________________ हेत्वाभासप्रकरणे सव्यभिचारः 505 भवति / कुतः ? अनुपसंहारी तु स एव भवति यत्रान्वयसहचारो वा व्यतिरेकसहचारो वा सर्वथा न भवेत् / यथा सर्वो धूमवान् वह्निमान् इत्यत्रान्वयसहचाराभावेऽपि व्यतिरेकसहचारस्य विद्यमानत्वात् यथा यत्र वन्यभावस्तत्र धूमाभावो यथा हृदे इति व्यतिरेकसहचारस्य विद्यमानत्वात् / केवलव्यतिरेकिवदिति / [260 A) केवलव्यतिरेकिणि अन्वयसहचाराभावेऽपि व्यतिरेकसहचारस्य विद्यमानत्वात् व्यतिरेकी यथा सद्धेतु: तथाऽयमपि सद्धेतुरेव नानुपसंहारीत्यर्थः / अत्राशङ्कते - नन्विति। तथा च यदनुपसंहारित्वज्ञाने संशयविषयवृत्तित्वज्ञाने संशय उपलक्षणमेव भवति न तु विशेषणम्, संशयविषयकज्ञानस्याप्रतिबन्धकत्वात् / किन्तु स्वरूपसत् तादृशसंशयाक्रान्तप्रमेयमात्रवृत्तित्वज्ञानं यद् वर्तते तद् व्याप्तिज्ञानविरोधितयाऽनुमितिप्रतिबन्धकं वाच्यम् / संशयविषयकं तु संशयाक्रान्तप्रमेयमात्रवृत्तित्वज्ञानं न प्रतिबन्धकम् / संशयस्य ज्ञानाभावेऽपि सर्वस्मिन् यदा संशयो वर्तते तत्संशयाक्रान्तप्रमेयमात्रत्वज्ञाने विद्यमानेऽपि अनुमितिप्रतिबन्धात् / अयमत्र भावः - सर्वमनित्यमित्यंत्र सर्वस्मिन् वस्तुमात्रे यदाऽनित्यत्वसन्देहो वर्तते तदैव परं साध्यसहचारनिश्चयो न जायते इति संशयाक्रान्तप्रमेयमात्रवृत्तित्वज्ञानं व्याप्तिज्ञानविरोधितया प्रतिबन्धकं वाच्यम् न तु संशयस्यापि ज्ञानं प्रतिबन्धकम् / ततः किमित्यत आह - तथा चेति टीका / एवं सर्वस्मिन् वस्तुमात्रे यदा संशयो वर्तते तदा साध्यसहचारनिश्चय एव नास्ति, ततः साध्यसहचारनिश्चयाभावे हेतोर्व्याप्तिपक्षधर्मताज्ञानमेव नास्ति इति कृत्वा अनुपसंहारिस्थलेऽज्ञानासिद्धिरेव न तु हेत्वाभासान्तरत्वम् / अयमाशयः - यद्विषयकं ज्ञानमनुमितेरनुमितिकारणीभूतज्ञानस्य वा प्रतिबन्धकं तादृशधर्मवत्त्वं हेत्वाभासत्वम् / यथा बाधे साध्याभाववत्पक्षज्ञानं यद् वर्तते तद् अनुमितिप्रतिबन्धकं भवति, ततस्तस्य हेत्वाभासत्वम् / अनुपसंहारिणि तु प्रमेयत्वस्य सर्ववृत्तित्वज्ञानं तु प्रतिबन्धकमेव न भवति / कुतः ? अनुमितिविषयस्य वाऽनुमितिकारणीभूतज्ञानविषयस्य वाऽभावानवगाहनात् / यथा सर्वमभिधेयं प्रमेयत्वात् इत्यत्र प्रमेयत्वस्य सर्वत्र वृत्तित्वज्ञाने विद्यमानेऽभिधेयत्वानुमितेर्जायमानत्वात् अनुमितिविषयाभावानवगाहनात् अनुमितिकारणीभूतं व्याप्तिज्ञानं पक्षधर्मताज्ञानं वा तदभावानवगाहनात् च / तथा च सर्वस्मिन् अनित्यत्वस्य संशयो वर्तते इति कृत्वा साध्यसहचारनिश्चयः कुत्रापि नास्ति, तदा सहचारनिश्चयाभावे(वः), अनित्यत्वसंशय एव स्वरूपसत् तादृशनिश्चये प्रतिबन्धकः, तथा च प्रतिबन्धकत्वं तु संशयज्ञानस्य नास्ति किन्तु उक्तरूपसंशयस्यैव / यस्य तु प्रमेयत्वस्य सर्ववृत्तित्वज्ञानं तस्य तु प्रतिबन्धकता नास्ति ग्राह्याभावानवगाहित्वात् / तथा चोभयथाप्यनापासंहारी हेत्वाभासो न भवति। यदि संशयः साध्यसहचारानिश्चये प्रतिबन्धको भवति तथापि संशयस्य ज्ञान प्रतिबन्धकं न भवति, [260 B] स्वरूपसंति संशये विद्यमाने एव सहचारानिश्चयात् / यस्य तु प्रमेयत्वस्य सर्ववृत्तित्वज्ञानं ततु(तु) प्रतिबन्धकमेव न भवति अनुमितितत्कारणीभूतज्ञानविषयाभावानवगाहित्वात् / हेत्वाभासत्वं तु तस्यैव यस्य ज्ञान प्रतिबन्धकम्, प्रकृते तु संशयस्य ज्ञान प्रतिबन्धकं नास्ति स्वरूपसत्संशयस्यैव प्रतिबन्धकत्वात्, प्रमेयत्वस्य तु ज्ञानं वर्तते