________________ 488 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका गन्धवान् पृथिवीत्वात् इत्ययं साध्याभावप्रमारूपो बाधः, स च व्याप्तिपक्षधर्मताज्ञानोत्तरमेवोदेति / व्याप्तिस्तु पृथिवीत्वगन्धवत्त्वयोर्वर्तते एव पक्षधर्मताऽपि पृथिवीत्वस्य घटेऽस्त्येव / ततः गन्धप्रागभावकाले गन्धाभावात् साध्याभावरूपो बाधः / एवं सत्प्रतिपक्षेऽपि यत उभयोर्हेत्वोर्यदि व्याप्तिपक्षधर्मताज्ञानं तुल्यं तदैव सत्प्रतिपक्षावतारः / स च व्याप्तिपक्षधर्मताज्ञानोत्तरमेवेति [250 B] बाधप्रतिरोधयोः साक्षात्प्रतिबन्धकत्वेन एकास्मिन्] एवानयोर्विभागे परिगणनं स्यात् / अथ सत्प्रतिपक्षासाधारणयोर्भेदकान्तरमप्याह - वस्तुत इति टीका / सत्प्रतिपक्षासाधारणयोरयमेव भेदः यतः(त्) सत्प्रतिपक्षे उभयत्र हेतुद्वये व्याप्तिपक्षधर्मताज्ञानम् / न हि सत्प्रतिपक्षे एकत्र व्याप्तिपक्षताज्ञानम् / कुतः ? एकत्र हेतौ व्याप्तिपक्षधर्मताज्ञानेऽपरत्र व्याप्त्यभावज्ञाने स्वरूपासिद्धत्वज्ञाने सत्प्रतिपक्षतापत्तेः / एतदेवाह - अन्यथेति / न ह्येवमसाधारणे उभयत्र व्याप्तिपक्षधर्मताज्ञानम् / असाधारणे तु एकत्रैव हेतौ व्याप्तिपक्षधर्मताज्ञानम्, यथा शब्दोऽनित्यः शब्दत्वात् इत्यत्रं नित्यत्वव्यापकाभावप्रतियोगित्वम् अनित्यत्वव्यापकाभावप्रतियोगित्वमपि शब्दत्वस्यैव शब्दत्वस्यैव पक्षधर्मताज्ञानम् इति कृत्वा सत्प्रतिपक्षाऽसाधारणयोर्महान् भेदः / अत्रार्थे मूलकारस्य सम्मतिमाह - तदिदमुक्तमिति टीका / द्वौ हेतू सत्प्रतिपक्षे, एको हेतुरसाधारणे इंति मूलकारेणेति भावः / दूषणान्तरं निराकरोति - यस्त्विति टीका / यथा उपाधिः व्यभिचारानुन्नयनदशायामुपाधिज्ञानेऽप्यनुमितिप्रतिबन्धकत्वाभावात् व्यभिचारोन्नयने चानुमितिप्रतिबन्धकत्वात् परमुखनिरीक्षकतया हेत्वाभासो न भवति तथाऽसाधारणोऽपि विरुद्धव्यतिरेकि(क)व्याप्तिपक्षधर्मताज्ञानविषयतादशायामेव अनुमितिप्रतिबन्धात् विरुद्धव्यतिरेकव्याप्तिपक्षधर्मताज्ञानं यदा नास्ति तदाऽनुमितिप्रतिबन्धाभावात् परमुखनिरीक्षकस्वतन्त्रं हेत्वाभासत्वं न स्यात् / समाधत्ते - तत्तथैवेति टीका। विरुद्धव्यतिरेकव्याप्तिपक्षधर्मताज्ञानविरहदशायां हेत्वाभासत्वं तस्य नास्त्येव किन्तु तद्दशायामेव / अत एवानित्यदोषत्वमसाधारणस्य / तथा च यथा व्यभिचारास्फूर्तिदशायां साध्यव्यापकत्वादिज्ञाने नोपाधिरस्ति, असाधारणे तु यदा विरुद्धव्याप्तिपक्षधर्मताज्ञानं नास्ति तदाऽसाधारणत्वमेव तस्य नास्ति, विरुद्धव्याप्तिग्रहदशायामेवासाधारणत्वं तदा परमुखनिरीक्षकत्वाभावादसाधारणस्य हेत्वाभासत्वमेवेत इदमेवाह - तद्विषयीभूतस्यैवेति टीका / विरुद्धव्यतिरेकव्याप्तिपक्षधर्मताज्ञानविषयस्यैवेत्यर्थः / ननु विरुद्धव्यतिरेकव्याप्तिपक्षधर्मताज्ञानविरहदशायामपि कुतोऽस्य हेत्वाभासत्वं नास्तीत्यत आह - तत्त्वस्यैवेति / अनुमितिप्रतिबन्धकत्वघटितं हेत्वाभासत्वं तच्च विरुद्धेत्यादिविरहदशायां नास्ति, अतस्तद्विरहदशायां तस्य हेत्वाभासत्वं नास्तीत्यर्थः / अत्रैवानुकूलमुपोद्वलकमाह - अत एवेति टीका / [251 A] यदा विरुद्धव्याप्तिपक्षधर्मताज्ञानं वर्तते तदनन्तरं यदि एकत्र नित्यत्वांशेऽनित्यत्वांशे वाऽनुकूलतर्कावतारो जातस्तदाऽसाधारणत्वं नास्ति, विरुद्धव्यतिरेकव्याप्तिपक्षधर्मताज्ञानविषयत्वाभावात् तदानीमसाधारणत्वं नास्त्येवेत्यर्थः / अतिप्रसङ्ग इति /