________________ हेत्वाभासप्रकरणे सव्यभिचारः 493 इदमेव अनुपसंहारिणि उदाहरणम् / तत इदमुदाहरणमुक्तम् / दूषयति - साध्येति / तथा चात्र साध्याप्रसिद्ध्या क्षणिकत्वरूपसाध्यस्याप्रसिद्धया व्याप्यत्वासिद्धस्यैवोदाहरणमिदम् / ननु साध्याप्रसिद्धौ व्याप्यत्वासिद्धिरपि कथं स्यात् ?, यतः साध्यसाधनयोक्प्त्यभावो व्याप्यत्वासिद्धिः / तथा च यदि साध्यप्रसिद्धिर्नास्ति तदा व्याप्यत्वासिद्धिरपि कथं स्यात् इत्यत आह - अपार्थकमिति मूलम् / यदि च साध्यप्रसिद्धिस्तदा पूर्वोक्तं साधारणत्वमेव / अत्राशङ्कते - न चेति मूलम् / तथा च साधारणादयमेव भेदः - साधारणो यः स पक्षातिरिक्तसाध्यवत्तदन्यवृत्तिः, इदं साधारणस्य लक्षणम् / अथवा पक्षातिरिक्तसाध्यात्यन्ताभाववद्वृत्तित्वं साधारणत्वम् / अत्र पक्षातिरिक्तपदमनुपसंहारिणि अतिव्याप्तिवारणार्थम् / प्रमेयत्वस्य नित्यत्वाभाववद्वृत्तित्वात् परं तत्र पक्षातिरिक्तत्वं नास्ति सर्वस्य पक्षीकरणात् / इति साधारणादनुपसंहारिणो भेदः / दूषयति - व्यर्थविशेषणत्वादिति मूलम् / अत्रेदमसाधकं साध्यवत्तदन्यवृत्तित्वात्, पक्षातिरिक्तपदं व्यर्थम् / असाधकत्वं चैतावन्मात्रेणैव / एवं साध्यात्यन्ताभाववद्वृत्तित्वमेवासाधकत्वे प्रयोजकम्, न तु पक्षातिरिक्तेति विशेषणम् गौरवात् / आशङ्कते - न चेति मूलम् / अत्र साध्यवत्पदस्य प्रयोजनं विरुद्धव्यावृत्तिः, यतो विरुद्धेऽपि साध्यवदन्यवृत्तित्वं वर्तते परं तत्र साधारणत्वं नास्तीति तत्रातिव्याप्तिवारणार्थं साध्यवद्वृत्तित्वे सति इत्युक्तम्, विरुद्धे साध्यवद्वृत्तित्वाभावात् / अत्र सामधत्ते - इत्युक्तमिति / विरुद्धोऽपि साध्याभाववद्वृत्तित्वेन रूपेण साधारण एवेति तद्वयावृत्त्यर्थं विशेषणमनुचितमेवेति साधारणग्रन्थे उक्तमित्यर्थः / मतान्तरेऽनुपसंहारिलक्षणं दूषयति - नापीति मूलम् / अत्यन्ताभावप्रतियोगिसाध्यं यस्य तत्त्वे सति केवलान्वयिधर्मेणावच्छिन्नो यः पक्षः तत्कत्वम् / सद्धेतौ अतिव्याप्तिवारणार्थं सत्यन्तम्, यथा सर्वमभिधेयं प्रमेयत्वात् इत्यत्र सर्वस्मिन् यदाऽभिधेयत्वस्य निश्चयः तदानुमानं सिषाधयिषया भवति / तत्र सद्धेतौ केवलान्वयिधर्मावच्छिन्नपक्षकत्वं वर्ततेऽनुपसंहारित्वं नास्ति तस्य सर्वत्र निश्चयात् / अतोऽत्यन्ताभावप्रतियोगिसाध्यकत्वं तत्र नास्तीति नातिव्याप्तिः / अथ पर्वतो वह्निमान् धूमात् इति सद्धेतौ अत्यन्ताभावप्रतियोगिसाध्यकत्वं वर्तते परमनुपसंहारित्वं नास्तीति केवलान्वयीत्यादि / दूषयति - सर्वमभिधेयमिति मूलम् / सर्वमभिधेयं प्रमेयत्वात् इत्यत्र यदा सर्वस्मिन् अभिधेयत्वरूपसाध्यसन्देहेन पक्षता वर्तते तस्यां दशायामयमनुपसंहारी, यत्र सर्वस्मिन् पक्षे साध्यसन्देहः स एवानुपसंहारीति / तथा च तत्राव्याप्तिः, यतस्तत्रात्यन्ताभावप्रतियोगिसाध्यकत्वं नास्ति अभिधेयत्वरूपसाध्यस्य [253 B] अत्यन्ताभावप्रतियोगित्वाभावादिति अव्याप्तिः / एतदेवाह - विप्रतिपत्त्येति मूलम् / ननु न विप्रतिपत्तिविषयत्वं पक्षत्वम्, अपि तु साध्यसन्देहविषयत्वं पक्षत्वम् / यदि विप्रतिपत्तिविषयत्वं पक्षत्वं तदा क्षितिः सकर्तृका कार्यत्वात् इत्यत्र अङ्कुरे सर्गाद्यकालीनवेदघटलिप्यादिसम्प्रदायेषु सकर्तृकत्वविप्रतिपत्ति स्ति, क्षितावेव सकर्तृकत्वविप्रतिपत्तिः, यतः क्षितेः सकर्तृकत्वसाधनार्थमे