________________ हेत्वाभासप्रकरणे सव्यभिचारः 511 इत्यत्र अनित्यत्वप्रमेयत्वयोर्व्याप्तिः यद्यपि नास्ति तथापि अयं व्याप्यत्वासिद्धो भवत्येव यतो व्याप्ति स्ति तथापि व्याप्यत्वासिद्धौ अयमनुपसंहारी उपजीव्यो भवत्येव व्याप्यत्वासिद्धस्तु उपजीवक इति अनुपसंहारी पृथक् हेत्वाभास इति। स्वरहस्यमाह - वस्तुत इति। मूलकारेण व्याप्यत्वासिद्धशब्देनाज्ञानरूपाऽसिद्धिरेवोक्ता न तु व्याप्यत्वासिद्धिर्यतो व्याप्त्या(प्त्य)ज्ञानरूपा याऽज्ञानरूपाऽसिद्धिर्यतोऽत्र व्याप्तिर्नास्तीति / तस्या उपजीव्योऽनुपसंहारी भवति / यत एव सर्वत्र साध्याभावसन्देहोऽत एव साध्यस्य हेतोश्च व्याप्तिनिश्चयो नास्ति। अतो व्याप्तिनिश्चयश्चेन्नास्ति अत एवाज्ञानरूपासिद्धौ अयमनुपसंहारी उपजीव्यः / अत्रैवोपोद्वलकमाह - अत एवेति / यत एवानुपसंहारे(रि)णोऽज्ञानरूपासिद्धौ उपजीव्यत्वम् अत एव मूलकारोऽपि व्याप्यत्वासिद्धिमप्यज्ञानरूपासिद्धित्वेनैव विभावयिष्यति। ननु अनुपसंहारिणोऽज्ञानरूपासिद्धौ उपजीव्यत्वं तदा ज्ञाने इत्ययुक्तम् / अज्ञानरूपासिद्धिर्या वर्तते तस्याः स्वरूपेऽनुपसंहारी उपजीव्यो भवति, [न] अज्ञानरूपासिद्धर्ज्ञाने इति, अत आह - अत एवेति / यत एव अज्ञानरूपासिद्धर्ज्ञाने नोपजीव्यत्वम् अत एव एतदपरितोषेणैव उद्भावने च' इत्युक्तम् / ननु घटाकाशेति मूलमप्रकृतमेवेत्यत आह - अनुपदमिति। घटाकाशेत्यादिस्थले उक्ता याऽव्याप्तिस्तामव्याप्तिं निराकरोति - घट इति / तथा च यद्यप्याकाशे घटाभावे निश्चयो वर्तते तर्हि सोऽनुपसंहारी न भयत्येव, स तु विरुद्ध एवेत्यर्थः / यत्र सर्वत्र साध्याभावसन्देहो भवति तदाऽनुपसंहारित्वम् / एतस्य तु गगने साध्य(ध्या)भावस्य निश्चयात् ततः सर्वत्र साध्याभावसन्देहो नास्तीति नानुपसंहारी। ननु घटोऽनित्यो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वात् इत्यत्र विरुद्धत्वमपि न सम्भवति, विरुद्धस्तु साध्याभावव्याप्तः। प्रकृते चहेतोः साध्याभावव्याप्तिर्नास्ति इति स विरुद्धः कथं स्यादित्यत आह - इदं चेति टीका / इदं च विरुद्धत्वम् / अनवगतसाध्यसहचारो विरुद्ध इति प्राचां विरुद्धस्य लक्षणमभिप्रेत्योक्तम् / रहस्यमाह - वस्तुत इति टीका [264 A] / घटोऽनित्यः घटाकाशेत्यादिकः साध्याभाववति गगने हेतोर्विद्यमानत्वात् अयं साधारण एवेति सारम् / / इति समाप्तः सव्यभिचारग्रन्थः।