________________ 484 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तदा व्यभिचारोत्थापकोपाधिवत् परमुखनिरीक्षकत्वमेव स्यात् / यथोपाधेः साध्यव्यापकत्वसाधनाव्यापकत्वज्ञाने विद्यमानेऽनुमितिप्रतिबन्धोऽपि नास्ति न वानुमितिकारणं विद्यते किन्तु व्यभिचारोत्थापकतया दूषणम्, तथा च यावत्पर्यन्तं व्यभिचारो नोत्थापितस्तावत्पर्यन्तमुपार्न दूषकत्वम्, एवमुपाधेः परमुखनिरीक्षकतया न हेत्वाभासत्वम्, एवमसाधारणेनापि यदि यावत्पर्यन्तं सपक्षविपक्षव्यावृत्तात्वाज्ञाने विद्यमानेऽपि विरोधिपरामर्शो नोत्थापितस्तावत्पर्यन्तमेतस्य न दूषकत्वम्, तेन विरोधिपरामर्शो यदोत्थाप्यते तदैव दूषणमिति परमुखनिरीक्षकत्वात् हेत्वाभासत्वमेवास्य नास्तीति क्व अन्तर्भावबहिर्भावादिचिन्ता / दूषणान्तरमाह - किञ्चेति टीका / तथा च अनेन असाधारणेन विरोधिपरामर्श एतादृश उद्भावनीयः यः प्रथमो विपक्षव्यावृत्तत्वज्ञानेन क्रियते नित्यत्वव्यापकाभावप्रतियोगिमान् अयम् इति अनित्यत्वानुमित्यनुकूल एव / द्वितीयस्तु अनित्यत्वस्य . व्यापकोऽयमभावः शब्दत्वाभावस्तत्प्रतियोगिमान् अयम् अनेनानित्यत्वाभावः साध्यते स च प्रतिकूल एव / तथा चानित्यत्वव्यापकाभावप्रतियोगिमान् अयम् इत्यस्यैव परामर्शस्योत्थापनद्वारा दूषकता वक्तव्या / सापि न सम्भवति / अनित्यत्वव्यापकाभावप्रतियोगिमत्त्वज्ञानं तु विरुद्धत्वज्ञानमेव / यतः साध्याभावो यो नित्यत्वं तद्व्याप्यशब्दत्ववान् अयम् इति परामर्शो न सम्भवति यतः साध्याभाववतो हेतोावृत्तत्वात् किन्तु व्यतिरेकपरामर्श एव, तथा चानित्यत्वव्यापकाभावप्रतियोगिमान् अयम् इति परामर्शः साध्याभावस्यैवेति विरुद्धत्वम् / ततो विरुद्ध एव असाधारणस्यान्तर्भावः / दूषणान्तरमाह - अपि चेति टीका / यदि असाधारणे सपक्षविपक्षव्यावृत्तत्वज्ञानमपि वक्तुमशक्यम् / तदेवाह - यतो वृत्तिमतो धर्मस्य साध्यतदभावान्यतरवृत्तित्वनियमात् / अयमर्थः - यो धर्मो वृत्तिमान् तस्य साध्यतदभावोभयव्यावृत्तत्वमसम्भवि विरोधात् तयोः / एतदेव विवृणोति - वृत्तिमत्त्वेनेति / यदि तस्य शब्दत्वादेर्धर्मस्य वृत्तिमत्त्वनिश्चयः तदा साध्यतदभावान्यतराधिकरणवृत्तित्वनिश्चयः, न तु उभयाधिकरणव्यावृत्तत्वज्ञानम् / यथा घटो यदि वह्निमति न वर्तते तदाऽवश्यं वढ्यभावाधिकरणे वर्तते, यदि च स वन्यभावाधिकरणे न वर्तते तदा वह्निमति अवश्यं वर्तते इति / इदमुपसंहरति - सपक्षविपक्षव्यावृत्तत्वस्य चेति। [248 B] एकत्र असाधारणे साध्यतदभाववद्वयावृत्तत्वज्ञानं वा दूषकताबीजं किं वा सपक्षविपक्षव्यावृत्तत्वज्ञानं वा ? आद्यं तु वृत्तिमतो धर्मस्य ग्रहीतुमशक्यमेवोक्तरीत्या / द्वितीयं तु सपक्षविपक्षव्यावृत्तत्वज्ञानं सपक्षत्वविपक्षत्वे च साध्यतदभावनिश्चयगर्भे तथा च सपक्षविपक्षव्यावृत्तत्वे च वृत्तिमतो धर्मस्य ग्रहीतुं शक्ये तथापि तयोः सपक्षविपक्षव्यावृत्तयोः विरोधाभावात् विरोधिपरामर्शद्वयं ताभ्यामुत्थापयितुं न शक्येते(क्यते) / यतोऽनयोः सपक्षव्यावृत्तत्वविपक्षव्यावृत्तत्वयोर्विरोधो नास्ति एकस्मिन् धर्मिण्युभयोः सम्भवात् / अयमर्थः - यः पक्षवृत्तिधर्मो हेतुरूपः सन्निश्चितसाध्यवतः सपक्षात् व्यावृत्तः निश्चितसाध्याभाववद्रूपविपक्षादपि व्यावृत्तः, अतस्तृतीयः प्रकारोऽप्यस्ति इति कृत्वा