________________ 506 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तत्तु प्रतिबन्धकमेव नास्तीति नानुपसंहारी हेत्वाभासः / मध्ये शङ्कते - न चेति / यदा सर्वस्मिन् अनित्यत्वसन्देहो वर्तते स एव सन्देहो हेतोः साध्याभावः (व)सहचारज्ञानं भवति यतः सर्वस्मिन् साध्यसन्देहः सर्वस्मिंश्च हेतुज्ञानमपि वर्तते, तद् ज्ञानं हेतोः साध्यसहचारनिश्चयप्रतिबन्धकं भवतीति कृत्वा विशिष्टहेतुज्ञानस्य प्रतिबन्धकत्वात् हेत्वाभासत्वं भवत्येवेत्याशङ्कार्थः / दूषयति - तथा सतीति टीका / तथा चानुपसंहारिणः साधारणत्वमेव स्यात् साधारणत्वज्ञानत्वेनैव प्रतिबन्धकत्वात् / यतः साधारणत्वं साध्याभाववद्वृत्तित्वम् / अत्रापि हेतोः साध्याभावसन्देहात् साध्याभाववति हेतुज्ञानम्, तदेव साधारणत्वम्, तेन हेतुमति साध्या[भाव]सन्देहः, स एव साध्याभाववति हेतुज्ञानम्, ततः तत् साधारणज्ञानमेव प्रतिबन्धकम् न तु अनुपसंहारित्वज्ञानम् / ननु अनुपसंहारित्वज्ञानस्य न साध्याभावसहचरितज्ञानत्वेन प्रतिबन्धकत्वं किन्तु साध्याभावस्य सर्वस्मिन् सन्देहात् स्वरूपसत्साध्याभावसंशय एव प्रतिबन्धकः, स एवानुपसंहारीत्यत आह - अत एवेति टीका। सर्वस्मिन् पक्षे साध्याभावसंशयश्चेत् प्रतिबन्धकः तदा स हेत्वाभास एव न स्यात् / कुतः ? यस्य ज्ञानं प्रतिबन्धकं स एव हेत्वाभासः / एतदेवाह - ज्ञायमानेति टीका / यद्विषयकं ज्ञानं प्रतिबन्धकं स एव हेत्वाभासः, अतः स्वरूपसन् सन्देहः प्रतिबन्धक इति कृत्वा न स हेत्वाभासः / अत्राशङ्कते - न चेति टीका। तथा चोक्तरूपसंशयस्य ज्ञान प्रतिबन्धकं मास्तु किन्तु संशय एव साध्याभावसामानाधिकरण्यज्ञानत्वेन प्रतिबन्धकम(कोड)स्तु। ततोऽनुपसंहारित्वज्ञानस्य साध्याभावसामानाधिकरण्यज्ञानत्वेन प्रतिबन्धकत्वमस्तु, तस्यापि साध्याभावसामानाधिकरण्यज्ञानत्वादनुपसंहारी हेत्वाभासोऽस्तीत्याशङ्कार्थः / समाधत्ते - सहचारेति / तथा च यत्रानुपसंहारिणि सर्वस्मिन् साध्याभावसन्देहो वर्तते तत्र सर्वत्र साध्यसहचारनिश्चय एव नास्ति इति कारणाभावादेव न व्याप्तिग्रहो न तु हेत्वाभासात् / दूषणान्तरमाह- तेन रूपेणेति / साध्याभावसामानाधिकरण्यज्ञानत्वरूपेण प्रतिबन्धकत्वस्याकल्पनात् / यतः साधारणज्ञानस्य साध्याभावांशे निश्चयरूपसाध्याभावसहचरितज्ञानत्वेन प्रतिबन्धकत्वं परं साध्याभावांशे सन्देहरूपसाध्याभावसहचरितज्ञानत्वेन न कुत्रापि प्रतिबन्धकत्वम्, [261 A] तेनानुपसंहारित्वज्ञानस्य प्रतिबन्धकत्वं न कल्प्यम् / ननु उपाधिसन्देहाहितो यत्र व्यभिचारसन्देहस्तत्र साध्याभावांशे सन्देहरूपसाध्याभावसहचरितज्ञानत्वेन प्रतिबन्धकत्वस्य दृष्टत्वात् अत्रापि साध्याभावांशे सन्देहरूपसाध्याभावसहचरितज्ञानत्वेन प्रतिबन्धकत्वात् हेत्वाभासोऽनुपसंहारी भवत्येवेत्यत आह - कल्पते वेति / यदि अनुपसंहारित्वज्ञानस्य साध्याभावांशे सन्देहरूपसाध्याभावसहचरितज्ञानत्वेन प्रतिबन्धकत्वं तदा केवलान्वयिसाध्यकानुपसंहारिणोऽसङ्ग्रहापत्तिः यथा सर्वमभिधेयं प्रमेयत्वात् इत्यस्यासङ्ग्रहापत्तेः / कुत इत्यत आह - तत्रेति / केवलान्वयिसाध्याभावस्याप्रसिद्धेः साध्याभावांशे सन्देहो नास्ति। अत्राशङ्कते - न चेति टीका / तथा च केवलान्वयिसाध्यकोऽनुपसंहारी उक्तरूपः स लक्ष्य एव न भवति अनुपसंहारी एव न भवति, साध्याभावांशे सन्देहरूपसाध्याभावसहचरितज्ञानत्वेन