________________ हेत्वाभासप्रकरणे सव्यभिचारः 495 पक्षातिरिक्तेति विशेषणं व्यर्थम् / अत्राशङ्कते - न चेति। तथा च यदि अनुपसंहारित्वेनासाधकतानुमानं स्यात् तदा व्यर्थविशेषणता स्यात् / दूषकता चानुपसंहारित्वेन रूपेण नास्ति, दूषकता चा+कान्तिकत्वेन, तथा च इदमसाधकं पक्षातिरिक्ते व्याप्तिग्रहानुकूलाप्रतीतसहचारत्वात् इति असाधकतानुमाने कर्तव्ये व्यर्थविशेषणता स्यात् / परमिदं नास्ति इदमसाधकमनैकान्तिकत्वात् इत्येवास्ति, तदा व्यर्थविशेषणत्वं नास्ति इत्यर्थः / इदं दूषयति - अर्थगत्येति मूलम् / अर्थगतिश्चेदृशी अनैकान्तिकत्वमुभयकोट्युपस्थापकतावच्छेदकं रूपम् / तत्रोभयकोट्युपस्थापकतावच्छेदकमत्र किम् ? अनुपसंहारित्वम्, तच्च पक्षातिरिक्ते व्याप्तिग्रहानुकूलाऽप्रतीतसहचारत्वम्, तथा च पक्षातिरिक्तेति पदं व्यर्थमेव, व्याप्तिग्रहेत्यादि असाधकतानुमानमस्तु / लक्षणान्तरमाशय दूषयति - नापीति मूलम् / विप्रातिपातीति विरुद्धार्थप्रतिपादकं वाक्यद्वयं विप्रतिपत्तिः / विरुद्धार्थप्रतिपादकं वादिप्रतिवादिवाक्यद्वयम्, तद्विषयः यावद् विप्रतिपत्तिविषयस्तावन्मात्रवृत्तित्वम्, तथा च सर्वमनित्यं प्रमेयत्वात् इत्यत्र सर्वस्य विप्रतिपत्तिविषयत्वात् विप्रतिपत्तिविषयमात्रवृत्तिर्न भवति सपक्षेऽपि वर्तमानत्वात् / इदं दूषयति - केवलान्वयीति मूलम् / तथा च सर्वमभिधेयं प्रमेयत्वात् इत्यत्र पक्षतादशायामयमनुपसंहारी भवति, यदा सर्वस्मिन् अभिधेयत्वस्य संशयस्तदा विप्रतिपत्तिविषयमात्रवृत्तित्वं नास्ति इति कृत्वा तत्राव्याप्तिरित्यर्थः / एतदेव विवृणोति - सर्वस्येति मूलम् / विप्रतिपत्तिविषयमात्रवृत्तित्वं नाम सकलविप्रतिपत्तिविषयत्वे वृत्तित्वे सति विप्रतिपत्तिविषयेतरावृत्तित्वम् / तथा च सर्वस्य विप्रतिपत्तिविषयत्वात् विप्रतिपत्तिविषयेतरदप्रसिद्धम्, [254 B] तथा चोक्तलक्षणमशुद्धमित्यर्थः।। अथ टीकाव्याख्या / तत्रैवेति टीका / यत्र सद्धेतौ पक्ष एव व्याप्तिग्रहस्तत्र सद्धेतौ पक्षातिरिक्ते व्याप्तिग्रहानुकूलाप्रतीतसहचारत्वं वर्तते यतः पक्ष एव व्याप्तिग्रहादिति कृत्वा पक्षातिरिक्तेत्यादिकं नास्ति, तथा च तत्रातिव्याप्तिः / पर्वतो वह्निमान् धूमात् इत्यत्रापि पर्वत एव व्याप्तिग्रहो ज्ञातः न तु महानसादौ, तदा धूमेऽतिव्याप्तिरित्यर्थः / असाधारणविरुद्धयोरतिव्याप्तेश्चेत्यत्राभासं ददाति - नन्विति। तथा च यत् पक्षातिरिक्तत्वं चेत् लक्षणे विशेषणं तदा सद्धेतौ अतिव्याप्तिर्भविष्यति, परं तदेव विशेषणं नास्ति, किन्तु व्याप्तिग्रहानुकूलाप्रतीतसहचारत्वमेव विवक्षितम्, तत्तु सद्धेतौ नास्ति पक्षे एवाप्रतीतसहचारत्वादित्यर्थः / विशेषणवैयर्थ्यमिति टीका / यथा इदमसाधकं साध्यतदभावोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वात् इत्यत्र साध्यपदं व्यर्थम्, साध्याभावकोट्युपस्थापकतावच्छेदकरूपवत्त्वात् इत्येवमस्तु, साध्यपदं व्यर्थमित्यर्थः साध्याभावेत्यादियुक्तत्वात् / यत्त्विति टीका। अनैकान्तिकत्वं नाम उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वम् / अत्रावच्छेद[कारूपं किं तत्राह - योग्यताबलादिति टीका / सर्वमभिधेयं प्रमेयत्वात् इत्यत्र साधारणत्वासाधारणत्वयोरभावात् अनुपसंहारित्वमेव / सर्वस्य पक्षीकृतत्वात् पक्षातिरिक्ते सहचाराग्रहात् अनुपसंहारित्वस्यैव तत्र