________________ हेत्वाभासप्रकरणे सव्यभिचारः 507 प्रतिबन्धकत्वात् प्रकृते च साध्याभावो नास्तीति नानुपसंहारी सः / दूषयति - अव्यवहितेति टीका / सर्वमभिधेयं प्रमेयात्वा]त् इत्यत्र विप्रतिपत्त्येति मूलग्रन्थेनानुपसंहार्येवेत्यभिधानात् / अग्रिमग्रन्थ उक्तरूपमूलग्रन्थ इत्यर्थः / दूषणान्तरमाह - तज्ज्ञानस्येति / अनुपसंहारिणि साध्याभावांशे सन्देहरूपसाध्याभावसहचरितत्वज्ञानत्वेन प्रतिबन्धकत्वेऽपि तज्ज्ञानस्यानुपसंहारित्वज्ञानस्य साधारणविलक्षणप्रतिबन्धकत्वं नास्ति / कथम् ? साध्याभावांशे सन्देहरूपसाध्याभावसहचरितत्वज्ञानत्वेन या प्रतिबन्धकता यथा सर्वं वस्तु अनित्यं न वेत्यत्रायं सन्देहः प्रमेयं सर्वं वस्तु अनित्यं न वेति रूपः स साध्याभावांशे सन्देहरूपसाध्याभावसहचरितज्ञानं भवति प्रतिबन्धकता साधारणत्वेनैव रूपेण तथा चायं साधारण एव भवतु / एतदेवाह - साधारणविलक्षणेति। तथा च साधारणे यत् साध्याभावसहचरितज्ञानत्वं प्रतिबन्धकतावच्छेदकतावच्छेदकं तदत्रापि वर्तत इत्यर्थः / अत्राशङ्कते - न चेति टीका / तादृशो यः संशयः सर्वमनित्यं न वेति रूपः तद्विषयः सर्वं पक्षरूपं तद्वृत्तित्वज्ञानं तदेव हेत्वाभासोपाधिः / इदं तु साधारणे नास्ति, साधारणो यः स कुत्रचिदेव साध्याभावसहचरितज्ञानम् / सर्वमनित्यमित्यत्र सर्वस्मिन् अनित्यत्वसन्देहात् / शब्दोऽनित्यः प्रमेयत्वात् इति साधारणस्य प्रमेयत्वस्यानित्यत्वाभावसहचरितत्वं गगनादावेवेति ततो भेदः / इदं दूषयति - तज्ज्ञानस्येति टीका / तज्ज्ञानमनित्यत्वसन्देहवत् यावद्विश्वं तदृत्तित्वज्ञानं यद् वर्तते तत् न वा फलेऽनुमितौ साक्षात् प्रतिबन्धकं, प्रमेयत्वस्य अनित्यत्वसंशयाक्रान्तं यद् विश्वं तद्वृत्तित्वज्ञानं तत् अनुमितिविषयः [261 B] साध्यमनित्यत्वरूपं तदभावावगाहि न भवति विश्वस्मिन् अनित्यत्वाभावस्याभासनादित्यर्थः / न वा करणविघटकम्, व्याप्तिज्ञानविघटकमपि न भवति, तद्विघटकं हि व्यभिचारज्ञानं वाऽसहचारज्ञानं वा, एवमुभयरूपमपि न भवति, सर्वस्मिन् प्रमेयत्वं वर्तते इति यत् ज्ञानं तत् अनित्यत्वप्रमेयत्वयोरसहचारज्ञानरूपमपि न भवति, व्यभिचारज्ञानरूपमपि न भवति साध्याभाववद्वृत्तित्वानवगाहनात् / यतः सर्वस्मिन् प्रमेयत्वं वर्तते एतस्मिन् ज्ञाने साध्याभाववद्वृत्तित्वानवगाहनात् / तस्मादनुपसंहारी न हेत्वाभासः इति पूर्वपक्षः ननु ज्ञाने संशय इत्यारभ्य ज्ञेयः [इत्यन्तः] / समाधत्ते - केवलान्वयीति टीका / केवलान्वयिधर्मस्याव्यापको यस्तादृशः संशयो यथा यत्र यत्र प्रमेयत्वं तत्र तत्र तादृशः संशयः सर्वमनित्यं न वेति रूपः, तन्मात्रवृत्तित्वमेवानुपसंहारित्वम् / नन्वेतन्निरुक्ता[वानुपसंहारित्वज्ञानस्य प्रतिबन्धकता कथं स्यात् पूर्वोक्तरीत्या प्रतिबन्धकतायाः खण्डितत्वादित्यत आह - तज्ज्ञानं चेति टीका / तज्ज्ञानं केवलान्वयीत्याद्युक्तरूपं ज्ञानं यद्यपि तद्ज्ञानत्वेन प्रतिबन्धकं न भवति पूर्वोक्तरीत्या ग्राह्याभावानवगाहित्वात्, किन्तु साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन प्रतिबन्धकम् / साध्यसामानाधिकरण्यस्य यः संशयः साध्यसामानाधिकरण्यसंशयः प्रमेयत्वम् अनित्यत्वरूपसाध्यसामानाधिकरण्यं न वेति रूपः, तस्य या सामग्री संशयविषयमात्रवृत्तित्वज्ञानरूपा सा सामग्री उक्तसंशयस्य भवति, तत्त्वेन प्रतिबन्धकत्वम् / एतदेव विवृणोति - संशयसामग्र या इति टीका /