________________ हेत्वाभासप्रकरणे सव्यभिचारः 509 चिन्त्यमिति टीका। तज्ज्ञानेति टीका। साध्याभावसंशयविषयवृत्तित्वज्ञाने विद्यमानेऽपि शब्दात् आप्तवाक्यात् व्याप्तिग्रहो भवत्येव / यथा पूर्वं हेतोः साध्याभावसंशयविषयवृत्तित्वज्ञानं जातम्, तस्मिन् ज्ञाने जातेऽपि इदं प्रमेयत्वमनित्यत्वव्याप्यमिति केनचिद् आप्तेनोक्तम्, तदा संशयविषयवृत्तित्वज्ञाने विद्यमानेऽपि हेतौ साध्यसामानाधिकरण्यरूपव्याप्तिनिश्चयो जायते इति कृत्वा तज्ज्ञानं न व्याप्तिग्रहप्रतिबन्धकम् / दूषणान्तरमाह - साध्येति / यदि [262 B] आदौ साध्यसामानाधिकरण्यसंशयस्यैव साध्यसामानाधिकरण्यनिश्चयप्रतिबन्धकत्वं स्यात् तदा खलु तत्संशयसामग्री निश्चयप्रतिबन्धिका स्यात् / संशयस्यैव यदि प्रतिबन्धकत्वं नास्ति तदा संशयसामा याः प्रतिबन्धकत्वं कुतः, यतः साध्यसामानाधिकरण्यसंशयस्यैव योग्यता संशयपर्यवसन्नतया ग्राह्यसंशयपर्यवसन्नतया ग्राह्यनिश्चयाप्रतिबन्धकत्वात् / यथाऽत्र घटोऽस्ति न वेति संशये विद्यमानेऽपि घटनिश्चयो जायते घटेन्द्रियसन्निकर्षो जायते तद्वत् प्रकृतेऽपि ग्राह्यं साध्यसामानाधिकरण्यं तस्य यः संशयः संग्राह्यसंशयः स, हेतौ यः साध्यसामानाधिकरण्यसंशयः संग्राह्यसंशयो भवति तत्संशयस्य ग्राह्यनिश्चयाप्रतिबन्धकत्वात् / तथा च ग्राह्यसंशयस्यैव यदि प्रतिबन्धकत्वं नास्ति तदा तत्सामा याः सुतरामप्रतिबन्धकत्वम् / अत्राशङ्कते - न चैवमिति टीका। यदि साध्याभावसंशयविषयवृत्तित्वज्ञानस्य हेतौ साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन प्रतिबन्धकता चेन्नास्ति, कुतः ?, साध्याभावसन्देहविषयवृत्तित्वज्ञाने विद्यमानेऽपि शब्दादिना व्याप्तिग्रहात्, तर्हि व्यभिचारसंशये विद्यमानेऽपि शब्दाद् व्याप्तिग्रहो भविष्यति, तदा व्यभिचारसंशयस्यापि व्याप्तिग्रहप्रतिबन्धकता न स्यात् आप्तवाक्यात् तत्रापि व्याप्तिग्रहस्य जायमानत्वात्, तथा सति व्यभिचारस्यापि हेत्वाभासत्वं न स्यादित्यर्थः / एवं प्रतिबन्धा यदि अनुपसंहारिणो हेत्वाभासत्वमुक्तरीत्या न स्यात् तदा व्यभिचारस्यापि हेत्वाभासत्वं न स्यादिति भावः / समाधत्ते - न हीति टीका / यद्विषयः संशयोऽनुमितिप्रतिबन्धकः साक्षात् परम्परया वा तत्त्वं हेत्वाभासत्वमिति न हि किन्तु यद्विषयो निश्चयोऽनुमितिप्रतिबन्धकस्तत्त्वं हेत्वाभासत्वंम् / यथा धूमो वहिव्यभिचारीति भ्रमरूपे व्यभिचारनिश्चये विद्यमाने केनापि प्रकारेणानुमितिर्न भवति / तथा च व्यभिचारो हेत्वाभासो भवति / अनुपसंहारी चैतादृशो नास्ति / कथम् ? अनुपसंहारित्वस्य निश्चयः प्रतिबन्धको नास्ति / यतो हेतुमति साध्याभावस्य निश्चय एव नास्ति, सर्वस्मिन् अनित्यत्वरूपसाध्यसन्देहात् / दूषणान्तरमाह - अन्यथेति टीका / यदि साध्याभावसंशयविषयवृत्तित्वज्ञानस्य हेतौ साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन प्रतिबन्धकत्वं तदा व्यभिचारसंशयसामग्रीत्वेन साध्यव्यापकसाधनाव्यापकलक्षणोपाधिज्ञानरूपेण व्याप्तिग्रहप्रतिबन्धकत्वात् उपाधिज्ञानविषयस्योपाधिरपि हेत्वाभासत्वं स्यात् इत्यर्थः / ततः साध्याभावसंशयविषयवृत्तित्वज्ञानं हेतौ साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन न हेत्वाभास इत्युक्तं भवति / एतदेवाह - औचित्यावर्जिते इति टीका / अथोपाधिज्ञानस्य व्यभिचारसन्देहसामग्रीत्वमेव नास्तीत्याशङ्कते [263 A] - तज्ज्ञानस्येति टीका / तथा चोपाधिज्ञानव्यभिचारसन्देहसामग्री एव न भवति /