________________ हेत्वाभासप्रकरणे सव्यभिचारः 503 सहचारनिश्चयोऽन्वयसहचारनिश्चयस्तिष्ठत्येवेति कृत्वा उक्ताऽव्याप्तिर्नास्तीत्यर्थः / विरुद्धत्वाज्ञानेऽपीति मूलं व्याचष्टे - विरुद्धत्वेति / यद्यपि विरुद्धत्वज्ञानदशायामपि उक्तलक्षणसत्त्वात् साध्यसिद्धयनुकूलेत्यादिलक्षणं वर्तते तदानीमनुपसंहारित्वं वर्तते एव / ननु यदि विरुद्धत्वाज्ञानदशायामप्यनुपसंहारित्वं वर्तते अन्वयसहचारो नास्ति ततोऽनुपसंहारित्वमस्ति तथापि तदानीमनुपसंहारित्वं नोद्भावनीयं किन्तु विरुद्धत्वमेवोद्भावनीयम् / ननु विरुद्धत्वज्ञानदशायामनुपसंहारित्वमेव नास्ति / कथं नास्ति ? स्वसाध्यसिद्धयनुकूलव्याप्तिग्रहानुकूलसहचारनिश्चयत्वावच्छिन्नव्यतिरेकसहचारनिश्चयस्तिष्ठत्येव / यथा अयं गौः अश्वत्वात्, यत्र यत्र गोत्वाभावस्तत्राश्वत्वाभावो यथा पटे तथा च तादृशानुकूलसहचारनिश्चयत्वावच्छिन्नो व्यतिरेकसहचारनिश्चयस्तिष्ठत्येव / तथा च विरुद्धत्वज्ञानदशायामनुपसंहारित्वं कथं स्यादित्यत आह - एतच्चेति / यत् विरुद्धत्वज्ञानदशायामप्यनुपसंहारित्वमुक्तं तत् अन्वयसहचारो नास्तीत्यभिप्रायेण / अथ रहस्यमाह - वस्तुत इति टीका / तत्र विरुद्धे अयं गौः अश्वत्वात् इत्यत्रानुपसंहारिलक्षणमेव नास्ति / कथं नास्ति ? स्वसाध्यसिद्धयनुकूलव्याप्तिग्रहानुकूलो व्यतिरेकसहचारनिश्चयस्तिष्ठत्येव गोत्वाभावाश्वत्वाभावयोः पटे सहचारस्य विद्यमानत्वादिति कृत्वाऽनुपसंहारिणो लक्षणमेव तत्र नास्तीति न तत्रातिव्याप्तिः / अथोत्तरग्रन्थे आभासं [259 A] लापयति - नन्विति टीका / तथा चानुपसंहारी स्वसाध्यसिद्धयनुकूलसहचारग्रहाभावः पर्यवसन्नः / स चानुमितौ यत् कारणमात्ममनःसंयोगः तदभाववत् कारणाभावमात्रम्, ननु(न तु) अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकहेत्वाभासोपाधिमत्त्वम् इत्यस्य कारणाभावत्वे स्वरूपसत एव प्रतिबन्धकत्वम् न तु तज्ज्ञानं प्रतिबन्धकमित्याभासार्थः / केवलान्वयीति टीका / केवलान्वयिधर्मस्य यद्व्यापको यः साध्यसिद्धिविरोधिसन्देहः तद्विषयवृत्तित्वमनुपसंहारित्वम् / तथा च सर्वमनित्यं प्रमेयत्वात् इत्यानित्यत्वस्य सर्वस्मिन् . सन्देहात् सर्वत्वं यः केवलान्वयी धर्मस्तस्य व्यापको भवत्यनित्यत्वस्य सन्देहः यत्र प्रमेयत्वं तत्र अनित्यत्वसन्देहस्तिष्ठत्येव / एवमुक्तलक्षणमनुपसंहारिणि योजितम् / ननु तथापि सर्वमभिधेयं प्रमेयत्वात् इत्यत्रानुपसंहारिणि इदं लक्षणमव्याप्तम्, अभिधेयत्वस्य केवलान्वयितया स्वसाध्यसिद्धिविरोधिसन्देहो नास्त्येव अभिधेयत्वस्य केवलान्वयितया सन्देहाभावात् इत्यत आह - तेनेति टीका / प्रमेयं सर्वं न वेति सन्देहाभावेऽपि प्रमेयत्वं सर्ववृत्ति न वेति सन्देहो भवत्येव / यथा पर्वतो वह्निमान् न वेति पर्वतविशेष्यको वह्नितदभावकोटिकः संशयः अथ च वह्निः पर्वतवृत्तिर्न वेति वह्निविशेष्यकः पर्वतवृत्तित्वतदभावकोटिकः सन्देहो भिन्नः / तद्वत् प्रकृतेऽपि प्रथमस्यासम्भवेऽपि द्वितीयस्य सम्भवात् प्रथमे प्रमेयत्वस्य केवलान्वयितया तदभावासम्भवात् द्वितीये प्रमेयत्वकोटिकसंशयाभावात् सर्ववृत्तित्वकोटिकः संशयो भवत्येव / तथा च साध्यतदभावकोटिकसन्देहो यथा सर्वस्मिन् तद्वृत्तित्वज्ञानं यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र वर्तते। केवलान्वयिधर्मव्यापकः स्वसाध्यसिद्धिविरोधी सन्देहः सर्वमनित्यं न वा तद्विषयवृत्तित्वं सर्वमनित्यं प्रमेयत्वात् इत्यनुपसंहारिणि वर्तते / स च सन्देहः