार्यं तद् व्यभिचारत्वेनैव क्रियते ननु विरुद्धत्वेन किम्, किमर्थं विरुद्धत्वाङ्गीकारः ? तथा चाशक्तिविशेषोन्नायकतयाऽपि [कथं] न व्यर्थविशेषणता भवेदित्याशङ्कार्थः / अत्राशङ्कते - नचेति। तथा चानैकान्तिकत्वसामान्यलक्षणे विपक्षगामित्वं न विशेषणम्, असाधारणेऽनुपसंहारिणि च विपक्षगामित्वस्यैवाभावात्, असाधारणस्य विपक्षव्यावृत्तत्वात्,