________________ हेत्वाभासप्रकरणे विरुद्धः 513 तेन साध्याभावाव्यभिचारित्वे सति साध्याभावसहितत्वम्, सत्यन्तं साधारणे अतिव्याप्तिवारणार्थम्, यथा धूमवान् वढेः इत्यत्र धूमाभाववति वह्निवृत्तिः परं वह्नः धूमाभावाव्यभिचारित्वं नास्ति धूमवत्वपि तस्य वर्तमानत्वात् / विरुद्धस्तु साध्याभावव्याप्त एव, यथा अयमश्व: गोत्वात् यत्र यत्र गोत्वं तत्र तत्र अश्वत्वाभाव इत्यश्वत्वाभावेन गोत्वहेतुर्व्याप्तः इति विरुद्धः / इदं लक्षणं दूषयति - संयोगादीति मूलम् / अयं कपिसंयोगी वृक्षत्वात् यत्र यत्र वृक्षत्वं तत्र कपिसंयोग इति व्याप्तिसत्त्वात् सद्धेतुरस्ति परं संयोगाभावेनापि सह वृक्षत्वं व्याप्तमिति सद्धेतावतिाव्याप्तिारित्यर्थः / लक्षणान्तरमाह - नापीति मूलम् / साध्यवति वर्तमानो योऽत्यन्ताभावः तस्य यत् प्रतियोगि तव्याप्यत्वम् / यथा अयमश्वः गोत्वात् इत्यत्राश्वत्ववन्निष्ठोऽत्यन्ताभावो गोत्वस्यात्यन्ताभावः, तत्प्रतियोगि गोत्वम्, तद्व्याप्यत्वं गोत्वे वर्तते यत्र गोत्वं तन गोत्वमिति अभेदेऽपि व्याप्यव्यापकभावात् / अभेदे यथा व्याप्यव्यापकभावस्तथा सत्प्रतिपक्षग्रन्थे वक्ष्यते / इदं दूषयति - इदमिति मूलम् / इदं द्रव्यं गुणवत्त्वात् इत्यत्र सद्धतावतिव्याप्तिः / साध्यं यद् द्रव्यत्वं तद्वत् यद् द्रव्यं तन्निष्ठो योऽत्यन्ताभावः संयोगात्यन्ताभावः, तस्य प्रतियोगी संयोगः, तद्व्याप्यत्वं गुणवत्त्वे वर्तते, यथा यत्र यत्र गुणवत्त्वं तत्र संयोगः, इति गुणवत्त्वस्य साध्यवन्निष्ठात्यन्ताभावप्रतियागित्वं वर्तते इति कृत्वा उक्तसद्धेतावतिव्याप्तिः / सिद्धान्तलक्षणमाह - किन्त्विति / साध्येन सहासमानाधिकरणो यः साध्याभावस्तद्वयाप्यत्वम् / यथा अयमश्वो गोत्वात् इत्यत्र साध्यमश्वत्वम्, तेन सहासमानाधिकरणो यः साध्याभावोऽश्वत्वाभावः तद्व्याप्यत्वं वर्तते गोत्वस्य, यथा यत्र यत्र गोत्वं तत्र तत्राश्वत्वाभावः, इति साध्यासमानाधिकरणसाध्याभावव्याप्यत्वं गोत्वे वर्तते / वृक्षः कपिसंयोगी वृक्षत्वात् इत्यादौ अतिव्याप्तिवारणार्थं साध्यासमानाधिकरणपदम् / तत्र यद्यपि साध्याभावव्याप्यत्वं वृक्षस्य विद्यते परं साध्यासमानाधिकरणसाध्याभावव्याप्यत्वं नास्ति, यतः स(यः) संयोगाभावः स संयोग(गा)समानाधिकरणो न भवति। साध्यासामानाधिकरणत्वमात्रम् अवृत्तिगगनादौ गतमतः साध्याभावव्याप्यत्वमिति गगने साध्याभावव्याप्यत्वं नास्ति गगनस्य [264 B] अवृत्तित्वात् इत्यर्थः / अथ साध्यासमानाधिकरणपदान्तर्भावे गौरवमिति तदनन्तर्भावेनैवान्योन्याभावगर्भलक्षणमाह - साध्यवदन्येति / साध्यवतो योऽन्योन्याभावः तद्व्याप्तत्वं हेतोरित्यर्थः / यथा अयमश्वो गोत्वात् इत्यत्र अश्वत्ववदन्योन्याभावोऽश्वान्योन्याभावस्तु एक एव, तद्व्याप्तत्वं गोत्वस्य वर्तते यथा यत्र यत्र गोत्वं तत्राश्वान्योन्याभावः इति / ननु प्रथमलक्षणेऽयं घटात्यन्ताभाववान् घटात् इत्यत्र विरुद्धे हेतौ घटे साध्याभावस्याभावो नास्ति / अत्र साध्यस्य घटात्यन्ताभावरूपस्याभावरूपत्वेनाभावप्रतियोगिकाभावान्तरानभ्युपगमात् अव्याप्तिरित्यत आह - साध्याभावत्वमिति मूलम् / न हि अत्राभावैकस्वभावत्वं साध्याभावत्वं विवक्षितं किन्तु भावाभावसाधारणमेव साध्याभावत्वं विवक्षितम् / तथा यद्यपि घटात्यन्ताभावस्याभावो