________________ हेत्वाभासप्रकरणे विरुद्धः विरुद्धो न साध्याभावव्याप्यः संयोगादिसाध्यके सद्धेतावतिव्याप्तः। नापि साध्यवन्निष्ठात्यन्ताभावप्रतियोगिव्याप्यत्वं तत्त्वम् इदं द्रव्यं गुणवत्त्वात् इत्यादौ संयोगादिव्याप्येऽतिव्याप्तेः, किन्तु साध्यासमानाधिकरणसाध्याभावव्याप्यः साध्यवदन्योन्याभावव्याप्यो वा, साध्याभावत्वं साध्यविरोधित्वमानं भावाभावसाधारणं तेनाभावे साध्येऽभावाभावस्य भावत्वेऽपि नाव्याप्तिः अभावाभावोऽभावप्रतियोगिनिरूप्यत्वेन भावभिन्न एव वा / न च भावत्वेनोपपत्तौ किमधिकेनेति वाच्यम् / बाधकं विना अभावप्रतीतेः प्रमात्वात् अन्यथा अत्यन्ताभावान्योन्याभावयोरप्रसिद्धिः। अथ साध्यहेत्वोर्विरोधे पक्षे साध्यसत्त्वे हेत्वसिद्धिः हेतुसत्त्वे साध्याभावसिद्धौ बाधः / न च प्रमाणान्तरेण साध्याभावसिद्धौ बाधो न हेतुत्वेनैवेति वाच्यम् / विशेषणवैयर्थ्यादिति चेत् / न। हेतो: पक्षे साध्याभावोपस्थापनेऽपि प्रथमोपस्थितविरोधस्यैव उपजीव्यत्वेन दोषत्वात् / ननु साध्याभावसम्बन्धो व्यभिचार एव दोषः न तु तन्नियतत्वमपि गौरवात् असाधकत्वे व्यर्थत्वाच्च / न च साध्यासहचरितस्य साध्याभावसहचरितस्य वा गमकत्वभ्रमरूपायामशक्तौ विशेषोऽस्ति येनाशक्तिविशेषोन्नायकतया न व्यर्थविशेषणता। न चानैकान्तिकसामान्यलक्षणे विपक्षवृत्तित्वं न विशेषणम् असाधारणाद्यव्याप्तेः साधारणं तु सपक्षवृत्तित्वसहितमिति वाच्यम् / विपक्षगामित्वस्यैव साधारणत्वात् अधिकस्य व्यर्थत्वात्। न च विरुद्धं व्यावत्र्यं विपक्षगामित्वेनात्रैव तदन्तर्भावात् / अथानैकान्तिके विपक्षसम्बन्धो न दूषकताबीजम् असाधारणाद्यव्याप्तेः। न च तत्रान्यदेव बीजं हेत्वाभासाधिक्यापत्तेरिति चेदस्तु तावदेवं तथापि साधारणे विरुद्धप्रवेशो वज्रलेप एव। अथ मूलम् / विरुद्धति मूलम् / साध्याभावेन व्याप्तो हेतुर्विरुद्धः / साध्याभावसहचरितो हेतुर्विरुद्धः इत्युच्यमाने साधारणेऽतिव्याप्तिः, अत उक्तम् - व्याप्तेति / व्याप्तत्वं नामाव्यभिचरितसामानाधिकरण्यम्,