________________ 496 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका योग्यत्वात् / व्यर्थविशेषणत्वमिति। पक्षातिरिक्तेति विशेषणं व्यर्थमित्यर्थः / पक्षातिरिक्ते व्याप्तिग्रहानुकूलाऽप्रतीतसहचारत्वम् अत्र व्याप्तीत्यादि एवास्तु असाधकतानुमाने व्यर्थं विशेषणमित्यर्थः / इदं व्याख्यानं दूषयति - तन्नेति तत्प्रकारि(र)णेति / यदि उभयकोटयुपस्थापकतावच्छेदकरूपवत्त्वं इति अनैकान्तिकलक्षणेऽनुपसंहारित्वेन रूपेणानुपसंहारिणो यदि प्रवेशः स्यात् तदा व्यर्थविशेषणता स्यात् / अनैकान्तिकलक्षणे तु उभयकोट्युपस्थापकतावच्छेदकत्वरूपेणानुपसंहारिणः प्रवेशः, न तु अनुपसंहारित्वेन रूपेण / यथा धूमात् इत्यत्र धूमस्यापि हेतुत्वे धूमत्वेनैव रूपेण नीलधूमस्य प्रवेशो न तु नीलत्वेन रूपेण, तद्वत् इहापीत्यर्थः / तत्प्रकारेणेति अनुपसंहारित्वप्रकारेणेत्यर्थः / व्यर्थेति टीका / पक्षातिरिक्तेति विशेषणस्य व्यर्थत्वाभावात् यतस्तेन रूपेणानुपसंहारित्वस्य प्रवेश एव नास्तीत्यर्थः / अन्यथेति टीका / यदि तत्प्रकारेणोपस्थितिं विनापि व्यर्थविशेषणत्वं स्यात् तदेत्यर्थः / तथा च धूमात् इत्यत्रापि योग्यताबलात् नीलधूम एव प्रायो वर्तते, ततस्तत्रापि नैल्यस्य व्यर्थविशेषणता स्यात् / एतदेव विवृणोति - नीलधूमवदिति / स्पष्टम् / अन्यमतमाह - अनैकान्तिकत्वेनेति टीका [255 A] / अन्येषामयमभिप्रायः - अनैकान्तिकत्वं नाम नोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं किन्तु साधारणासाधारणानुपसंहार्यन्यतमत्वम्, तथा च लाघवात् इदमसाधकम् अनुपसंहारित्वात् इत्येवास्तु साधारणत्वेत्याधुक्तं व्यर्थम् इत्याहुः केचित् / ननु मूले केवलान्वयिसाध्यकेति किमर्थमुक्तम् ?, व्यतिरेकिसाध्यको(के)ऽनुपसंहारिण्यपि लक्षणमव्याप्तमेवेत्यत आह - यद्यपीति टीका / व्यतिरेकिसाध्यकोऽप्यनुपसंहारी भवत्येव / सर्वमनित्यं प्रमेयत्वात् इत्यत्र सर्वस्य पक्षीकृतत्वेन विप्रतिपत्तिविषयातिरिक्तमप्रसिद्धमित्यर्थः / तथा च व्यतिरेकिसाध्यकेऽनित्यत्वरूपसाध्यके प्रमेयत्वेऽव्याप्तिस्तदवस्थैव यतस्तत्रापि विप्रतिपत्तिविषयातिरिक्तं प्रसिद्धं नास्तीति भावः / समाधत्ते - तथापीति टीका / तस्य प्रमेयत्वस्य नित्यत्वसाध्यकत्वेन साधारणत्वमपि तिष्ठति / प्रेमयत्वस्यानित्यत्वाभाववद्वृत्तित्वात् साधारणत्वमपि वर्ततेऽनुपसंहारित्वं तस्य नास्त्येवेति कदाचिद् वदिष्यति परः इति कृत्वा निःसन्दिग्धाव्याप्तिदानार्थं केवलान्वयिसाध्यकेत्युक्तम् / तथा च सर्वमनित्यं प्रमेयत्वात् इत्येनं साधारणत्वभात्वा(?भावात्) परित्यज्य उदाहरणान्तरम् यथा सर्वमभिधेयं प्रमेयत्वात् इत्यत्र साधारणत्वासाधारणत्वयोरभावात् अनुपसंहारित्वमेवेति कृत्वाऽत्रानुपसंहारिणि अव्याप्तिर्निश्चितेत्यर्थः / क्वचिदतिव्याप्तेरिति पाठः, तं व्याचष्टे - नन्विति टीका / तथा च मात्रपदस्यार्थः कात्यं साकल्यं वा व्यवच्छेदार्थकं वा ? आद्ये दूषणमाह - केवलान्वयिसाध्यकेऽतिव्याप्तिरित्यर्थः / यथा सर्वमभिधेयं प्रमेयत्वात् इत्ययं सद्धेतुः, अत्रापि सकलविप्रतिपत्तिविषयवृत्तित्वं वर्तते यतः सर्वस्मिन् अभिधेयत्वस्य विप्रतिपत्तिः तत्र सर्वस्मिन् प्रमेयत्वस्य हेतोर्वर्तमानत्वात्, सकलविप्रतिपत्तिविषयवृत्तित्वं वर्तते इति कृत्वा तत्रातिव्याप्तिः / एतदेव विवृणोति - व्याप्तिज्ञानस्येति