________________ 510 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कुतः ? उपाधिज्ञाने विद्यमानेऽपि व्यभिचारतदभावकोटिकस्मरणविरहदशायामुपाधिज्ञाने विद्यमानेऽपि व्यभिचारसन्देहाभावात् नोपाधिज्ञानस्य व्यभिचारसंशयसामग्रीत्वमित्याशङ्कार्थः / समाधत्ते - न हीति टीका। तादृशेति / साध्याभावसंशयविषयवृत्तित्वज्ञाने विद्यमानेऽपि हेतौ साध्यसामानाधिकरण्यतदभावकोटिकस्मरणविरहदशायां हेतौ साध्यसामानाधिकरण्यसंशयजनकत्वाभावात् न तज्ज्ञानस्य साध्याभावसंशयविषयवृत्तित्वज्ञानस्य उक्तरूपसंशयसामग्रीत्वम् / एतदेवाह - कोटीति / तथा चाया प्रतिबन्धा अनुपसंहारी हेत्वाभासस्तदा उपाधेरप्युक्तरीत्या हेत्वाभासत्वं स्यात् इत्यर्थः / अत्राशङ्कते - न चेति टीका / साध्यव्यापकत्वसाधनाव्यापकत्वज्ञाने विद्यमानेऽपि व्यभिचारतदभावकोटिस्मरणविरहदशायामुपाधिज्ञानस्य संशयानुत्थापकत्वात् न तस्य संशयसामग्रीत्वम्, अनुपसंहारिणस्तु साध्याभावसंशयविषयवृत्तित्वज्ञाने विद्यमानेऽवश्यं हेतौ साध्यसामानाधिकरण्यतदभावकोट्युपस्थापनं जायते एवेति कृत्वा एतस्य साध्याभावेत्यादिकस्यावश्यं संशयसामग्रीत्वं वर्तत एवेत्याशङ्कार्थः / दूषयति - तत्रेति / तत्र हेतौ साध्यसामानाधिकरण्यतदभावकोट्युपस्थापने तस्य साध्याभावसंशयविषयवृत्तित्वज्ञानस्यासामर्थ्यात् तस्य तदघटितत्वात् / यथा भवति च प्रामाण्यसंशयस्य विषयसंशयसामग्रीत्वं प्रमाणस्य विषयघटितमूर्तिकत्वात् घटज्ञानप्रामाण्यं नाम घटत्ववति घटे [घट]त्वप्रकारत्वं तथा प्रकृते नास्ति। न हि हेतौ साध्यसामानाधिकरण्यघटितमूर्तिकं साध्याभावसंशयविषयवृत्तित्वम् / ननु साध्याभाववद्वृत्तित्वाज्ञानदशायामिति मूलमयुक्तम् / अनुपसंहारिणि सन्देहरूपं साध्याभाववद्वृत्तित्वज्ञानं तिष्ठत्येव इति अनुपसंहारिणि इति मुक्त(मूल)मयुक्तम् इत्यतोऽन्यथा व्याचष्टे - साध्याभाववद्वृत्तित्वे इति / निश्चयरूपं साध्याभाववद्वृत्तित्वज्ञानं तु नास्त्येव तच्च विरुद्ध वर्तत एवेति कृत्वा यदा व्यतिरेकसाध्यके सर्वमनित्यं प्रमेयत्वात् यदाऽनित्यत्वरूपसाध्याभाववद्वृत्तित्वस्य निश्चयो नास्ति तदा तु अनुपसंहार्येव, यदा तु साध्याभाववद्वृत्तित्वनिश्चयोऽस्ति तदा तु साधारणसङ्कर एवेत्यर्थः / ननु तदवगम इति अपि मूलमयुक्तम् / साध्याभाववद्वृत्तित्वावगमस्तु तिष्ठत्येवानुपसंहारिणि सन्देहरूपसाध्याभाववद्वृत्तित्वज्ञानस्यानुपसंहारिणि सत्त्वात् इत्यर्थः / इत्यतोऽन्यथा व्याख्यातम् - तन्निश्चय एवेति / ननु तदा साधारणसङ्कर एवेति मूलकारोक्तमयुक्तम् / यदा तु साध्याभाववद्वृत्तित्वनिश्चयो वर्तते तदानीमनुपसंहारित्वं नास्त्येवेति कथं साधारणेन सह सङ्कर इत्यत आह - कालभेदेति / तथा च [263 B] सर्वमनित्यं प्रमेयत्वात् इत्यत्र प्रमेयत्वहेतौ कालभेदेन सङ्को बोद्धव्यः / तथाहि यदा प्रमेयत्वे साध्याभाववद्वृत्तित्वनिश्चयो वर्तते तदानीं साधारणः, यदा तु साध्याभाववद्वृत्तित्वस्य सन्देहरूपं ज्ञानं तिष्ठति तदाऽनुपसंहारित्वमिति कालभेदेन साधारणानुपसंहारित्वयोः सङ्को बोद्धव्यः / ननु व्याप्यत्वासिद्धस्येत्ययुक्तं मूलम् / सर्वमभिधेयं प्रमेयत्वात् इत्यत्र व्याप्यत्वासिद्धिरेव नास्ति प्रमेयत्वाभिधेयत्वयोर्व्याप्तेर्विद्यमानत्वात् इत्यत आह - इदं चेति टीका।न हीदं केवलान्वयिसाध्यकानुपसंहार्यभिप्रायेणेति किन्तु व्यतिरेकसाध्यकाभिप्रायेण / यथा सर्वमनित्यं प्रमेयत्वात्