________________ हेत्वाभासप्रकरणे सव्यभिचारः 499 आह - व्यतिरेकीति मूलम् / व्यतिरेकिसाध्यके उक्तरूपे साध्याभाववद्वृत्तित्वमपि वर्तते साध्यसन्देहदशायां केवलान्वयिधर्मावच्छिन्नपक्षकत्वमपि वर्तते इत्येवमनयोरुपधेयसङ्करेऽपि हेत्वाभाससङ्करेऽपि यदा साध्याभाववद्वृत्तित्वज्ञानं नास्ति तदानीमनुपसंहारित्वेनैवोद्भावनं यतः साधारणत्वाना नोद्भावयितुं शक्यते साध्याभावस्यानित्यत्वाभावस्य कुत्रापि निश्चयाभावात् यतः सर्वस्य पक्षीकृतत्वात् सर्वत्र साध्यसन्देहस्य विद्यमानत्वात् / साधारणस्तु तदे(दै)वोद्भावयितुं शक्यते यदि कुत्रापि साध्याभावनिश्चयो भवति, तदा तत्र हेतोर्विद्यमानत्वेन साधारणत्वेनोद्भावनं स्यात् / न चैवमस्ति / तस्मात् साधारणत्वमस्य नास्तीत्यनुपसंहारित्वमेवास्येति / तथा च प्रमेयत्वस्य साध्याभाववद्वृत्तित्वाज्ञानदशायामनुपसंहारित्वेनैवोद्भावनम् / तदवगमे इति मूलम् / यदि प्रमेयत्वस्य साध्याभाववद्वृत्तित्वज्ञानं तदाऽयं साधारण एव, तदानीमनुपसंहारी न भवति / कथं न भवतीति चेत् यत्रैव साध्याभावस्य निश्चयो जातस्तत्रैव साध्यसन्देहो नास्ति इति कृत्वा केवलान्वयिधर्मावच्छिन्नपक्षकत्वाभावात् / यतः सर्वत्वेनानित्यत्वस्य सन्देहो नास्ति अतः सर्वत्वं न तत्र पक्षतावच्छेदकं तथा च सोऽनुपसंहारी न भवति / सङ्करस्तु सन्देहाभिप्रायेण / यदा साध्यस्य सन्देहस्तदा अनुपसंहारी / यदा तु साध्यसन्देहो न स्थितस्तदा साधारण एवेति / नन्वानापसंहारी [256 B] व्याप्यत्वासिद्ध एव कुतो न भवति / व्याप्यत्वासिद्धेऽपि व्याप्तिग्राहकप्रमाणं नास्ति अत्रापि व्याप्तिग्राहकं प्रमाणं नास्तीत्यत आह - एवमिति मूलम् / यथा व्यभिचारे बाध उपजीव्यत्वात् पृथक् / यथाऽयोगोलकः धूमवान् वढेः अयं व्यभिचारी भवति, यदि अयोगोलकपक्षके हेतौ साध्यं चेन्नास्ति तदा साध्याभाववति हेतोर्विद्यमानत्वात् / स्वरूपासिद्धः यदि च हृदादिपक्षके ह्रदो धूमवान् वढेः इत्यत्र वह्निः स्वरूपासिद्धः / तथा च बाधस्य स्वरूपासिद्धव्यभिचाराभ्यां पृथगुदाहरणं नास्ति तथापि व्यभिचारे उपजीव्यत्वात् बाधः पृथग् हेत्वाभासः / यतः साध्याभावप्रमया विना साध्याभाववद्वृत्तित्वरूपो व्यभिचारो हि न संभवति अतो बाधो व्यभिचारस्य उपजीव्यत्वात् पृथग् हेत्वाभासः / तद्वत् यद्यपि व्याप्यत्वासिद्धेऽयमनुपसंहारी [उपाजीव्यो यथाऽन्वयेन वा व्यतिरेकेण वा [व्याप्त्युपसंहाराभावादुप(दनुप)संहारी व्याप्यत्वासिद्धस्योपजीव्यो भवति, उपसंहाराभावाभा]वे व्याप्यत्वासिद्धो न भवति / व्याप्यत्वासिद्धस्योपजीव्यत्वात् अनुपसंहारी पृथग् हेत्वाभासः / तत्र व्याप्यत्वासिद्धो मास्तु, अनुपसंहारिणैव चरितार्थत्वात् इति न च वाच्यम्, व्याप्यत्वासिद्धज्ञानस्यापि व्यभिचारादिज्ञानवत् पृथक् प्रतिबन्धकत्वात् / ननु घटोऽनित्यो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वात् इत्यत्र यदा आकाशे घटाकाशोभयवृत्तिद्वित्वाश्रयत्वं ज्ञातम् अनित्यत्वाभावश्च ज्ञातः तदा साध्याभावव्याप्तत्वात् विरुद्ध एवायम्, कथमनुपसंहारी उक्त इत्यत आह - घटेति मूलम् / न हि अयं साध्याभावव्याप्तत्वेन ज्ञानदशायामनुपसंहारी उक्तः किन्तु तदज्ञानदशायाम्, साध्याभावव्याप्तत्वज्ञानदशायां तु विरुद्धत्वमेवैतस्य इति पूर्वमुक्तमेव / कस्यचिन्मतमुट्टक्य दूषयति -