SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ 500 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका एतेनेति मूलम् / अनुपसंहारित्वेन ज्ञाते सर्वमनित्यं प्रमेयत्वात् इत्यत्र व्याप्तिग्रहस्तिष्ठाति न वा ? यदि व्याप्तिग्रहस्तिष्ठति तदाऽनुमितिरेव / यदा तु व्याप्तिग्रहो नास्ति तदा व्याप्यत्वासिद्धिरेव दूषणं तथा चायमनुपसंहारी एव न भवति इति / एतेन आरभ्य 'निरस्तम्' इत्यन्तेनान्वयः / इदं दूषयति - उपजीव्यत्वादिति मूलम् / यत्र व्याप्त्युपसंहारो नास्ति तत्र व्याप्यत्वासिद्धो यद्यपि वर्तते तथापि व्याप्यत्वासिद्धौ उपजीव्यत्वात् अनुपसंहारी व्यभिचारे बाधवत् पृथग् हेत्वाभासः। .. अथ टीका / व्याप्तीति टीका / नन्वनुपसंहारिणि व्याप्तिग्रहानुकूल एकधर्म्युपसंहाराभावो नास्ति, सन्देहरूपोपसंहारस्य व्याप्त्यनुकूलस्य विद्यमानत्वात् व्याप्तिग्रहे सहचारज्ञानस्य विशेषणज्ञानत्वेन कारणत्वात् / तथाहि सामानाधिकरण्यावच्छेदकं रूपं व्याप्तिः / धूमवह्नौ सामानाधिकरण्यावच्छेदकं धूमत्वम्, तदेव व्याप्तिः / तत्र सामानाधिकरण्यं विशेषणम् [257 A], विशेषणज्ञानस्य संशयनिश्चयसाधारणस्य विशेषणज्ञानत्वेनैव कारणत्वम्, तथा च सन्देहरूपं सामानाधिकरण्यरूपं सहचारज्ञानमत्र तिष्ठत्येव, यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र सर्वस्मिन् हेतुनिश्चयो वर्तते अनित्यत्वस्य सन्देहात् साध्यसन्देहात् साध्यसहचारसन्देहस्तिष्ठत्येव, अन्यत्रानुमाने पक्षातिरिक्ते हेतुमति साध्यनिश्चयो वर्तते परं पक्षे नास्तीति कृत्वा साध्यसन्देहोऽनुकूल एव, अनुपसंहारिणि तु पक्षातिरिक्तेऽपि निश्चयाभावात सर्वत्र पक्षसपक्षेषु सन्देहात् दूषणं सः, तथा च लक्षणम् अनुपसंहारिणि अव्याप्तं तत्र साध्यसन्देहस्य विद्यमानत्वादित्यत आह - तदनुकूलत्वं चेति टीका। तदनुकूलः सहचारनिश्चयो ग्राह्यः / तथा चोपसंहारस्य या व्याप्तिग्रहानुकूलता सा सहचारनिश्चयत्वेन ग्राह्या / यदि सहचारनिश्चयत्वेन व्याप्तिग्रहानुकूलता नास्ति तदा बाधकमाह - अन्यथेति टीका / यदि सहचारनिश्चयत्वेन कारणता न स्यात् तदाऽनुपसंहारिणि सन्देहसाधारणसहचारज्ञानस्य विद्यमानत्वात् व्याप्तिधीप्रसङ्गादित्यर्थः / तत्रापि यदि व्याप्तिग्रहस्तदा अनुमितिः स्यादिति भावः / अत्र लक्षणे पूर्वपक्षयति - नन्विति टीका / अनुपसंहारिण्यपि व्याप्तिग्रहानुकूलसहचारनिश्चयाभावो नास्ति व्याप्तिग्रहानुकूलयत्किञ्चित्सहचारनिश्चयस्य विद्यमानत्वात्, यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र व्याप्तिग्रहानुकूलसहचारनिश्चयस्य विद्यमानत्वात् / तथाहि यत्र प्रमेयत्वं तत्र अभिधेयत्वम् इत्येवंरूपव्याप्तिग्रहानुकूलसहचारनिश्चयस्य विद्यमानत्वात् / तन्निरासार्थं स्वव्याप्तीति / प्रकृतसाध्यप्रकृतसाधनयोर्या व्याप्तिस्तद्ग्रहानुकूलः सहचारनिश्चयस्तदभावो विवक्षणीयः / ततः किमित्यत आह - तथा चेति टीका। एवं यदि क्रियते तदा केवलव्यतिरेकिण्यतिव्याप्तिः / यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यत्र यथा यत्र इतरभेदाभावस्तत्र पृथिवीत्वाभाव इत्ययं यः सहचारनिश्चयः स साध्याभावसाधनाभावयोरेव व्याप्तिग्राहकः, न तु साध्यसाधनयोः / ततः साध्यसाधनयोर्व्याप्तिग्रहानुकूलसहचारनिश्चयस्तत्रापि नास्तीति व्यतिरेकिण्यतिव्याप्तिः / एतदेवाह -
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy