________________ 508 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथा च संशयसामा या विशेषादर्शनरूपायाः स्थाणुर्वेत्यादौ दृष्टत्वात् / तथा प्रकृते इयं हेतोः साध्यसामानाधिकरण्यरूपसंशयसामग्री सा निश्चयप्रतिबन्धिका भवत्येव / एतदेव विवृणोति - तद्विशिष्टस्येति टीका। तच्छब्देन केवलान्वयिधर्मव्यापकतादृशसंशयविषयमात्रवृत्तित्वम्, तद्विशिष्टो यो हेतुः तज्ज्ञानस्य साध्यसामानाधिकरण्यसंशयजनकत्वं वर्तत एव / यत् साध्यसामानाधिकरण्यसंशयजनकं तत् साध्यसामानाधिकरण्यनिश्चयप्रतिबन्धकं भवत्येव / कथं भवतीत्यत आह - हेतुमतीति टीका / हेतुमति सर्वत्र साध्याभावसन्देहेन हेतौ साध्यसामानाधिकरण्यसन्देहः क्रियते एव / यथा पर्वते वक़्यभावसन्देहे विद्यमाने पर्वतत्वे वन्यसामानाधिकरण्ये सन्देहो भवत्येव तद्वत् सर्वस्मिन् हेतुमति यदि साध्याभावसन्देहो वर्तते तदा तेन साध्याभावसन्देहेन हेतौ साध्यसामानाधिकरण्यसन्देह औचित्यावर्जितः / उचितः सन्देहो यथा ज्ञाने प्रामाण्यसन्देहात् विषयसंदेह: इत्युचितः [262 A] सन्देहः उपाधिसन्देहात् वा व्यभिचारसन्देहः, तद्वत् संशयविषयवृत्तित्वज्ञानात् औचित्यावर्जितो हेतौ साध्यसामानाधिकरण्यसंशयो भविष्यत्येव / यत एव संशयविषयवृत्तित्वज्ञानं हेतोञ्जनस्य साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन प्रतिबन्धकत्वम् अत एवास्यानुपसंहारिणोऽनित्यदोषत्वं संशयसामर या अनित्यत्वात् / एतदेव सामर या अनित्यत्वमेव विवृणोति - विशेषदर्शनसत्त्व इति / यत एव सर्वस्याः संशयसामा या विशेष(षा)दर्शनसहिताया एव संशयजनकत्वम् अतो विशेषदर्शने विद्यमाने संशयसामग्रीत्वमेव नास्ति / अत एवानित्यदोषत्वम् अनुपसंहारिण इत्यर्थः / अत्राशङ्कते - उक्तक्रमेणेति। त्वयोच्यते संशयविषयवृत्तित्वज्ञानं साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन चेत् दोषः तदा स यः साध्याभावसंशयस्तस्यैव दोषत्वं कल्प्यताम् न तु संशयविषयवृत्तित्वज्ञानस्येति शङ्कार्थः / दूषयति - क्वचिदिति / साध्याभावसंशयमानं न हेतौ साध्यसामानाधिकरण्यसंशयसामग्री। कुतः ? हेतोरनुपस्थितदशायां साध्याभावसंशये विद्यमानेऽपि साध्यसामानाधिकरण्यसंशयाभावात् / तस्मात् साध्याभावसंशयमात्रं न साध्यसामानाधिकरण्यसंशयसामग्री हेतोरनुपस्थितिदशायां तस्यास्तत्सामग्रीत्वाभावात् / ननु भवतु साध्याभावसंशयविषयवृत्तित्वज्ञानं साध्यसामानाधिकरण्यसंशयसामग्रीत्वम्, तस्यास्तु निश्चयप्रतिबन्धकत्वम् / कथमित्यत आह - विशेषादर्शन इति / तथा च यथा साध्यसामानाधिकरण्यसंशयः साध्यसामानाधिकरण्यनिश्चये प्रतिबन्धकः तद्वत् साध्याभावसंशयविषयवृत्तित्वज्ञानमपि संशयसामग्रीत्वेन साध्यसामानाधिकरण्यनिश्चये प्रतिबन्धकं भवत्येव / संशयसामर यास्तु निश्चयप्रतिबन्धकत्वं क्लृप्तमेव। अत्रायं प्रघट्टकार्थः - हेतोः साध्याभावसंशयविषयवृत्तित्वमनुपसंहारित्वं यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र प्रमेयत्वहेतोरनित्यत्वाभावसंशयविषयो यद्विश्वं तद्वृत्तित्वमनुपसंहारित्वम् / तज्ज्ञानस्य हेतोः साध्यसामानाधिकरण्यसंशयसामग्रीत्वेनानुमितिप्रतिबन्धकत्वम् / अत्र हेत्वधिकरणे यदि साध्याभावसंशयस्तदा तेन संशयेन हेतौ साध्यसामानाधिकरण्यसंशयोऽवश्यं क्रियत एवेति कृत्वा संशयविषयवृत्तित्वज्ञानं हेतौ साध्यसामानाधिकरण्यसंशयसामग्रीत्वेनावश्यं प्रतिबन्धकं भवत्येवेत्यनुपसंहारी हेत्वाभासः सिद्धः / इदं दूषयति