________________ हेत्वाभासप्रकरणे सव्यभिचारः 487 इदं न कस्यापि मतम् / अथ पक्षीयोऽपि साध्यघटितव्यभिचारसन्देहो व्याप्तिग्रहप्रतिबन्धको न भवतीत्यत्रानुकूलां सम्मतिमाह - अत एवेति टीका / अत एव मूलकृता पक्षतासम्पत्तये पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यादौ घटादौ पक्षतासम्पत्तये सन्देहः पृथगुपपादितः पृथवीत्वेन ते भवत इति सन्देहसिषाधयिषे भवत इति ग्रन्थेन / तथा च यदि पक्षीयोऽपि व्यभिचारसन्देहः प्रतिबन्धकः स्यात् तदा पूर्वं व्यतिरेकिग्रन्थे मूलकारेण यत् उक्तं घटादौ इतरभेदसन्देहो नास्ति ततः सन्देहाभावात् घटादौ इतरभेदानुमितिर्न स्यादिति पूर्वपक्षयित्वा घटत्वेन रूपेण यद्यपि इतरभेदसंशयो नास्ति तथापि पृथिवीत्वेन रूपेण घटादावपि इतरभेदसंशयो वर्तत एव यथा पृथिवी इतरभिन्ना न वेति घटस्यापि पृथिवीकोटौ प्रक्षिप्तत्वात् घटेऽप्युक्तरूपः सन्देहस्तत्र वर्तत एवाति] व्यतिरेकिग्रन्थे सिद्धान्तितम् [250 A] / ततो यदि पक्षीयोऽपि व्यभिचारसन्देहः प्रतिबन्धकः स्यात् तदा घटादौ इतरभेदानुमित्यर्थं तस्योपपादना व्यभिचारसंशयस्योपपादना किमर्थं कृता स्यात्, न हि प्रतिबन्धकस्योपपादना अनुमित्यर्थं क्रियते / उपसंहरति - तस्मादिति टीका / प्रतिबन्धकत्वं फलबलकल्प्यम् / यादृशे व्यभिचारसन्देहेऽनुमिति!देति तादृशस्यैव प्रतिबन्धकत्वं कल्प्यं भवति। ततः किमित्यत आह - तथा चेति टीका / तथा चान्वयिनि व्याप्यनिश्चये पक्षीयो व्यापकसंशयो न दोषः, व्यतिरेकिणि च व्यापकाभावनिश्चये पक्षीयव्याप्यसन्देहो न प्रतिबन्धकः / तथा च इदं सन्देहद्वयं पक्षीय प्रतिबन्धकं तु न भवत्येव, तादृशे संशये विद्यमानेऽपि अनुमितेर्दर्शनात् / तत् संशयद्वयं तु प्रतिबन्धकं न भवत्येव / तथा च पक्षीयसाध्यव्यभिचारसन्देहस्य प्रतिबन्धकत्वाभावे व्यतिरेकिवत् असाधारणेऽपि व्याप्तिग्रहो भवत्येव / ततः सिद्धमसाधारणेनापि सत्प्रतिपक्षोत्थापनं कर्तव्यमिति सत्प्रतिपक्षोत्थापनद्वारा एव दूषकत्वम् / पूर्वोक्तं दूषणमाशङ्क्योद्धरति - न चेति टीका / यदि असाधारणस्य सत्प्रतिपक्षोत्थापकतयैव दूषकत्वं तदास्य सत्प्रतिपक्षात् भेदो न स्यात् / सत्प्रतिपक्षेऽपि विरोधिपरामर्शद्वयर्विधयैक(व) दूषकत्वम् / असाधारणेऽपि तथैवेत्यभेद इत्याशङ्कार्थः / समाधत्ते - हेतुभेदेति टीका / सत्प्रतिपक्षे हेतुद्वयमत्र तु एक एवेति विशेषः / अत्राशङ्कते - न चेति टीका / तथा चासाधारणः सत्प्रतिपक्षविशेष एव भवतु, न तु हेत्वाभासान्तरमिति / समाधत्ते - स्वतन्त्रेच्छाया इति / शमदमादिसम्पन्नस्य महामुनेः अक्षपादस्य इच्छाया नियोगपर्यनुयोगं कर्तुं कः समर्थः / तस्मात् यादृशी इच्छा मुनेरिच्छा तादृश एव विभागः, कथमन्यथा धर्माधर्मयोः पृथग् विभागः स्यात् अदृष्टत्वेन एकत्वस्यैव सम्भवात् / अन्यथा बाधकमाह - यदि विभागे स्वतन्त्रेच्छा न नियामिका तदा साक्षात्प्रतिबन्धकत्वेन बाधसत्प्रतिपक्षयोरप्येक एव विभागः स्यात् / बाधे विद्यमाने साक्षादेवानुमितिर्न जायते, सत्प्रतिपक्षे च विद्यमाने साक्षादेवानुमिति(न) र्जा(जा)यते; न तु कारणं व्याप्तिज्ञानं पक्षधर्मताज्ञानं वा ताभ्यां विघट्यते, व्याप्तिपक्षधर्मताज्ञानोत्तरमेव बाधसत्प्रतिपक्षयोरुदयात् / यथा गन्धप्रागभावावच्छिन्नो घटो