SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ 502 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका निश्चयः तद्विरोधी यो हेत्वाभासतोपाधिः तद्वत्त्वस्य / यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र स्वशब्देन प्रमेयत्वं हेतुः, तस्य यत् साध्यम् अनित्यत्वं तस्य या सिद्धिः अनुमितिः तदनुकूलो यो व्याप्तिग्रहः अन्वयव्याप्तिग्रहो व्यतिरेकव्याप्तिग्रहो वा तदनुकूलो यः सहचारनिश्चयः अन्वयसहचारनिश्चयः प्रमेयत्वस्य व्यतिरेकाभावात् यथा यत्र यत्र प्रमेयत्वं तत्र तत्र अनित्यत्वम् एतादृशो यः सहचारनिश्चयः तद्विरोधित्वावच्छिन्नो यो निश्चयः अन्वयसहचारनिश्चयो वा व्यतिरेकसहचारनिश्चयो वा तस्य विरोधी यो हेत्वाभासतोपाधिरनुपसंहारित्वं भवति / तथा चानुपसंहारित्वज्ञाने विद्यमाने कोऽपि सहचारनिश्चयो नास्तीति भावः / हेत्वाभासतोपाधिरित्येवोच्यमाने बाधेऽतिव्याप्तिः, अत उक्तं सहचारनिश्चयत्वावच्छिन्नविरोधीति पदम् / बाधस्तु सहचारनिश्चयत्वावच्छिन्नविरोधी न भवति / यतो ह्रदो वह्रिमान् धूमात् इत्यत्र ह्रदे बाधे विद्यमानेऽपि अन्वयसहचारः साध्यसाधनयोर्वर्तते इति अथ सहचारनिश्चयत्वावच्छिन्नविरोधिहेत्वाभासतोपाधिमत्त्वमित्युच्यमानेऽसम्भवः / यतः सर्वमनित्यं प्रमेयत्वात् इत्यत्र सहचारनिश्चयत्वावच्छिन्नविरोधिहेत्वाभासत्वं नास्ति / प्रमेयत्वस्य घटेन सह सहचारनिश्चयो वर्तते यथा प्रमेयत्वं कपाले घटोऽपि तत्रेति एकत्र कुत्रापि सहभावः सहचारः सोऽस्ति परं व्याप्तिास्ति अत उक्तं व्याप्तिग्रहानुकूलसहचारपदम् / अन्वयव्यतिरेकसहचारसाधारण्यार्थमाह - स्वसाध्यसिद्धयनुकूलेति / तथा च स्वसाध्यसिद्धयनुकूलो यो व्याप्तिग्रहः तदनुकूलसहचारनिश्चयत्वम् अन्वयव्यतिरेकसहचारयोः साधारणः / विरुद्धेऽतिव्याप्तिं निराकरोति - विरुद्धत्वस्य चेति टीका / विरुद्धत्वं तु सहचारनिश्चयत्वावच्छिन्नविरोधी न भवति / विरुद्धत्वज्ञाने विद्यमानेऽपि व्यतिरेकसहचारनिश्चयो जायते एव यथा अयं गौः अश्वत्वात् इत्यत्र अश्वत्वे गोत्वविरुद्धत्वज्ञाने विद्यमानेऽपि गोत्वाभावाश्वत्वाभावयोः सहचारनिश्चयात् / तथा च विरुद्धत्वस्य सहचारनिश्चयत्वावच्छिन्नविरोधित्वं नास्ति उक्तविरोधित्वज्ञाने विद्यमानेऽपि व्यतिरेकसहचारनिश्चयस्य विद्यमानत्वात् / अतो विरुद्धत्वे नातिव्याप्तिरिति भावः / [258 B] अनुपसंहारिणि उक्तलक्षणं योजयति - अनुपसंहारिणि त्विति टीका / सर्वमनित्यमित्यत्र सर्वस्य पक्षत्वात् प्रमेयमात्रमेव पक्षः / तेन न हेतोः साध्यसहचारनिश्चयो न वा साध्याभावस्य हेत्वभावसहचारनिश्चय इति सहचारत्वावच्छिन्नविरोधित्वमनुपसंहारित्वे वर्तते एवेति अत्राशङ्कते - न चेति टीका / तथा च केवलान्वयिसाध्यकेऽनुपसंहारिणि अव्याप्तिः, तथाहि सर्वमभिधेयं प्रमेयत्वात् इत्यत्र व्यतिरेकसहचारस्याभावात् / स्वसाध्यसिद्ध्यनुकूलव्याप्तिग्रहानुकूलसहचारनिश्चयो यो व्यतिरेकसहचारनिश्चयः स नास्तीति कृत्वाऽव्याप्तिरित्यर्थः / समाधत्ते - तत्रान्वयमात्रस्यैवेति / तत्र केवलान्वयिनि अन्वयमात्रस्यैव स्वसाध्यसिद्धयनुकूलतया तद्ग्रहानुकूलः सहचारनिश्चयोऽन्वयसहचारनिश्चय एव / न हि लक्षणमध्ये स्वसाध्यसिद्धयनुकूलव्याप्तिग्रहानुकूलव्यतिरेकसहचारनिश्चयत्वेन प्रवेशः येन लक्षणेऽस्य केवलान्वयिनि अव्याप्तिः स्यात् / तथा च व्यतिरेकसहचारत्वेन प्रवेशो नास्ति किन्तु सहचारत्वेनैव, स च
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy