SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे सव्यभिचारः 485 विरोधो नास्ति सपक्षविपक्षव्यावृत्तत्वस्य सत्त्वात् / विरुद्धेति टीका / विरुद्धयोर्यो व्याप्तिग्रहो यथा नित्यत्वनित्यत्वाभावा(व)साधकयोर्विरुद्धयोर्यो व्याप्तिग्रहः स पक्षान्तर्भावेन वक्तव्यः / अयमाशयः - विरुद्धव्याप्तिपक्षधर्मताज्ञानद्वयं हि सत्प्रतिपक्षः, तथा पक्षे विरुद्धव्याप्तिपक्षधर्मताज्ञानद्वयं वक्तव्यम्, तच्च द्वयं याभ्यां सपक्षविपक्षव्यावृत्तिहेतौ निश्चितसाध्यवद्व्यावृत्तत्वमप्यस्ति निश्चितसाध्याभाववव्यावृत्तत्वमप्यस्ति ततोऽनयोः सपक्षव्यावृत्तत्वविपक्षव्यावृत्तत्वयोर्विरोध एव नास्तीति कथमनयोः सत्प्रतिपक्षोत्थापकत्वम्, यतः तच्च विरुद्धव्याप्तिपक्षधर्मताज्ञानद्वयं तद्धि यन्मूलकं तयोर्विरोधो वक्तव्यः, तच्च सपक्षविपक्षव्यावृत्तत्वमूलकम्, तयोश्च विरोधी(धा)भावात् एकस्मिन् पक्षवृत्तिहेतौ द्वयोः सत्त्वात् न सत्प्रतिपक्षोत्थापकत्वमिति स्पष्टोऽर्थः / एतावताऽसाधारणस्य सत्प्रतिपक्षोत्थापकतया दूषकत्वं निरस्तम् / पुनरत्रैवार्थे दूषणमाह - सत्प्रतिपक्षे चेति / तथा च यदि असाधारणस्य सत्प्रतिपक्षोत्थापकत्वेन दूषकत्वं तदा सत्प्रतिपक्षेऽसाधारण्यं नोद्भावनीयमेव / कुतः ? असाधारणेनापि सत्प्रतिपक्ष एव कर्तव्यः / यथा पर्वतो वह्निमान् धूमात् पर्वतो वन्यभाववान् पर्वतत्वात् इति द्वौ विरुद्धौ सत्प्रतिपक्षौ सिद्धौ, तत्र प्रथमानुमानवादिना द्वितीयानुमानवादिनं प्रति पर्वतत्वे हेतावसाधारण्यं नोद्भावनीयं स्यात् असाधारण्येन किं कर्तव्यम् / यदि सत्प्रतिपक्षः कर्तव्यः सत्प्रतिपक्षस्तु पूर्वं सिद्ध एव / दोषस्तु स एव कर्तव्यो यो नास्ति। यतः पर्वतत्वस्य हेतोर्येनासाधारण्यमुद्भावनीयं तेनासाधारणेन पर्वतत्वस्य सत्प्रतिपक्षः कर्तव्यः, तस्य सत्प्रतिपक्षो धूमवत्त्वरूपस्तिष्ठत्येव तनैव वह्नः साधनात् / ततः सत्प्रतिपक्षेऽसाधारण्यं नोद्भावनीयं स्यादित्यर्थः / अत्र शङ्कते - न चेति टीका। सत्प्रतिपक्षेऽसाधारण्योद्भावनं नास्त्येवेतीष्टापत्तिरित्यर्थः / दूषयति [249 A] कथकैारिराति टीका / कथकैः स्वसम्प्रदायानुरोधेन सत्प्रतिपक्षेऽप्यसाधारण्यमुद्भाव्यते / तथा च तेषां सम्प्रदायेन सह विरोधः / ननु तर्हि असाधारण्यं कथं दोष इत्यत आह - तस्मादिति टीका / उभयव्यावृत्तत्वग्रहस्य सपक्षविपक्षव्यावृत्तत्वग्रहस्येत्यर्थः / व्याप्तिग्रहसामग्रीत्वेनेति / विरुद्धव्याप्तिग्रहसामग्रीत्वेनेत्यर्थः / तथा च यथा सत्प्रतिपक्षस्थले द्वयोर्हेत्वोर्विरुद्धानुमितिसामग्रीत्वेन परस्परकार्यप्रतिबन्धकत्वात् नानुमितिस्तथा सपक्षव्यावृत्तत्वविपक्षव्यावृत्तत्वज्ञानयोर्विरुद्धव्याप्तिग्रहसामग्रीत्वेन परस्परव्याप्तिग्रहप्रतिबन्धकत्वात् नैकव्याप्तिग्रहोदयः, तथा चासाधारणस्य सत्प्रतिपक्षोत्थापकत्वं * नास्ति, किन्तु विरुद्धव्याप्तिग्रहसामग्रीत्वेन परस्परव्याप्तिग्रहप्रतिबन्धकत्वेनैवासाधारणस्य हेत्वाभासत्वम् / एतदर्थे दृष्टान्तमाह - विरोध्यनुमितीति टीका / यथा सत्प्रतिपक्षे द्वयोः परामर्शयोः विरुद्धानुमितिसामग्रीत्वेन परस्परानुमितिप्रतिबन्धकत्वाद् दूषकत्वं तद्वत् अत्रापीत्यर्थः / तथा चैतन्मते परस्परव्याप्तिग्रहप्रतिबन्धकत्वेनैव दूषकत्वम्, न तु सत्प्रतिपक्षोत्थापनद्वारा इत्येतन्मतस्यार्थः / इदं पक्षधरमिश्रमतम् / अथ स्वमतमाह - अत्र बूम इति / असाधारणस्य सत्प्रतिपक्षोत्थापकत्वे यानि दूषणानि मिश्रेण दत्तानि तानि क्रमेणोद्धरति -
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy