________________ हेत्वाभासप्रकरणे सव्यभिचारः 501 तादृशेति टीका। साध्यसाधनयोर्व्याप्तिग्रहानुकूलसहचारनिश्चयो नास्तीत्यर्थः / समाधत्ते - व्यतिरेकसहचारनिश्चयस्येति टीका। यन्मते व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते यथा यत्र वढ्यभावस्त धूमाभाव इति व्यतिरेकव्याप्त्याऽन्वयव्याप्तिर्गृह्यते, ययोरभावयोः सहचारस्तत्प्रतियोगिनोरपि सहचार इति न्यायात् / एवं सति व्यतिरेकसहचारस्यापि स्वव्याप्तिग्रहानुकूलत्वं [257 B] तिष्ठत्येवेति स्वव्याप्तिग्रहानुकूलसहचारनिश्चयाभावो नास्तीति न तत्र लक्षणस्यातिव्याप्तिरिति समाधानाम् / ननु यन्मते व्यतिरेकसहचारेणान्वयव्याप्तिर्न गृह्यते तन्मते का गतिरित्यत आह - मतान्तरे त्विति टीका / व्याप्तिपदमेवान्वयाव्यतिरेकाव्याप्तिसाधारणं कर्तव्यम्, तत् किंरूपमित्यत आह - स्वसाध्यसिद्धीति टीका / स्वपदेन प्रकृतं यत् साध्यं तत्सिद्धयनुकूला या व्याप्तिः अन्वयव्यतिरेकोभयरूपा तत्परं व्याप्तिपदं कर्तव्यम् / तथा च स्वसाध्यसिद्धयनुकूला व्याप्तिरन्वयव्याप्तिरपि भवति व्यतिरेकव्याप्तिरपि भवति तथापि व्यतिरेकिणि अन्वयव्याप्तिग्रहानुकूलः सहचारनिश्चयो नास्ति तथापि स्वसाध्यसिद्धयनुकूला व्याप्तिर्व्यतिरेकव्याप्तिस्तद्ग्रहानुकूलः सहचारनिश्चयो वर्तते इति तदभावो नास्तीति न तत्रातिव्याप्तिरित्यर्थः / एतदेव विवृणोति - तथा चेति टीका। व्यतिरेकिणि स्वसाध्यसिद्धयनुकूला व्यतिरेकव्याप्तिरेक भवति / ततः किमित्यत आह - तद्ग्रहानुकूलश्चेति / स्वसाध्यसिद्धयनुकूला या व्याप्तिस्तद्ग्रहानुकूलश्चेत्यर्थः / एतदुपसंहरति - तस्य चेति टीका / तस्य व्यतिरेकसहचारस्य प्रतीतिरेव वर्तते व्यतिरेकसहचारनिश्चयाभावो नास्ति इति कृत्वा व्यतिरेकिणि नातिव्याप्तिरित्यर्थः / अत्राशङ्कते - नन्विति टीका / पर्वतो वह्निमान् धूमात् इत्यत्र धूमस्याज्ञानदशायां धूमेऽतिव्याप्तिः, तत्रापि वहिव्याप्तिग्रहानुकूलसहचारनिश्चयो नास्ति धूमस्यैवाज्ञानात् इत्याशङ्कार्थः / सिद्धान्ती मध्ये शङ्कते - न चेति टीका / तथा च व्याप्तिग्रहानुकूलसहचारनिश्चयाभावो यत्र हेत्वभिमते इति विवक्षितं तत्र हेत्वभिमतपदस्यार्थो हेत्वाभासत्वमित्यर्थः, तेन धूमेऽज्ञानदशायां हेत्वाभासत्वाभावात् नातिव्याप्तिरित्याशङ्कार्थः / समाधत्ते - जलहूदेति टीका / जलह्रदो वह्निमान् धूमात् इति स्वरूपासिद्धेऽज्ञायमानदशायां लक्षणसत्त्वात् हेत्वाभासत्वाच्चातिव्याप्तिरित्यर्थः / पुनः शङ्कते - न च साध्यसहचारेति टीका / साध्यसहचारस्य यो निश्चयः तस्य विरोधी यो हेत्वाभासोपाधिस्तद्वत्त्वं यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र अनित्यत्वसहचारनिश्चयविरोधिहेत्वाभासतोपाधिरनुपसंहारित्वं भवति यतः सर्वस्मिन् अनित्यरूपसाध्यसन्देहात् सर्वस्य च पक्षत्वात् साध्यनिश्चयः कुत्रापि नास्तीति साध्यसहचारनिश्चयविरोधित्वमनुपसंहारित्वस्य वर्तते एवेति शङ्कार्थः / दूषयति - विरुद्धेऽपीति / विरुद्धरूपो यो हेत्वाभासोपाधिः सोऽपि साध्यसहचारनिश्चयविरोधी भवत्येवेति तत्र लक्षणम(स्या)तिव्याप्तिरित्यर्थः / अयं गौः अश्वत्वात् इत्यत्र अश्वत्वे गोत्वविरुद्धत्वज्ञानमश्वत्वे [258 A] गोत्वसहचारनिश्चयविरोधि भवत्येवेत्यर्थः / समाधत्ते - अनुपसंहारिलक्षणं स्वसाध्येति टीका / स्वशब्देन प्रकृतहेतुः, तस्य यत् साध्यं तस्य या सिद्धिः तदनुकूलो यो व्याप्तिग्रहः तदनुकूलो यः सहचारनिश्चयः तन्निश्चयविरोधित्वावच्छिन्नो यो