________________ हेत्वाभासप्रकरणे सव्यभिचारः 481 व्यतिरेकिण उच्छेदः स्यात् / कुत इत्यत आह - सर्वत्रेति टीका / तथा च सर्वत्र व्यतिरेकिणि व्यापको यो हेत्वभावस्तस्याभावः पृथिवीत्वं तद्रूपो यो हेतुः तस्य निश्चयो वर्तते / पक्षे पृथिव्यामितरभेदाभावरूपव्याप्याभावस्य सन्देहात् सन्दिग्धानेकान्तिकत्वं व्यभिचारसन्देहः, व्यापकाभावरूपो यो हेतुस्तन्निश्चये व्याप्याभावरूपो य इतरभेदाभावस्तस्य सन्देहात् सन्दिग्धानैकान्तिकत्वम्, तल्लक्षणमुक्तरूपम् / शङ्कां दूषयति - यत्रेति टीका। यद्यपि व्यतिरेकिणि तादृशः सन्देहः व्यापकाभाववत्तया निश्चिते व्याप्यसन्देहः सन्दिग्धव्यभिचारः प्रतिबन्धको भवत्येव तथापि यत्र यत्र व्यतिरेकिस्थले तर्कावतारो जातः यथा यदि पृथिवीत्ववति इतरभेदाभावः स्यात् तत्रा(दा) तत्र पृथिवीत्वमपि न स्यात् इति तर्केण [तत्र तत्र] सन्दिग्धानैकान्तिकस्य निवारणात् तेन तादृशतर्कावतारेण व्यभिचारसन्देहो(हे) निरस्तै(स्ते)ऽनुमितेः सुखेन सम्भव इत्यर्थः / समाधानान्तरमाह - यस्येति टीका / यस्य व्यतिरेकिणोऽप्रसिद्धमेव साध्यं सिध्यति तत्र साध्याज्ञाने साध्याभावरूपस्य व्याप्यस्य सन्देहो(हा)भावात् कथं व्यभिचारसन्देहः स्यादित्यर्थः / तथा च व्यभिचारसन्देहाभावात् व्यतिरेकिणि नानुमितौ किञ्चित् प्रतिबन्धकमिष्यते इति भावः / अत्राशङ्कते - न चात्रापीति टीका / तथा च यथा व्यतिरेकिणि तर्कावतारेण [246 B] व्यभिचारसन्देहे निरस्ते व्यतिरेक्यनुमितिर्जायते तद्वत् अत्रापि असाधारणस्थले तर्कावतारेण यथा यदि शब्दत्ववत्यपि नित्यत्वाभावोऽनित्यत्वं स्यात् तदा शब्दे शब्दत्वमेव न स्यात् इति तर्केण व्यभिचारज्ञाने निरस्ते नित्यत्वाभावस्य शब्दत्वाभावस्य च व्यतिरेकसहचारे यत्र यत्र नित्यत्वाभावस्तत्र तत्र शब्दत्वाभाव इति रूपेण व्यतिरेकव्याप्तेहो भविष्यति इति असाधारणेऽपि विरुद्धव्याप्तिग्रहे सति सत्प्रतिपक्षावतारो भविष्यत्वेवेत्याशङ्कार्थः / समाधत्ते - एककोटीति टीका / यदि उभयविरुद्धव्याप्तिग्रहानुकूलसामग्रीसमवधाने एकत्रानुकूलतर्कावतारस्तिष्ठति तदा उत्तरनित्यत्वानुमितौ जातायां पूर्वानुमानस्य दुर्बलत्वात् सत्प्रतिपक्ष एव न सम्भवति / स एव हि सत्प्रतिपक्षो यत्रोभयानुमानं तुल्यबलं भवति, तत्रैव परस्परकार्यप्रतिबन्धेन सत्प्रतिपक्षता भवति / ततोऽसाधारणस्य सत्प्रतिपक्षोत्थापकत्वं नास्तीति भावः / यदि चोत्तरानुमानेऽनुकूलतर्कावतारो नास्ति तदा सव्यभिचारज्ञानेन व्याप्तिप्रतिबन्धे कृते कुतः तस्य सत्प्रतिपक्षत्वम् / अतः पक्षीयोऽपि व्यभिचारसन्देहो व्याप्तिग्रहप्रतिबन्धक इत्यत्र मूलकारसम्मतिमाह - अत एवेति टीका / तथा च शब्दोऽनित्यः शब्दत्वात् इत्यत्र शब्दस्य पक्षतादशायां साध्यतदभावयोरनिश्चयात् असाधारणस्य दोषत्वम् / एतावता पक्षीयोऽपि साध्यव्यभिचारो व्याप्तिग्रहप्रतिबन्धको भवत्येव / अन्यथा पक्षतादशायां साध्यतदभावानिश्चयेनेति किमर्थमुक्तं स्यात् इत्यर्थः / मूलकारस्यायमभिप्रायः पक्षे साध्यसन्देहस्य साध्याभावव्यापकाभाववत्तया निश्चिते व्याप्यसन्देहस्य प्रतिबन्धकत्वात् / ननु भवतु व्यापकाभाववत्तया निश्चिते व्याप्यसन्देहस्य प्रतिबन्धकत्वम्, तथाप्युभयत्र नित्यत्वपक्षेऽनित्यत्वपक्षे चोभयत्रापि तर्कावतारात् उभय