________________ 480 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका शब्दत्वाभावस्याभावः शब्दत्वम्, तत् शब्दे निश्चितं वर्तते / अथ च व्याप्यो यो नित्यत्वाभावो नाम अनित्यत्वम्, तच्च पक्षे सन्दिग्धमिति कृत्वा पक्षे व्यभिचारसन्देहस्य विद्यमानत्वात् न व्याप्तिग्रहः सत्प्रतिपक्षानुमाने सन्दिग्धानैकान्तिकदूषणग्रस्तत्वात् इति भावः / अथ पक्षीयो व्यभिचारसन्देहो न व्याप्तिग्रहप्रतिबन्धक इत्याशयेन शङ्कते - न चानुमान इति टीका / यदि च पक्षीयोऽपि व्यभिचारसन्देहो दूषणं स्यात् तदाऽनुमानमात्रोच्छेदः स्यात् / पर्वतो वह्निमान् धूमात् इत्यत्र पक्षे साध्यात्यन्ताभाववद्वृत्तित्वस्य सन्देहो वर्तत एव धूमवत्तया निश्चिते पर्वते वह्नः सन्देहात् / तथा च व्यभिचारस्य दलद्वयम् - एकं साध्याभाववत्त्वरूपम्, द्वितीयं च साध्याभावाधिकरणे हेतोर्विद्यमानत्वलक्षणं दलम् / तन्मध्ये हेतोर्विद्यमानत्वलक्षणं यद् दलं तनिश्चितं साध्याभावाधिकरणत्वलक्षणं यद् दलं तच्च सन्दिग्धमिति कृत्वा सन्दिग्धव्यभिचारः स पक्षीयो यथा.न दूषणं तथा शब्दे पक्षे शब्दत्वाभावाभावरूपं यत् शब्दत्वं तद्वत्तया निश्चिते शब्दे यो नित्यत्वाभावस्य सन्देहः सोऽपि पक्षीयो व्यभिचारसन्देहो भवतीति सोऽपि न दूषणमित्याशङ्कार्थः / इदं दूषयति - तावतापीति टीका / द्विविधो हि पक्षीयो व्यभिचारसन्देहः - एको व्यापकाभाववत्तया निश्चिते व्याप्सन्देहः, द्वितीयो व्याप्यवत्तया निश्चितव्यापकसन्देहः / प्रथमो यथा यत्र धूमस्तत्र वह्रिरिति व्याप्तौ व्यापको वह्निस्तदभाववत्तया निश्चिते हृदे यदि धूमसन्देहस्तदा आद्यः / द्वितीयस्तु धूमवत्तया निश्चिते पर्वते यो वढ्यभावसन्देहः / तत्र द्वितीयस्य प्रतिबन्ध- . कत्वाभावेऽपि आद्यस्य व्यापकाभाववत्तया निश्चिते व्याप्यसन्देहरूपस्यावश्यं प्रतिबन्धकत्वम् / अन्यथा वह्नयभाववत्तया निश्चिते ह्रदे धूमस्य [246 A] वृत्तित्वसन्देहः स्वो(सो)ऽप्यनुमितिप्रतिबन्धको न स्यात् / तथा च व्यापकाभाववत्तया निश्चिते व्याप्यसन्देहोऽवश्यं प्रतिबन्धको भवत्येव / तथा च प्रकृते सत्प्रतिपक्षानुमाने शब्दो नित्यः शब्दत्वात् इतिरूपे व्याप्यो नित्यत्वाभावः, तस्य व्यापकः शब्दत्वाभावः, तदभावो यः शब्दत्वं तद्वत्तया निश्चिते शब्दे नित्यत्वाभावरूपस्य व्याप्यस्य यः सन्देहः स प्रतिबन्धको भवत्येव / एतदेवाह - व्यापकाभाववत्तया निश्चिते इति टीका / तथा च व्यापकाभाववत्तया निश्चिते पक्षे व्याप्यसन्देहस्तु अवश्यं प्रतिबन्धको भवत्येव / तथा च शब्दोऽनित्यः शब्दत्वात् इत्यत्र व्यापकः शब्दत्वाभावः तदभावः शब्दत्वं तद्वत्तया शब्दत्ववत्तया निश्चिते शब्देऽनित्यत्वाभावरूपस्य व्याप्यस्य सन्देहस्य विद्यमानत्वात् तथा कथं शब्दत्वनित्यत्वयोः सत्प्रतिपक्षानुमानव्याप्तिग्रहः स्यात् / अत्राशङ्कते - न चैवमिति टीका / यदि व्यापकाभाववत्तया निश्चिते व्याप्यसन्देहो प्रतिबन्धकस्तदा व्यतिरेकिणोऽनुमितिर्न स्यात् / तथाहि यत्र इतरभेदाभावस्तत्र पृथिवीत्वाभाव इति व्यतिरेकव्याप्तिग्रहो न स्यात् / कुतः ? अत्र इतरभेदाभावो व्याप्यः पृथिवीत्वाभावो व्यापकः तथा च व्यापकस्य पृथिवीत्वाभावस्याभावः पृथिवीत्वं तस्य पृथिव्यां निश्चयात् व्याप्यस्य इतरभेदाभावस्य सन्देहात् / पृथिव्यामितरभेदाभावः सन्दिग्धः पृथिवीत्वस्य निश्चय इत्यनेन प्रकारेण