________________ 504 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साध्यसन्देहविरोधी भवत्येव तद्वत् सर्वं प्रमेयमभिधेयत्वात् इत्यत्र प्रमेयत्वतदभावकोटिकसन्देहाभावेऽपि प्रमेयत्वं सर्वस्मिन् वर्तते न वेत्येतादृशस्य केवलान्वयिधर्मव्यापकस्वसाध्यसिद्धिविरोधिसन्देहस्य विद्यमानत्वात् यथा प्रमेयत्वं सर्वस्मिन् न वेति सन्देहे विद्यमानेऽपि स्वसाध्यसिद्धिर्न भवत्येव प्रमेयत्वरूपसाध्यसिद्धिर्न भवत्येव / तथा च तादृशसन्देहविषयवृत्तित्वं सर्वमभिधेयं प्रमेयत्वात् इत्यनुपसंहारिणि वर्तत एवेति नाव्याप्तिः / एतदेवाह - तस्यापीति टीका / प्रमयत्वं सर्वस्मिन् वर्तते न वेति सन्देहस्यापीत्यर्थः / इति पूर्वोक्त्या तत्राप्यनुपसंहारिलक्षणं वृत्तिमित्यर्थः / विशेषदर्शनकाली[यया] यत्रानुमित्सयाऽनुमितिसम्भवस्तत्र प्रमेयत्वे सद्धेतौ अतिव्याप्तिं निराकरोति - न चेति टीका / सर्वमभिधेयं प्रमेयत्वात् इत्यत्र सर्वस्मिन् अभिधेयत्वस्य निश्चयात् साधनस्य [259 B] प्रमेयत्वस्यापि निश्चयादानुमित्सया यत्रानुमितिर्जायते तत्र सबैतौ इदं लक्षणं नातिव्याप्तम्, तत्राभिधेयत्वकोटिकः सन्देह एव नास्ति अनुमित्सया चानुमानसम्भवात् तादृशसन्देहविषय-' वृत्तित्वमेव नास्ति केवलान्वयिधर्मव्यापकस्वसाध्यसिद्धिविरोधिसन्देह एव नास्ति इति कृत्वा तत्र नातिव्याप्तिरित्यर्थः / एतदेवाह- तादृशसंशयेति / केवलान्वयिधर्मस्य व्यापको यथा यत्र केवलान्वयिधर्मस्तत्र स सन्देहस्तद्विषयकसन्देहाभावादित्यर्थः / अत्राशङ्कते - न चेति टीका। तथा च द्रव्यगुणकर्मसामान्यविशेषसमवायाभावा अनित्याः प्रमेयत्वात् इत्यत्राव्याप्तिः, [यतः] केवलान्वयिधर्मावच्छिन्नः संशयो नास्ति सर्वमनित्यं न वा इत्येतादृशसंशयस्य तत्राभावात् / अत्र द्रव्यादीनि सर्वाणि पक्षीभवन्ति तथापि तत्र पक्षतावच्छेदकः केवलान्वयी धर्मो न भवति, पक्षतावच्छेदकानि तु द्रव्यत्वादीनि भिन्नानि इति कृत्वाऽव्याप्तिः / समाधत्ते - केवलान्वयीति टीका / तथा च यद्यपि केवलान्वयी धर्मोऽत्र पक्षतावच्छेदको नास्ति तथापि केवलान्वयिधर्मव्यापकः संशयस्तिष्ठत्येव यथा यत्र यत्र प्रमेयत्वं तत्र तत्र स संशयः अनित्यत्वसंशयः / कुतः ? प्रमेयत्वमपि द्रव्यादिष्वेव सप्तसु वर्तते, अनित्यत्वसंशयः सोऽपि विषयतासम्बन्धेन द्रव्यादिष्वपि वर्तते, केवलान्वयिधर्मः प्रमेयत्वं तद्व्यापकः उक्तसंशयो भवत्येव / यदि सर्वस्मिन् अनित्यत्वसंशयो न स्यात् तदाऽनुपसंहारित्वमेवास्य न स्यात् / यदि केवलान्वयिधर्मा(म)व्यापकः (क)संशयाभावेऽनुपसंहारित्वाभावादित्याह - अन्यथेति / विवक्षितं द्रव्यगुणेत्युक्तानुमानेऽनुपसंहारित्वं तन्न स्यादित्यर्थः / अत्र शङ्कते - न चेति। तथा च सर्वो धूमवान् वह्निमान् धूमात् इत्यनुपसंहारिणि अव्याप्तिः। सर्वस्मिन् धूमवति वहिसन्देहात् सोऽनुपसंहारी भवति परमत्र लक्षणं नास्ति, यतः स संशयः केवलान्वयिधर्मव्यापको न भवति। धूमाभाववत्यपि घटादौ प्रमेयत्वस्य (? अयोगोलकादौ वढेः) वर्तमानत्वात् तत्र संशयो नास्ति / अव्याप्तिमेव विवृणोति - सकलेति टीका। सकलधूमाधिकरणे पक्षीकृते वह्रिसंशयो वर्तते। अत्र पूर्वपक्षिणोऽयमेवाभिप्रायः यत्र सर्वस्मिन् हेत्वधिकरणे साध्यसन्देहः सोऽनुपसंहारीति। अयमप्यनापासंहारी भवति परं तत्र लक्षणं न गतम्, केवलान्वयिधर्मव्यापकसन्देहाभावात् अव्याप्तिरित्यर्थः / सिद्धान्तयति - तस्येति / अनुपसंहारित्वेन स लक्ष्य एव न