SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे सव्यभिचारः 497 टीका / तथा च सर्वमभिधेयं प्रमेयत्वात् इत्ययं सद्धेतुरेव / यदि प्रमेयत्वेऽनुपसंहारित्वज्ञानदशायां व्याप्तिर्न ज्ञायते तदा पुरुषदोष एव न तु वस्तुदोषः / तत्रातिव्याप्तिः सुस्थैवेत्यर्थः / अन्त्ये आह - सर्वस्य चेति टीका। यदि मात्रपदस्य व्यवच्छेद्यपरत्वं तदा सर्वं यदा पक्षीकृतं तदा विप्रतिपत्तिविषयातिरिक्ताप्रसिद्धः सर्वस्यैव विप्रतिपत्तिविषयत्वात् / दोषान्तरं वक्तुमाह - उपलक्षणमिति / एतदेवाह - शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दत्वस्य हेतौ विप्रतिपत्तिविषयः सर्वोऽपि शब्दः, तन्मात्रवृत्तित्वं शब्दत्वस्य हेतोरस्त्येवेति कृत्वाऽसाधारणेऽतिव्याप्तिः, तथा च विप्रतिपत्ति]मात्रविषयवृत्तित्वरूपं दुष्टमित्यर्थः। उच्यते / व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहारी, स चान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्वे दृष्टान्ताभावात् घटोऽनित्यो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादौ साध्यसाधनसाहचर्याज्ञानात् तस्य विरुद्धत्वाज्ञानदशायामनुपसंहारित्वेनेष्टत्वात् केवलान्वयिधर्मावच्छिन्नपक्षको वा सर्वमभिधेयं प्रमेयत्वादिति सद्धेतौ न केवलान्वयी पक्षतावच्छेदको निश्चितसाध्यवद्वृत्तित्वात् विप्रतिपत्त्या साध्यानिश्चयदशायां पक्षत्वे तदनुपसंहार्येव व्यतिरेकिसाध्यके साध्याभाववद्वृत्तित्वाज्ञानदशायामिदं दूषणं तदवगमेऽपि साधारणसङ्कर एव, एवं व्याप्यत्वासिद्धर्ज्ञाने तदुद्भावने चायं व्यभिचारवदुपजीव्यत्वाददोषः, घटाकाशोभयवृत्तिद्वित्वाश्रयत्वं च विरुद्धमेव / एतेनानुपसंहारित्वप्रतिसन्धाने यदि व्याप्तिग्रहस्तदानुमितिरेव तदभावे व्याप्यत्वासिद्धिरेवेति निरस्तमुपजीव्यत्वादिति। अथ मूलम् / अनुपसंहारिलक्षणम् / सिद्धान्तमाह - व्याप्तीति / व्याप्तिग्रहस्यानुकूलः परम्परया साक्षात् वा प्रयोजकः, [255 B] एतादृश एकस्मिन् धर्मिणि उपसंहारो नाम सहचारः, स चान्वयसहचारो वा भवतु व्यतिरेकसहचारो वा भवतु, तस्य यत्राभावः सोऽनुपसंहारी / एतदेव विवृणोति - स चेति / तथा चान्वयसहचारोऽपि यत्र नास्ति व्यतिरेकसहचारोऽपि नास्ति, एतत्सहचारद्वयं कथं तत्र नास्तीत्यत आह - सर्वस्य पक्षत्वे इति मूलम् / यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र सर्वं पक्षीकृतम्, तदा पक्षातिरिक्तं किमपि नास्तीति अन्वयसहचारो नास्ति अन्वयदृष्टन्ताभावात् विपक्षाभावाच्च व्यतिरेकदृष्टान्ताभावात् व्यतिरेकसहचारोऽपि नास्तीत्ययमनुपसंहारी। ननु घटोऽनित्यो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वात् इत्यत्राप्यन्वयसहचारो नास्ति। आकाशे यद्यपि हेतुर्वर्तते तथापि तत्र साध्यं नास्तीति कृत्वाऽन्वयसहचारो नास्ति / अनित्यत्वाभावो
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy