________________ 498 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका यद्यपि आकाशे वर्तते तथापि हेत्वभावो नास्तीति व्यतिरेकसहचारोऽप्यत्र नास्ति / तथा च व्याप्तिग्रहानुकूल एकधर्मिणि पक्षादौ अन्वयसहचारो वा व्यतिरेकसहचारो वाऽत्रानुमानेऽपि नास्तीति अयमप्यनुपसंहारी स्यादित्यत आह - घटोऽनित्य इति मूलम् / तथा चैतस्य हेतोः पक्षे अनित्यत्वनिश्चयो नास्तीति कृत्वा यत्रानित्यत्वं तत्र घटाकाशोभयवृत्तिद्वित्वाश्रयत्वाभाव इति कृत्वा हेत्वभावव्याप्तत्वमनित्यत्वस्य वर्तते इत्यतो विरुद्धत्वेनोद्भाव्यते / वस्तुगत्या तु अयं साधारण एवानित्यत्वाभाववति गगने हेतोर्वर्तमानत्वात् / परमार्थतः साधारणस्यास्य हेत्वभावव्याप्तत्वेन चेत् ज्ञातस्तदा विरुद्धत्वेनोद्भाव्यते तदा विरुद्ध एव / ननु यदा विरुद्धत्वेनापि ज्ञानं नास्ति पक्षे च हेतुसाध्ययोरुपसंहारोऽपि ज्ञातो नास्ति घटेऽनित्यत्वस्य साध्यस्य सन्देहात् तदानीमनुपसंहारी स्यादेवेत्यत आह - विरुद्धत्वाज्ञानदशायामिति मूलम् / तथा चास्य विरुद्धत्वाज्ञानदशायामनुपसंहारित्वमिष्टमेवेत्यर्थः / इदमत्र तत्त्वम् / साध्याभाववद्वृत्तित्वं साधारणत्वम् / साध्यवद्व्यावृत्तत्वम् असाधारणत्वम् / एकधर्मिणि साध्यसाधनयोः सहचाराभावोऽनुपसंहारित्वम् / तथा च एतेषां त्रयाणां रूपाणामेकस्मिन् धर्मिणि समावेशे यथासम्भवं विद्यमानेऽपि यथा यत्र हेतौ त्रयाणां समावेशः स त्रिविधो भवत्येव परं यद् रूपं यदा उपस्थितं तदा तेन रूपेण स तथा व्यवह्रियते / उपधेयसङ्करेऽपि उपाधेरसङ्करस्तूक्त एव / तथा च घटोऽनित्यो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वात् इत्यत्र अनित्यत्वरूपसाध्याभाववति गगने हेतोर्विद्यमानत्वात् साधारणत्वम्, विरुद्धोऽपि यथाऽयं साध्यस्य हेत्वभावव्याप्तत्वात् यत्र यत्र साध्यं तत्र तत्र हेत्वभाव इति ततो यत्रानित्यत्वं तत्र तत्र घटाकाशोभयवृत्तिद्वित्वाश्रयत्वाभावो यथा पटे इति विरुद्धत्वम् / तदापि यदुपस्थितं भवति स तदा तेन व्यवह्रियते / अथानुपसंहारिणो [256 A] द्वितीयं लक्षणमाह - केवलान्वयीति मूलम् / केवलान्वयिधर्मेणावच्छिन्ना पक्षता यस्य स तथा / यथा प्रमेयमनित्यं प्रमेयत्वात् इत्यत्र प्रमेयत्वावच्छिन्ना पक्षता / ननु सर्वमभिधेयं प्रमेयत्वात् इत्यत्र केवलान्वयी धर्मः सर्वत्वमेव तदवच्छिन्ना पक्षता अस्ति परमनुपसंहारित्वं नास्ति, तस्य सद्धेतुत्वादित्यत आह - सर्वमभिधेयमिति मूलम् / सर्वमभिधेयमित्यत्र सर्वत्वं न पक्षतावच्छेदकम् / कुतः ? अभिधेयत्वस्य तत्र निश्चयात् सर्वत्वस्य साध्यसन्देहविषयतानवच्छेदकत्वात् / न च साध्यसन्देहाभावादनुमानं किमर्थमिति वाच्यम्, सिषाधयिषया निश्चितेऽप्यनुमानसम्भवात् / ननु अभिधेयत्वस्य यथा(दा) सन्देहो यथाऽभिधेयत्वं सर्वनिष्ठात्यन्ताभावप्रतियोगि न वा वह्निः पर्वतवृत्तिर्न वेति वत् तदानीं सद्धेतावपि लक्षणमिदमतिव्यापकं केवलान्वयिधर्मावच्छिन्नपक्षकत्वं वर्तत एवेत्यत आह - विप्रतिपत्तीति मूलम् / तथा च सर्वस्मिन् यदि अभिधेयत्वस्य निश्चयो नास्ति विप्रतिपत्त्या वादिविरुद्धवाक्यद्वयेन सन्देहस्य विद्यमानत्वात् तस्यां दशायामस्याप्यनुपसंहारित्वमिष्टमेवेत्यर्थः / तथा च तस्यापि लक्ष्यत्वात् नातिव्याप्तिरिति भावः / ननु सर्वमनित्यं प्रमेयत्वात् इत्यत्र साधारणेऽपि केवलान्वयिधर्मावच्छिन्नपक्षकत्वादतिव्याप्तिरित्यत