________________ 494 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वेदमनुमानं परमङ्करसर्गाद्यकालीनानामपि सकर्तृकत्वं सिद्धयति तस्मादेवानुमानात् / तथा चाङ्करादीनामपि पक्षत्वं वर्तते परं विप्रतिपत्तिविषयत्वं तेषु नास्तीति तल्लक्षणं दुष्टम् / परं साध्यसन्देहविषयत्वं तेष्वपि वर्तते इत्याह - साध्यानिश्चयेनेति मूलम् / तथा च सर्वमभिधेयं प्रमेयत्वात् इत्यत्र सर्वत्र साध्यसन्देहवत्त्वादनुपसंहारिणि अव्याप्तिः / लक्षणान्तरमाशङ्कते - अथेति मूलम् / पक्षातिरिक्ते सपक्षादौ व्याप्तिग्रहस्यानुकूलः प्रतीतसहचारो यत्र नास्ति तादृशहेतुरनुपसंहारी, यथा सर्वमनित्यं प्रमेयत्वात् इत्यत्र पक्षातिरिक्ते व्याप्तिग्रहानुकूलः सहचारः प्रतीतो नास्ति, अतोऽयमनुपसंहारीत्यर्थः स्पष्टः / अत्र व्याप्तिग्रहानुकूलत्वेन रूपेणान्वयव्यतिरेकयोरुभयोरपि सहचारयोः सङ्ग्रहः / तथा च यत्र सर्वस्य पक्षीकरणेनान्वयदृष्टान्तो(न्ता)भावादन्वयसहचारो नास्ति व्यतिरेकसहचारोऽपि नास्ति इति भावः / ननु यदि पक्षे एव व्याप्तिग्रहो जातस्तदानीं पक्षातिरिक्ते व्याप्तिग्रहानु-. . कूलाप्रतीतसहचारत्वं वर्तते / पर्वतो वह्निमान् धूमात् इत्यत्रापि यदा आप्तवाक्यात् पक्षे पर्वते एव व्याप्तिग्रहो जातस्तदा पक्षातिरिक्ते व्याप्तिग्रहानुकूलाप्रतीतसहचारत्वं वर्तत इति धूमादौ सद्धेतौ अतिव्याप्तिरित्यत आह - पक्षेति। तथा च यदि पक्षे व्याप्तिग्रहस्तदा स सद्धेतुरेव जातः। एतदर्थे दृष्टान्तमाह - शब्दोपदर्शितव्याप्तिकेति मूलम् / शब्देनोपदर्शिता व्याप्तिर्यस्य / यत्र महानसादौ व्याप्तिर्न गृहीता किन्तु आप्तवाक्यादयं हेतुरेतस्य व्याप्यः इत्येव यत्र व्याप्तिग्रहो जातः स यथा सद्धेतुः तथा अयमपि सद्धेतुः / यत्र पक्ष एव व्याप्तिग्रहस्तत्र हेत्वाभासरूपविशेषणाभावात् नातिव्याप्तिः / दृष्टान्तान्तरमाह - अभेदानुमानवच्चेति मूलम् / अयमेतदभिन्नः एतत्त्वात् इत्यत्र पक्षे व्याप्तिग्रहः सोऽपि सद्धेतुरेव, तथा प्रकृतलक्षणे हेत्वाभासरूपं विशेषणं नास्ति अतो नातिव्याप्तिः / अत्र हेत्वाभासत्वं विशेषणं देयमेवेति भावः / इदं लक्षणं दूषयति - तत्रैव सद्धेतौ इति मूलम् / तथा चासाधकत्वानुमाने हेत्वाभासत्वरूपविशेषणस्य गौरवात् तत्रोक्तसद्धेतौ अतिव्याप्तिरेवेत्यर्थः / दूषणान्तरमाह - सर्वस्येति मूलम् / अनुपसंहारिणि सर्वस्य पक्षत्वात् पक्षातिरिक्ताऽप्रसिद्धस्तथा च पक्षातिरिक्तव्याप्तिग्रहानुकूलाप्रतीतसहचारत्वमनुपसंहारिलक्षणमव्याप्तं [254 A] पक्षातिरिक्तस्याप्रसिद्धरित्यर्थः / अत्रैव दूषणान्तरमाह - असाधारणविरुद्धयोरपीति मूलम् / तथा चासाधारणे सपक्षे सत्त्वं नास्ति विपक्षे च सत्त्वं नास्ति, ततः सपक्षे सत्त्वाभावात् पक्षातिरिक्ते व्याप्तिग्रहानुकूलाप्रतीतसहचारत्वम् असाधारणे, विरुद्धेऽपि विरुद्धस्य साध्यसामानाधिकरण्याभावात] पक्षातिरिक्तेत्यादिलक्षणं तत्र वर्तते, इति तयोरतिव्याप्तिः / यद्यपि असाधारणे व्यतिरेकव्याप्तिग्रहानुकूलो व्यतिरेकसहचारः पक्षातिरिक्ते विपक्षादौ तिष्ठत्येव, तथाहि शब्दोऽनित्यः शब्दत्वात् यत्रानित्यत्वाभावस्तत्र शब्दाभावो यथा गगने इति अत्र व्याप्तिग्रहानुकूलो विपक्षे व्यतिरेकसहचारस्तिष्ठतीति पूर्वोक्तं लक्षणं नातिव्याप्तम्, तथापि व्याप्तिग्रहानुकूलान्वयसहचाराभिप्रायेणेदं दूषणम् / अथवा एतदस्वरसादाह - दूषकतायामिति मूलम् / तथा च इदमसाधकं व्याप्तिग्रहानुकूलाप्रतीतसहचारत्वादित्येवास्तु